ब्रह्म᳚जूतस्त॒न्वा᳚ वावृधा॒नो भूरि᳚दात्र॒ आपृ᳚ण॒द्रोद᳚सी उ॒भे ॥
पदपाठः (Word-by-word)
ब्रह्म᳚॑जूतः । त॒न्वा᳚ । व॒वृ॒धा॒नः । भूरि᳚॑दात्रः । आ । अ॒पृ॒ण॒त् । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वामित्रः स्तौति । पूर्र्भिदसुरपुरां भेत्ता अत एव विदद्वसुर्वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्युक्तः शत्रूनसुरान्वि दयमानो विशेषेण हिम्सन् । तथा च यास्कः । विदद्वसुर्दयमानो वि शत्रूनिति हिम्साकर्मा । नि. ४-१७ । इति । तादृश इन्द्रो दासं दस्यतेऽनेन तम इति दासो वासरः । तमर्कैरर्चनीयैः स्वतेजोभिरातिरत् । समन्ताव्दवर्धयत् इन्द्रस्य सूर्यात्मकत्वात् । तथा च स्मृतिः । चैत्रमासे तपेदिन्द्र इति । इक्ञ्च । ब्रह्मजूतो ब्रह्मणा स्तोत्रेणाकृष्टः । यद्वा ब्रह्मणा जगत्स्रष्ट्रा प्रेरितस्तन्वा स्वशरीरेण वावैधानो वर्धमानो भूरिदात्रः । दायते लूयतेऽनेन शत्रुशिर इति दात्रमायुधम् । बहुविधायुधोपेतः । तादृश इन्द्र उभे रोदसी द्यावापृथिव्यापपृणत् । सर्वतोऽतर्पयत् । पूर्भित् । भिदिर् विदारणे । क्विप् । अतिरत् तरतेर्व्यत्ययेन शः । ऋत इद्धातोरितित्वम् । निघातः । दासम् । करणे घञ् । ञित्स्वरः । विदद्वसुः । विदेरन्तर्भावितण्यर्थस्य शतर्यदादित्वाच्छपो लुकि सति प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदस्वरः । दयमानः । दय दानगति रक्शण हिंसाग्रहणेषु । आत्मनेपदी । लटः शानच् । न लोकाव्ययेति षष्ठी पतिषेधः । ववृधानः । वृधु वर्धने । कानचि रूपम् । सम्हितायामभ्यासस्य तुजादित्वाद्दीर्घः । भुरिदात्रः । दाप् लवने । करणे दाम्नीत्यादिना ष्ट्प्र्न्प्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः । अपृणत् । पृण प्रीण न इत्यस्य लङि तुदादित्वाच्छः । निघातः । रोदसी । रुदेरसुनि रूपम् । नित्स्वरः ॥ १ ॥