वृ॒जने᳚न वृजि॒नान्त्सं पि᳚पेष मा॒याभि॒र्दस्यू{4}᳚र॒भिभू᳚त्योजाः ॥
पदपाठः (Word-by-word)
वृ॒जने᳚न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः᳚ । दस्यू᳚न् । अ॒भिभू᳚ति॑ओजाः ॥
सायणभाष्यम् (Sayana Commentary)
महो महतोऽस्यैतादृशसामर्थ्यस्येन्द्रस्य महानि महनीयानि पुरूणि बहूनि सुकृता सुश्ठु कृतानि कर्म वृत्रहननादीनि कर्माणि पनयन्ति । स्तुवन्ति । इन्द्रस्य कर्म सुकृता पुरूणीत्येतत्पदकदम्बकमत्रार्थभेदात्पदकालेनोत्सृज्यते तादृश इन्द्रो वृजनेन । वर्ज्यन्ते शत्रवोऽनेनेति वृजनं बलम् । तेन बलेन वृजिनान्पापरूपानसुरान् सं पिपेष । सम्यक् चूर्णीचकार । तथाभिभुत्योजाः । अभिभूतिः शत्रुविषयोऽभिभवः । ततौजो बलमस्येत्यभिभूत्योजाः । शत्रूणां पराभवे समर्थः । तादृश इन्द्रो दस्यूनुपक्षपयितॄनसुरान्मायाभिः कपटैः सं पिपेष । पनयन्ति । पनतेः स्तुत्यर्थस्य गुपुधूपविच्छिपणिपनिभ्य इत्यायप्रत्ययः । ह्रस्वश्छान्दसः । निघातः । वृजनेन । व्रुजी वर्जने । कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः । व्रुजिनान् । वृजी वर्जने । व्रुजेः किच्च । उ. २-४७ । इति निच् प्रत्ययः । व्रुजिनं पापम् । तद्वन्तः । अर्श आदित्वादच् । एकादेशस्वरः । पिपेष । पिश्लृ सञ्चूर्नन इत्यस्य लिटि णलि रूपम् । निघातः । अभिभूत्योजो यस्येति सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरिति समासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ६ ॥