तृतीयं मण्डलम् - सूक्तम् 29

16 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 3.29 - सम्पूर्णम्

1 / 16
ऋक्: 3.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
3.29.1
अस्ती॒दम᳚धि॒मन्थ᳚न॒मस्ति᳚ प्र॒जन᳚नं कृ॒तम् ।
ए॒तां वि॒श्पत्नी॒मा भ᳚रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । इ॒दम् । अ॒धि॒॑मन्थ᳚नम् । अस्ति᳚ । प्र॒॑जन᳚नम् । कृ॒तम् ।
ए॒ताम् । वि॒श्पत्नी᳚म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्व॑था᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोऽध्वर्य्वादीन्प्रतिब्रूते । इदमग्न्यर्थं युपकशकलमस्त्वधिमथनम् । अरण्या उपरि निधेयं मन्थनसाधनभूतं दण्डरज्ज्वादिकमस्ति । प्रजननमग्नि जननसाधनभूतं दर्धपिञ्जूलं कृतं सम्पादितमस्त्ति । यद्वा । प्रजननं मन्थनदण्डस्य विन्यासविशेषः । यस्मादेतानि यूपशकलादीन्यग्निमन्थनसाधनान्याहृतानि सन्ति तस्माद्विश्पत्नीं विशां प्रजानामग्निसाध्याग्निहोत्रद्वारा स्वर्गादिफलसम्पादनेन पालयित्रीमेतामरणीमाभर । हे अध्वर्यो आहर । तस्यामाहृतायां पूर्वथा यथा वयमाधानकालेऽग्निममथ्निम यथा वा पूर्वे महर्षयोऽग्निममन्थिषुस्तद्वद्वयमेनमग्निमस्मिन्कर्णि मन्थाम । मन्थनेन निष्पन्नं करवाम । अस्तीति पदद्वयस्य पादादित्वादनिघातः । विश्पत्नीम् । पतिशब्दस्य विभाषा सपुर्वस्येति ङीप् नकारश्चान्तादेशः । परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । भर । हृञ् हरण इत्यस्य लोटि हृग्रहोर्भश्छन्दसीति भकारः । मन्थाम । मन्थ विलोडने । लोटि रूपम् । निघातः । पूर्वथा । पुर्वशब्दादिवार्थे प्रत्नपुर्वविश्वेमात्फाल् छंसीति थाल् प्रत्यय लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १ ॥

3.29.2 समानपद
अ॒रण्यो॒र्निहि᳚तो जा॒तवे᳚दा॒ गर्भ᳚ इव॒ सुधि᳚तो ग॒र्भिणी᳚षु ।
दि॒वेदि᳚व॒ ईड्यो᳚ जागृ॒वद्भि᳚र्ह॒विष्म᳚द्भिर्मनु॒ष्ये᳚भिर॒ग्निः ॥
▶ पदपाठः (Word-by-word)
अ॒रण्योः᳚ । नि॑हि᳚तः । जा॒त॑वे᳚दाः । गर्भः᳚॑इव । सु॑धि᳚तः । ग॒र्भिणी᳚षु ।
दि॒वे॑दि᳚वे । ईड्यः᳚ । जा॒गृ॒वत्॑भिः᳚ । ह॒विष्म᳚त्॑भिः । म॒नु॒ष्ये᳚भिः । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदाः सर्वविषयज्ञानवानयमग्निररण्योर्निहितः । देवैर्यज्ञार्थं निरतां स्थापितोऽस्ति । अत्र दृष्ठान्तः । गर्भ इवेति । यथा गर्भो गर्भिणीषु स्त्रीषु सुधितः सुष्ठु निहितो वर्तते तद्वक् । स तादृशोऽग्निर्हविष्मद्भिः सम्भृतहविष्कैरत एव जागृवद्भिः कर्मणि जागरूकर्मनुष्येभिर्मनुष्यैरस्माभिर्दिवे दिवे प्रत्यहमुत्पत्त्यर्थमीड्यः । स्तुतिरूपाभिर्गीर्भि स्तोतव्यः ॥ अरण्योः । ऋ गतौ अर्ति सृधृधमीत्यादिना अनिः । प्रत्ययस्वरः । निहितः । दधातेः कर्मणि निष्ठायाम् दधातेर्हिरिति हिरादेशः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । सुधितः । दधातेः कर्मणि निष्ठा । तस्मिन् सुधित वसुधितेत्यादिना निपाताद्धिरादेशः । दिवे दिवे । दिवु क्रीडादौ । इगुपधलक्षणः कः । नित्यवीप्सयोरिति द्विर्वचनम् । तस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । जागृवद्भिः । जागृ निद्राक्षय इत्यस्य क्वसौ रूपम् । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यमिति विकल्पितत्वाद्द्विर्वचनाभावह् । वसुस्रंसुध्वंस्वनडुहां दः । पा. ८-२-७२ । इति वसोः सकारस्य दत्वम् । प्रत्ययस्वरः ॥ २ ॥

3.29.3 समानपद
उ॒त्ता॒नाया॒मव᳚ भरा चिकि॒त्वान्त्स॒द्यः प्रवी᳚ता॒ वृष᳚णं जजान ।
अ॒रु॒षस्तू᳚पो॒ रुश᳚दस्य॒ पाज॒ इळा᳚यास्पु॒त्रो व॒युने᳚॑जनिष्ट ॥
▶ पदपाठः (Word-by-word)
उ॒त्ता॒नाया᳚म् । अव᳚ । भ॒र॒ । चि॒कि॒त्वान् । स॒द्यः । प्र॑वी᳚ता । वृष᳚णम् । ज॒जा॒न॒ ।
अ॒रु॒ष॑स्तू᳚पः । रुश᳚त् । अ॒स्य॒ । पाजः᳚ । इळा᳚याः । पु॒त्रः । व॒युने᳚ । अ॒ज॒नि॒ष्ट॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चिकित्वान् ज्ञानवानध्वर्युस्त्वमुत्तानायामधरारण्यामुत्तानशयायामुत्तरारणिमव भर । अधोमुखां धारय । अनन्तरं साधारारणिः सद्यःप्रवीता तदानीमेव निषिक्तरेतस्का सती वृषणं कामानां वर्षकमग्निं जजान । जनयतु । अथास्याग्नेरुशत्तमो विनाशयत् पाजस्तेजोमात्रं तत्राभूत् । अनन्तरमरुषस्तूप आरोचमानतेजः संघोपेत इळायास्पुत्र उत्तरवेद्या उत्पन्नोऽग्निर्वयुनेऽरण्यां योनिस्थानेजनिष्ट । अजनि ॥ जजान । जन जनने । लोडर्थे लिटि बहु लुमन्यत्रापि संज्ञा छन्दसोरिति णिलोपः । प्रत्ययान्तत्वाभावादाम्न भवति । निघातः । अरुषस्तूपः । न विद्यते रुषः क्रोधो यस्येत्यरुषः । क्रोधराहित्येन रोचमान इत्यर्थः । नञ् सुभ्यामित्युत्तर पदान्तोदात्तत्वम् । ष्टुञ् स्तुतौ । स्तौतेर्दीर्घश्च उ.३-३-५ । इति प प्रत्ययः किच्च धातोर्दीर्घश्च । स्तूयत इति स्तूपस्तेजः सम्घः । अरुष आरोचमानस्तेजः संघो यस्येति बहुव्रीहौ पूर्वपदस्वरः । रुशत् । रुश हिम्सायाम् । शतरि रूपम् । वयुने । अज गतिक्षेपणयोः । अजि यमि शीङ् भ्यश्चेत्युनन् चित्संज्ञकः । अजति वीयते वा वयुनमङ्गम् । प्रत्ययस्य व्यत्ययेनाद्युदात्तत्वम् । अजनिष्ट । जनी प्रादुर्भावे । लुङि सिचि रूपम् । निघातः ॥ ३ ॥

3.29.4
इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या अधि᳚ ।
जात᳚वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह᳚वे ॥
▶ पदपाठः (Word-by-word)
इळा᳚याः । त्वा॒ । प॒दे । व॒यम् । नाभा᳚ । पृ॒थि॒व्याः । अधि᳚ ।
जात᳚॑वेदः । नि । धी॒म॒हि॒ । अग्ने᳚ । ह॒व्याय᳚ । वोळ्ह᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदो जातप्रज्ञ हे अग्ने अध्वर्व्यादयो वयं पृथिव्यां अधि भूमेरुपर्युत्तरवेद्यां नाभा नाभौ तस्या नाभिस्थाने मध्यप्रदेशे । तदेव स्थान विशेष्यते । इळायाः पदे मानव्या इडाया गोः पद इडापदरूअ उत्तरवेद्यात्मके स्थाने त्वा त्वां हव्याय वोळ्हवे पुरोडाशादिलक्षणं हविर्वोढुं नि धीमहि । निदधीमहि । उक्तार्थे ब्राह्मणम् । इळायास्त्वा पदे वयंनाभा पृथिव्या अधीत्येदद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनं भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यन्भवति । ऐ. ब्रा. १-२८ । इति नाभा । णहबन्धने । इञित्यनुवृत्तौ नहो भश्चेतीञि भकारह्चान्तादेशः । ञित्त्वादुपधावृद्धिः । नह्यतीति नाभिर्मध्यस्थानम् । सुपां सुलुगिति सप्तम्या डादेशः । ञित्स्वरः । धीमहि । दधातेर्लिञि रूपम् । लिङः सीयुट् । पा. ३-४-१०२ । इति सीयुट् । द्विर्वचनाभावश्छान्दसः । निघातः । वोळ्हवे । वह प्रापणे । तुमर्थे तवेन् । सहिवहोरोदवर्णस्येति धात्वकारस्यौत्वम् । धत्वधत्वष्टुत्वढलोपाः । नित्त्वादाद्युदात्तः ॥ ४ ॥

3.29.5
मन्थ᳚ता नरः क॒विमद्व᳚यन्तं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कम् ।
य॒ज्ञस्य᳚ के॒तुं प्र᳚थ॒मं पु॒रस्ता᳚द॒ग्निं न᳚रो जनयता सु॒शेव᳚म् ॥
▶ पदपाठः (Word-by-word)
मन्थ᳚त । न॒रः॒ । क॒विम् । अद्व᳚यन्तम् । प्र॑चे᳚तसम् । अ॒मृत᳚म् । सु॒॑प्रती᳚कम् ।
य॒ज्ञस्य᳚ । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता᳚त् । अ॒ग्निम् । न॒रः॒ । ज॒न॒य॒त॒ । सु॒॑शेव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्माणां नेतारो हे अध्वर्व्यादयः कविं क्रान्तदर्शिनमद्वयन्तम् द्वयमनाचरन्तमद्वैतं कुर्वाणं मनसा वाचा चैकविधमेव कर्म कुर्वाणमत एव प्रचेतसं प्रकृष्टज्ञानोपेतममृतं मरणधर्मरहितं सुप्रतीकं शोभनैरङ्गैर्ज्वालाभिः समेतं तमिममग्निं मन्थत । मन्थनेन निष्पादयत । किञ्च । हे नरः कर्माणां नेतारोऽध्वर्य्वादयो यूयं यज्ञस्य ज्योतिष्टोमादेः केतुं प्रज्ञापकं प्रथमं मुख्याङ्गभूतम् । अग्निपूर्वकत्वात्सर्वेषामुत्तरक्रतूनाम् । सुशेवं शोभनसुखोपेतम् तादृशमग्निं पुरस्तात्कर्मणः प्रारम्भे जनयत । तमिममग्निमेवंगुणयुक्तं कुरुतेति भावः । मन्थत । मन्थ विलोडने । लोटि रूपम् । पादादितादनिघातः । नरः । णी ञ प्रापणे नयतेर्दिच्च । उ. २-२५७ । इति ऋप्रत्ययः । डित्त्वाट्टिलोपः । नयन्ति कर्माणि नीयन्ते कर्माण्येभिरिति वा नरः । आमन्त्रितत्वान्निघातः । अद्वयन्तम् । द्वयमिवाचरतीत्यर्थे सर्वप्रातिपदिकेभ्यः क्विप् वक्तव्य इत्याचारार्थे क्विप् । द्वयति । तस्य शतरि रूपं द्वयन्निति । न द्वयन्नद्वयन् । तम् । तत्पुरुषे नञ् स्वरः । सुप्रतीकम् । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । जनयत । जनी प्रादुर्भावे । णिच् । अत उपधाया इति वृद्धौ प्राप्तायां जनीजॄष्क्नसुरंजोऽमन्ताश्चेति मिद्वद्भावान्मितां ह्रस्व इति ह्रस्वः । निघातः । सुशेवम् । शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहावाद्युदात्तं द्वच्छन्दसीत्युत्तरपदाद्युदात्तत्वं ॥ ५ ॥

3.29.6
यदी॒ मन्थ᳚न्ति बा॒हुभि॒र्वि रो᳚च॒ते॑श्वो॒ न वा॒ज्य᳚रु॒षो वने॒ष्वा ।
चि॒त्रो न याम᳚न्न॒श्विनो॒रनि᳚वृत॒ः परि᳚ वृण॒क्त्यश्म᳚न॒स्तृणा॒ दह᳚न् ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । मन्थ᳚न्ति । बा॒हु॑भिः᳚ । वि । रो॒च॒ते॒ । अश्वः᳚ । न । वा॒जी । अ॒रु॒षः । वने᳚षु । आ ।
चि॒त्रः । न । याम᳚न् । अ॒श्विनोः᳚ । अनि᳚॑वृतः । परि᳚ । वृ॒ण॒क्ति॒ । अश्म᳚नः । तृणा᳚ । दह᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यध्वर्व्यादयो बाहुभिः स्वकीयैर्हस्तैरग्निं मन्थन्ति मथ्नन्ति ततह् स जातोऽग्निर्वनेषु काष्ठेषु वाजी शीघ्रगमनवान् अरुष आरोचमानः सर्वेषां प्रीतिकरः सन् अ वि रोचते । आ समन्ताद्विशेषेण दीप्यते । तत्र दृष्ठान्तः । अश्वोनेति । यथाश्वो वनेषु वननीयेषु वाह्यालिस्थानेषु वेगवानारोचमानो वर्तते तद्वत् । तत्रैव दृष्ठान्तान्तरम् । चित्रो नेति । यथा यामन् यामनि वेगगमनेऽश्विनोर्देवभिषजोश्चित्रो नानाविधवर्णो रथ आरोचमानो वर्तते तद्वत् । अनिवृतः केनाप्यप्रतिबद्धगमनः सोऽयमग्निरश्मन उपलान् तृणा तृणानि च दहन् भस्मसात्कुर्वन् परि वृणक्ति । दग्धस्थानानि परितो वर्जयति । तादृशोऽगिरारोचत इति पुर्वेणान्वयः । मन्थन्ति । मन्थ विलोडने । लटि रूपम् । यदियोगाद निघातः । रोचते । रुच दीप्तौ भौवादिकः । लिटि रूपम् । निघातः । यामन् या प्रापने । अतो मनिन्द्वनिब्वनिपश्चेति मनिन् । सुपां सुलुगित्यादिना सप्तम्या लुक् । नित्स्वरः । अनिवृतः । वृञ् वरणे । निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । निपूर्वो वृणोतिर्निवारणे वर्तते । न निवृतोऽनिवृतः । नञ्स्वरः । वृणक्ति । वृजी वर्जने रुधादिः । चोः कुरिति कुत्वम् । निघातः । तृणा । तृह हिम्सायाम् । तृहेः क्नो हलोपश्च । उ. ५-८ । इति क्नः कित्त्वादगुणः । हलोपश्च । तृह्यते तद्गवादिभिरिति तृणम् । नित्स्वरः ॥ ६ ॥

3.29.7
जा॒तो अ॒ग्नी रो᳚चते॒ चेकि᳚तानो वा॒जी विप्र᳚ः कविश॒स्तः सु॒दानु᳚ः ।
यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद᳚धुरध्व॒रेषु᳚ ॥
▶ पदपाठः (Word-by-word)
जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि᳚तानः । वा॒जी । विप्रः᳚ । क॒वि॒॑श॒स्तः । सु॒॑दानुः᳚ ।
यम् । दे॒वासः᳚ । ईड्य᳚म् । वि॒श्व॒॑विद᳚म् । ह॒व्य॒॑वाह᳚म् । अद᳚धुः । अ॒ध्व॒रेषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातो मन्थनानन्तरमुत्पन्नः स च चेकितानो सर्वं जानानः सन् वाजी सततगमनस्वभावो विप्रः कर्माभिज्ञोऽत एव कविशस्तः कविभिर्मेधाविभिर्होतृभिः स्तुतः सुदानुः सुष्ठु कर्मफलस्य दाता एवं विधोऽग्नी रोचते । दीप्यते । हे वासो देवा इन्द्रादय ईड्यं होत्रादिभिः स्तुत्यं विश्वविदम् सर्वस्य जगतो वेदितारम् यमग्निमध्वरेषु ज्योतिष्टोमादियज्ञेषु हव्यवाहं हव्यानां वोढारमदधुर्व्यदधुः सोऽग्निर्दीप्यत इति पूर्वेणान्वयः ॥ चेकितानः । कित ज्ञान इत्यस्य यट्लुकि गुणो यङ्लुकोरित्यभ्यासस्य गुणः । अभ्यस्तानामादिरित्याद्युदात्तत्वं कविशस्तः । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । अदधुः । दधात्रेलुङि झेः सिजभ्यस्तविदिभ्यश्चेति जुस् । यद्वृत्तयोगादनिघातः । अडागमस्वरः ॥ ७ ॥

3.29.8
सीद᳚ होत॒ः स्व उ᳚ लो॒के चि᳚कि॒त्वान्त्सा॒दया᳚ य॒ज्ञं सु᳚कृ॒तस्य॒ योनौ᳚ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद्यज᳚माने॒ वयो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
सीद᳚ । हो॒त॒रिति᳚ । स्वे । ऊं॒ इति᳚ । लो॒के । चि॒कि॒त्वान् । सा॒दय᳚ । य॒ज्ञम् । सु॒॑कृ॒तस्य᳚ । योनौ᳚ ।
दे॒व॒॑अ॒वीः । दे॒वान् । ह॒विषा᳚ । य॒जा॒सि॒ । अग्ने᳚ । बृ॒हत् । यज᳚माने । वयः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानो ब्रूते । होतर्होमनिष्पादक हे अग्ने स्वे स्वकीये लोक उत्तरवेद्या नाभौ सीदो त्वं होमनिमित्तमुपविशैव । तथा चिकित्वान् ज्ञानवांस्त्वं सुकृतस्य सुकृतजन्योपभोगस्य योनौ स्थान उत्तमलोके यज्ञं यज्ञस्य कर्तारं यजमानं सादय । स्थापय । किञ्च देवावीः । देवान् हविष्प्रदानेनावतीति देवावीः । तादृशस्त्पं हविषा पुरोडाशादिलक्षणेन हव्येन देवान् यजासि । यज । अथ त्वं यजमाने यागं कुर्वाणे मयि बृहत्प्रभूतं पशुपुत्रादि समेतं वयोऽन्नं धाः । विधेहि ॥ सीद । सदेर्लोटि रूपम् । सादय । सदेर्ण्यं तस्य लोटिरूपम् । णिच् स्वरः । देवावीः । अव रक्षणादिषु । अवितॄस्तृतन्त्रिभ्यः ईरितीप्रत्ययः । कृदुत्तरपदस्वरः । यजासि । यजेर्लेट्याडागमः । धाः । दधातेश्छान्दसे लुङि रूपं ॥ ८ ॥

3.29.9 समानपद
कृ॒णोत᳚ धू॒मं वृष᳚णं सखा॒यो॑स्रे᳚धन्त इतन॒ वाज॒मच्छ᳚ ।
अ॒यम॒ग्निः पृ᳚तना॒षाट् सु॒वीरो॒ येन᳚ दे॒वासो॒ अस᳚हन्त॒ दस्यू᳚न् ॥
▶ पदपाठः (Word-by-word)
कृ॒णोत᳚ । धू॒मम् । वृष᳚णम् । स॒खा॒यः॒ । अस्रे᳚धन्तः । इ॒त॒न॒ । वाज᳚म् । अच्छ᳚ ।
अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒॑वीरः᳚ । येन᳚ । दे॒वासः᳚ । अस᳚हन्त । दस्यू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोऽध्वर्व्यादीन्प्रति ब्रूते । हे सखायः कर्मसहकारिणो यूयं वृषणं कामानां वर्षितारं धूमम् । धुनोति कम्पयतीति धूमोऽग्निः । एवंविधमग्निं कृणोत । कुरुत । मन्थनेनोत्पादयत । यद्यग्निर्नजायते तदा नीमाह । अस्रेधन्तोऽक्षीणा अनुपरतसामर्थ्याः सन्तो यूयं वाजं मन्थनलक्षणं युद्धमच्छाग्न्याभिमुख्येनेतन । प्रप्नुत । सुवीरः । शोभनसामर्थ्योपेतोऽयमग्निः पृतनाषाट् पृतनोपलक्षितं युद्धं सहमानो भवति । येन युद्धं सहमानेनाग्निना देवासो देवा दस्यूनुपक्षयितृनसुरानसहन्त अभ्यभवन् । तस्मादक्षीणबला यूयं मन्थनं कुरुतेति भावः ॥ कृणोत । कृवि हिंसाकरणयोः । लोटि तप्रत्ययस्य तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । पादादित्वादनिघातः । उप्रत्ययस्वरः । धूमम् । धूञ् कम्पने । इषियुधीन्धिदसीत्यादिना मक् । कित्त्वाद्गुणाभवः । धुनोति कम्पयति दाह्यानीति धूमोऽग्निः । प्रत्ययस्वरः इतन । इण् गतावित्यस्य लोटि तप्रत्ययस्य तनादेशम् । निघातः । पृतनाषाट् । षह मर्षणे । छन्दसि सह इति ण्विः । णित्त्वादुपधावृद्धिः । सहे साडः स इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरः । असहन्त । षह मर्षण इत्यस्य लङि रूपम् । यद्योगादनिघातः । दस्यून् । दसु उपक्षये । यजिमनिशुन्धिदसिजनिभ्यो युजिति युच् । दस्यन्तीति दस्यवः शत्रवः । व्यत्ययेनाद्युदात्तत्वं ॥ ९ ॥

3.29.10
अ॒यं ते॒ योनि᳚रृ॒त्वियो॒ यतो᳚ जा॒तो अरो᳚चथाः ।
तं जा॒नन्न᳚ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ते॒ । योनिः᳚ । ऋ॒त्वियः᳚ । यतः᳚ । जा॒तः । अरो᳚चथाः ।
तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ᳚ । नः॒ । व॒र्ध॒य॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ऋत्वियो वसन्ताद्यृतौ भवोऽयमङ्गुल्या निर्दिश्यमानः पालाशाश्वत्थादिमयः काष्ठविशेषोऽरणिस्ते तव योनिरुत्पत्तिस्थानं यतोऽरणेर्जातस्त्वमरोचथा । आशोभथाः । जानन्स्त्वं तमरणिरूपं काष्ठविशेषमासीद । तस्यामरण्यामारोपितः सन् नैरन्तर्येण तिष्ठ । अथानन्तरं नोऽस्माकं गिरः स्तुतिलक्षणा वाचो वर्धय । यद्वा गीः शब्देन तद्वन्तो लक्ष्यन्ते । तथा स्तोतॄनस्मान् वर्धय । पशुपुत्रादिभिः समृद्धान् कुरु ॥ योनिः । यु मिश्रणे । वहिश्रीत्यादिना निप्रत्ययः । निदित्युक्तत्वादाद्युदात्तः । ऋत्वियः । छन्दसि घसित्यृतुशब्दात्प्राप्तार्थे घस् प्रत्ययः । घस्य इयादेशः । सितीति पदसंज्ञायां ओर्गुणः । पा. ६-४-१४६ । इति संज्ञाधीनो गुणो न भवति । प्रत्ययस्वरः । आरोचथाः । रुच दीप्तावित्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । सीद । सदेर्लोटि पाघ्रेत्यादिना सीदादेशः । निघातः । अथा । निपातस्य चेति साम्हितिको दीर्घः । वर्धय । वृधु वर्धने । हेतुमति णिच् । निघातः ॥ १० ॥

3.29.11 समानपद
तनू॒नपा᳚दुच्यते॒ गर्भ᳚ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय᳚ते ।
मा॒त॒रिश्वा॒ यदमि᳚मीत मा॒तरि॒ वात᳚स्य॒ सर्गो᳚ अभव॒त्सरी᳚मणि ॥
▶ पदपाठः (Word-by-word)
तनू॒३॒᳚॑नपा᳚त् । उ॒च्य॒ते॒ । गर्भः᳚ । आ॒सु॒रः । नरा॒शंसः᳚ । भ॒व॒ति॒ । यत् । वि॒॑जाय᳚ते ।
मा॒त॒रिश्वा᳚ । यत् । अमि᳚मीत । मा॒तरि᳚ । वात᳚स्य । सर्गः᳚ । अ॒भ॒व॒त् । सरी᳚मणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्यदा गर्भोऽरणीषु गर्भरूपतया वर्तते तदा सोऽग्निस्तनूनपादुच्यते । यष्टॄणां तनूः शरीराणि न पातयति न दहतीति व्युत्पत्तेः । यद्वा तनूशब्देनापोऽभिधीयन्ते नपाच्छब्देनैकान्तरिताः प्रजाः । तथा चापां नप्ता । कथमेतत् । आपस्तता अन्तरिक्षे । ताभ्य ऒषधिवनस्पतयो जायन्ते । तेभ्यो ह्येष इति यद्यदा विजायते विशेषेण प्रत्यक्षतया जायते तदासुरः कर्मविघ्नकारिणामसुराणां हन्तात एव नराशंसः नरैः कर्मणां नेतृभिरध्वर्व्यादिभिः शंसनीयो भवति यद्यदा मातर्यन्तरिक्षे स्वं तेजोऽमिमीत निर्मिमीते तदा मातरिश्वा भवति । मातर्यन्तरिक्षे श्वसितीचेष्टत इति व्युत्पत्तेः । एवंविधस्याग्नेः सरीमणि सरणे शीघ्रगमने वातस्य वायोः सर्गः सृष्टिरभवत् भवति । यदाग्निररणीषु गर्भरूपतया वर्तते तदा तनूनपान्नामको भवति । यदा जायते तदा नराशंसनामको भवति । यदान्तरिक्षे विद्योतते तदा मातरिश्वनामको भवतीति ॥ तनूपात् । तनु विस्तारे । कृषिचमितनिधनिसर्जखर्जिभृ ऊरित्यूप्रत्ययः । व्यत्ययेनाद्युदात्तः । नपात् । पा रक्षणे पत् लृ गतौ वा ण्यन्तः क्विप् । नपाति न पातयतीति वा नपात् । नभ्राण् न पान्नवेदा इत्यादिना निपातनान्नञि प्रकृतिभावः नञ्स्वरः । तनूर्न पातीति तनूनपात् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्त उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वम् । आसुरः । असुअस्यायमासुरः । अहितकारित्वेन सम्बन्धी तस्येदमित्यण् । प्रत्ययस्वरः । नराशंसः । नॄ नये । ॠदोरबित्यप् । प्रत्ययस्य त्त्वान्नरशब्द आद्युदात्तः । शन्सु स्तुतावित्यस्माद्घञन्त आद्युदात्तः । नरशब्दस्यान्येषामपि दृश्यत इति दीर्घः । वनस्पत्यादित्वादुभयोः प्रकृतिस्वरत्वं विजायते । जनी प्रादुर्भावे । दिवादित्वात् श्यन् । धातुस्वरः । अमिमीत । माङ् माने शब्दे च । जुहोत्यादिः । भृञामिदित्यभ्यासस्येत्वम् । यद्योगादनिघातः । सरीमणि । सृ गतौ । हृभृसृस्तृसूभ्यः । उ. ४-१४७ । इतीमनिन्प्रत्ययः । नित्स्वरः ॥ ११ ॥

3.29.12
सु॒नि॒र्मथा॒ निर्म᳚थितः सुनि॒धा निहि᳚तः क॒विः ।
अग्ने᳚ स्वध्व॒रा कृ᳚णु दे॒वान्दे᳚वय॒ते य᳚ज ॥
▶ पदपाठः (Word-by-word)
सु॒निः॒॑मथा᳚ । निः॑म᳚थितः । सु॒॑नि॒धा । नि॑हि᳚तः । क॒विः ।
अग्ने᳚ । सु॒॑अ॒ध्व॒रा । कृ॒णु॒ । दे॒वान् । दे॒व॒॑य॒ते । य॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने कविर्मेधावी सुनिर्मथा शोभनेन मन्थनेन निर्मथितः । नितरां मथितोऽसि । तथा सुनिधा शोभनेन निधानेन निहितोऽसि । उत्तरवेद्यादिस्थानेषु नितरां प्रक्षिप्तोऽसि । कि ज्च स्वध्वरास्माभिः क्रियमाणानि कर्माणि सुष्ठु हिंसारहितानि कृणु । कुरु । तथा देवयते देवान्कामयमानाय यजमानाय देवान्यजनीयानिन्दादीन् यज । पूजय ॥ सुनिर्मथा । मथे विलोडने । अस्मात्सम्पदादिलक्षणो भावे क्विप् । प्रादिसमासः । कृदुत्तरपदस्वरः । निर्मथितः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । सुनिघा । निपूर्वस्य दधातेर्भाव आतश्चोपसर्ग इत्यङ् । सुपां सुलुगिति तृतीयाया लुक् । कृदुत्तरपदस्वरः । कृणु । कृवि हिम्साकरणयोरित्यस्य लोटिधिन्विकृण्व्योरच्छेत्युप्रत्ययः । उतश्च प्रत्ययादिति हेर्लुक् । निघातः ॥ १२ ॥

3.29.13
अजी᳚जनन्न॒मृतं॒ मर्त्या᳚सो॑स्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् ।
दश॒ स्वसा᳚रो अ॒ग्रुवः᳚ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र᳚भन्ते ॥
▶ पदपाठः (Word-by-word)
अजी᳚जनन् । अ॒मृत᳚म् । मर्त्या᳚सः । अ॒स्रे॒माण᳚म् । त॒रणि᳚म् । वी॒ळु॑ज᳚म्भम् ।
दश᳚ । स्वसा᳚रः । अ॒ग्रुवः᳚ । स॒मी॒चीः । पुमां᳚सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्यासो मर्त्या ऋत्विजोऽमृतं मरणधर्मरहितं अत एवास्रेमाणं क्षयरहितम् वीळुजम्भं हविर्भक्षणार्थं दृढदन्तं तरणिम् । तरन्ति यजमानाः पापमनेनेति तरणिरग्निः । तमजीजनन् । मन्थनेनोदपीपदन् । अथ जातं तमग्निमभिलक्ष्य स्वसारः सरन्त्यो दश दशसंख्याका अग्रुवः । कर्मकरणार्थमग्रमङ्गन्तीत्यग्रुवोङुलयः । तादृशा अङ्गुलयः समीचीः परस्परं सङ्गताः सत्यः सम्रभन्ते । शब्दं कुर्वते । जातमग्निं दृष्ट्वाध्वर्व्यादयो हर्षाद्धस्तद्वयसम्पुटेन शब्द कुर्वन्तीत्यर्थः । तत्र दृष्टान्तः । पुमांसमिति । यथा जातं पुत्रमुपलभ्य तत्रत्याः पित्रादयो हर्षादुद्घोषन्ति तद्वत् ॥ अजीजनन् । जनी प्रादुर्भाव इत्यस्य ण्यन्तस्य लुङे चङे रूपम् । अस्रेमाणम् । स्रिवु गतिशोषणयोः । भावे मनिन्निति मनिन्प्रत्ययः । लघूपधगुणः । लपो व्योर्वलीति वलोपः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । तरणिं तॄप्लवनतरणयोः । अर्तिसृधृधम्यम्यश्य वितॄभ्योऽनिरित्यनिप्रत्ययः । गुणः । प्रत्ययस्वरः । स्वसारः । असु क्षेपण इत्यस्मात्सुञ्यसेरृन्निति ऋन् प्रत्ययः । सुष्ठु अस्यन्ति कर्मसु पदार्थानिति स्वसारः । न षट् स्वस्रादिभ्यः इति ङीपः प्रतिषेधः । नित्त्वादाद्युदात्तः । अग्रुवः । अगि गतौ । जत्र्वादयश्च । उ. ४-१-२ । इति रुप्रत्ययः । निपातनान्नलोपः । जसि तन्वादित्वादुवङादेशः । प्रत्ययस्वरः । समीचीः । इण् गतावित्यस्मात्समीणः । उ. ४-९२ । इति चट् प्रत्ययो धातोर्दीर्घष्च । टित्त्वाट्ट्ड्ढाणञेत्यादिना ङीप् । संयन्तीति समीच्यः । यद्वा सम्पूर्वस्याञ्चतेः क्विप् । समः समीति समि त्यादेशः । अञ्चतेश्चोपसंख्यानमिति ङीप् । अच इत्याकारलोपः । चाविति दीर्घः । वा छन्दसीति पुर्वसवर्णदीर्घः । एकादशस्वरः । पुमांसम् । पा रक्षण इत्यस्मत्पातेर्डुम्सुन् । उ. ४-१७७ । इति डुम्सुन्प्रत्ययः । पुंसोऽसुङ् । पा. ७-१-८९ । इत्यसुङादेशः । पाति कुलमिति पुमान् । नित्स्वरः । रभन्ते । रभ शब्द इत्यस्य लटि रूपम् । निघातः ॥ १३ ॥

3.29.14 समानपद
प्र स॒प्तहो᳚ता सन॒काद᳚रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध᳚नि ।
न नि मि᳚षति सु॒रणो᳚ दि॒वेदि᳚वे॒ यदसु᳚रस्य ज॒ठरा॒दजा᳚यत ॥
▶ पदपाठः (Word-by-word)
प्र । स॒प्त॑हो᳚ता । स॒न॒कात् । अ॒रो॒च॒त॒ । मा॒तुः । उ॒प॑स्थे᳚ । यत् । अशो᳚चत् । ऊध᳚नि ।
न । नि । मि॒ष॒ति॒ । सु॒॑रणः᳚ । दि॒वे॑दि᳚वे । यत् । असु᳚रस्य । ज॒ठरा᳚त् । अजा᳚यत ॥
▶ सायणभाष्यम् (Sayana Commentary)

सनकात्सनातनोऽग्निः सप्त होता । सप्तहोतारो होत्रका यस्यासौ सप्तहोतासन् प्रारोचत । हार्हपत्यस्थानेऽदीप्यत । यद्यदा मातुः पृथिव्या उपस्थ उत्सङ्गे तत्राप्यूधन्यूधःस्थान उत्तरवेद्यामशोचत् अशोभत तदा सोऽग्निः सुरणः । सुष्ठु रणयति शब्दयतीति सुरणः । सर्वैः कमनीयतया दृश्यमानः सन् दिवे दिवे प्रतिदिनं न निमिषति । न निद्राति । किन्तु सर्वदा यज्ञार्थं जागर्त्येव । यद्यस्मादसुरस्याग्नेः प्रेरकस्यारणीरूपस्य काष्ठस्य जठरादुदरादजायत कर्मार्थमुदपद्यत तस्मान्न निमिशतीति पूर्वेणान्वयः ॥ आरोचत । रुच दीप्तावित्यस्य लङि रूपम् । निघातः । अशोचत् । शुच दीप्तौ । ऊधनि । सकारस्य नकारश्छान्दसः । मिषति । मिषुसेचन इत्यस्य लिटि रूपम् । सुरणः । रण शब्दे । तत्करोतीति णिच् । तस्मादकृच्छ्रार्थे खल् । लित्स्वरः । असुरस्य । असु क्षेपण इत्यस्मादसेरुरन्नित्युरन्प्रत्ययः । अस्यतीत्यसुरः नित्स्वरः । जठरात् । जनी प्रादुर्भाव इत्यस्मात् जनेररष्ठच । उ. ५-३८ । इत्यरप्रत्ययः । थकारश्चान्तादेशः । प्रत्ययस्वरः । अजायत । जनी प्रादुर्भाव इत्यस्य लङेश्यनि ज्ञाजनोर्जेति धातोर्जादेशः । यद्योगादनिघातः ॥ १४ ॥

3.29.15
अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र᳚थम॒जा ब्रह्म᳚णो॒ विश्व॒मिद्वि᳚दुः ।
द्यु॒म्नव॒द्ब्रह्म᳚ कुशि॒कास॒ एरि᳚र॒ एक᳚एको॒ दमे᳚ अ॒ग्निं समी᳚धिरे ॥
▶ पदपाठः (Word-by-word)
अ॒मि॒त्र॒॑युधः᳚ । म॒रुता᳚म्॑इव । प्र॒॑याः । प्र॒थ॒म॒॑जाः । ब्रह्म᳚णः । विश्व᳚म् । इत् । वि॒दुः॒ ।
द्यु॒म्न॑व᳚त् । ब्रह्म᳚ । कु॒शि॒कासः᳚ । आ । ई॒रि॒रे॒ । एकः᳚॑एकः । दमे᳚ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमित्रायुधोऽमित्रैः कर्मविघ्नकारिभिरसुरैः सह योद्धारः । यद्वा अम्त्राणि पापानि । तैः सह योद्धारः । तत्र दृष्टान्तः । मरुतामिव प्रया इति । यथा मरुतां देवानां प्रयाः प्रकर्षेण शत्रूनभियान्तीति प्रया बलानि शत्रूणां हन्तॄणि तद्वत्कर्मविघ्नकारिणां पापानां च हन्तारो ब्रह्मणः सर्वस्य जगतः स्रष्टुः प्रथमजाः प्रथममुत्पन्नाः कुशिकासः कुशिगोत्रोत्पन्ना ऋषयो विश्वं स्थावरजङ्गमात्मकं सर्वं जगद्विदुरित् । जानन्त्येव । तेऽमी कुशिकाद्युम्नवद्धविर्युक्तं ब्रह्मस्तोत्रमेरिरे । अग्नय आ समन्तात् प्रेरयति । ते च दमे स्वे स्वे गृह एक एक एकैको भूत्वाग्निं समीधिरे । आज्याद्याहुतिभिः सम्यग्दीपयन्ति ॥ अमित्रायुधः । युधसम्प्रहरे । क्विप् । कृदुत्तरपदस्वरः । सम्हितायां पुर्वपदस्य दीर्घश्छान्दसः । प्रयाः या प्रापणे । अन्योभ्योऽपि दृश्यन्त इति विच् । प्रथमजाः । जनी प्रादुर्भावे । जन सनेत्यादिना विट् । विड्वनोरित्यात्वम् । विदुः । विदेर्लटि विदो लटो वेति झेरुसादेशः । ईरिरे । ईर गतावित्यस्य लिटि रूपम् । मन्त्रत्वादाम्न भवति । दमे । दमु उपशमने । करणे घञ् । नोदात्तोपदेशस्येति वृद्धिप्रतिषेधः । ञेत्स्वरः । ईधिरे । ञे इन्धी दीप्तावित्यस्य लिटि इन्धिभवतिभ्यां चेति किद्वद्भावान्नकारलोपः । निघातः ॥ १५ ॥

3.29.16 समानपद
यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत᳚श्चिकि॒त्वो॑वृ᳚णीमही॒ह ।
ध्रु॒वम᳚या ध्रु॒वमु॒ताश᳚मिष्ठाः प्रजा॒नन्वि॒द्वा{4} उप᳚ याहि॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । त्वा॒ । प्र॒॑य॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति᳚ । चि॒कि॒त्वः॒ । अवृ᳚णीमहि । इ॒ह ।
ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ठाः॒ । प्र॒॑जा॒नन् । वि॒द्वान् । उप᳚ । या॒हि॒ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होतर्होमनिष्पादक चिकित्वः कर्मविषयज्ञानवन् हे अग्ने अद्येदानीं प्रयति प्रवर्तमानेऽस्मिन् ज्योतिष्टोमादौ यज्ञे त्वा त्वां यद्यस्मात्कारणादवृणीमहि तद्विषयं वरणमकुर्म तस्मात्तदैशस्त्वमिह कर्मणि देवान् ध्रुवमायाः । ध्रुवं यथा भवति तथास्माभिर्दत्तानि हवींषि प्रापय । उत अपि चाशमिष्ठाः । हविः स्वीकरणात्तृप्तैर्देवैः शान्तस्त्वमकारिष्ठा । अथ प्रजानन्निमं यज्ञं सम्यक् जानन्विद्वान्यत्किञ्चित्सर्वं जानानस्त्वं सोममस्माभिः क्रियमाणमिममभिषुतं सोममभिलक्ष्योप याहि । समीप आगच्छ ॥ प्रयति । इण् गतावित्यस्य शतरि रूपम् । शतुरनुम इति विभक्तेरुदात्तत्वः । अवृणीमहि । वृञ् वरणे । क्र्यादित्वात् श्ना । लङ्युत्तमबहुवचन ईहल्यघोरितीत्वम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । अयाः । या प्रापण इत्यस्य लङि सिपि रुपम् । निघातः । अशमिष्थाः । शमु उपशमन इत्यस्य ण्यन्तस्य कर्मणि लुङे स्यसिच् सीयुट् । पा. ६-४-६२ । इति विकल्पेनेडागमः । तस्यासिद्धत्वाण्णेरनिटिति णिलोपः । निघातः । प्रजानन् । ज्ञा अवबोधने । शतरि रूपम् । याहि । यातेर्लोटि रूपं ॥ १६ ॥