श्रवणम्

3.29.1
अस्ती॒दम᳚धि॒मन्थ᳚न॒मस्ति᳚ प्र॒जन᳚नं कृ॒तम् ।
ए॒तां वि॒श्पत्नी॒मा भ᳚रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । इ॒दम् । अ॒धि॒॑मन्थ᳚नम् । अस्ति᳚ । प्र॒॑जन᳚नम् । कृ॒तम् ।
ए॒ताम् । वि॒श्पत्नी᳚म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्व॑था᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोऽध्वर्य्वादीन्प्रतिब्रूते । इदमग्न्यर्थं युपकशकलमस्त्वधिमथनम् । अरण्या उपरि निधेयं मन्थनसाधनभूतं दण्डरज्ज्वादिकमस्ति । प्रजननमग्नि जननसाधनभूतं दर्धपिञ्जूलं कृतं सम्पादितमस्त्ति । यद्वा । प्रजननं मन्थनदण्डस्य विन्यासविशेषः । यस्मादेतानि यूपशकलादीन्यग्निमन्थनसाधनान्याहृतानि सन्ति तस्माद्विश्पत्नीं विशां प्रजानामग्निसाध्याग्निहोत्रद्वारा स्वर्गादिफलसम्पादनेन पालयित्रीमेतामरणीमाभर । हे अध्वर्यो आहर । तस्यामाहृतायां पूर्वथा यथा वयमाधानकालेऽग्निममथ्निम यथा वा पूर्वे महर्षयोऽग्निममन्थिषुस्तद्वद्वयमेनमग्निमस्मिन्कर्णि मन्थाम । मन्थनेन निष्पन्नं करवाम । अस्तीति पदद्वयस्य पादादित्वादनिघातः । विश्पत्नीम् । पतिशब्दस्य विभाषा सपुर्वस्येति ङीप् नकारश्चान्तादेशः । परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । भर । हृञ् हरण इत्यस्य लोटि हृग्रहोर्भश्छन्दसीति भकारः । मन्थाम । मन्थ विलोडने । लोटि रूपम् । निघातः । पूर्वथा । पुर्वशब्दादिवार्थे प्रत्नपुर्वविश्वेमात्फाल् छंसीति थाल् प्रत्यय लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १ ॥