जात᳚वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह᳚वे ॥
पदपाठः (Word-by-word)
जात᳚॑वेदः । नि । धी॒म॒हि॒ । अग्ने᳚ । ह॒व्याय᳚ । वोळ्ह᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
जातवेदो जातप्रज्ञ हे अग्ने अध्वर्व्यादयो वयं पृथिव्यां अधि भूमेरुपर्युत्तरवेद्यां नाभा नाभौ तस्या नाभिस्थाने मध्यप्रदेशे । तदेव स्थान विशेष्यते । इळायाः पदे मानव्या इडाया गोः पद इडापदरूअ उत्तरवेद्यात्मके स्थाने त्वा त्वां हव्याय वोळ्हवे पुरोडाशादिलक्षणं हविर्वोढुं नि धीमहि । निदधीमहि । उक्तार्थे ब्राह्मणम् । इळायास्त्वा पदे वयंनाभा पृथिव्या अधीत्येदद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनं भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यन्भवति । ऐ. ब्रा. १-२८ । इति नाभा । णहबन्धने । इञित्यनुवृत्तौ नहो भश्चेतीञि भकारह्चान्तादेशः । ञित्त्वादुपधावृद्धिः । नह्यतीति नाभिर्मध्यस्थानम् । सुपां सुलुगिति सप्तम्या डादेशः । ञित्स्वरः । धीमहि । दधातेर्लिञि रूपम् । लिङः सीयुट् । पा. ३-४-१०२ । इति सीयुट् । द्विर्वचनाभावश्छान्दसः । निघातः । वोळ्हवे । वह प्रापणे । तुमर्थे तवेन् । सहिवहोरोदवर्णस्येति धात्वकारस्यौत्वम् । धत्वधत्वष्टुत्वढलोपाः । नित्त्वादाद्युदात्तः ॥ ४ ॥