श्रवणम्

3.29.13
अजी᳚जनन्न॒मृतं॒ मर्त्या᳚सो॑स्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् ।
दश॒ स्वसा᳚रो अ॒ग्रुवः᳚ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र᳚भन्ते ॥
▶ पदपाठः (Word-by-word)
अजी᳚जनन् । अ॒मृत᳚म् । मर्त्या᳚सः । अ॒स्रे॒माण᳚म् । त॒रणि᳚म् । वी॒ळु॑ज᳚म्भम् ।
दश᳚ । स्वसा᳚रः । अ॒ग्रुवः᳚ । स॒मी॒चीः । पुमां᳚सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्यासो मर्त्या ऋत्विजोऽमृतं मरणधर्मरहितं अत एवास्रेमाणं क्षयरहितम् वीळुजम्भं हविर्भक्षणार्थं दृढदन्तं तरणिम् । तरन्ति यजमानाः पापमनेनेति तरणिरग्निः । तमजीजनन् । मन्थनेनोदपीपदन् । अथ जातं तमग्निमभिलक्ष्य स्वसारः सरन्त्यो दश दशसंख्याका अग्रुवः । कर्मकरणार्थमग्रमङ्गन्तीत्यग्रुवोङुलयः । तादृशा अङ्गुलयः समीचीः परस्परं सङ्गताः सत्यः सम्रभन्ते । शब्दं कुर्वते । जातमग्निं दृष्ट्वाध्वर्व्यादयो हर्षाद्धस्तद्वयसम्पुटेन शब्द कुर्वन्तीत्यर्थः । तत्र दृष्टान्तः । पुमांसमिति । यथा जातं पुत्रमुपलभ्य तत्रत्याः पित्रादयो हर्षादुद्घोषन्ति तद्वत् ॥ अजीजनन् । जनी प्रादुर्भाव इत्यस्य ण्यन्तस्य लुङे चङे रूपम् । अस्रेमाणम् । स्रिवु गतिशोषणयोः । भावे मनिन्निति मनिन्प्रत्ययः । लघूपधगुणः । लपो व्योर्वलीति वलोपः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । तरणिं तॄप्लवनतरणयोः । अर्तिसृधृधम्यम्यश्य वितॄभ्योऽनिरित्यनिप्रत्ययः । गुणः । प्रत्ययस्वरः । स्वसारः । असु क्षेपण इत्यस्मात्सुञ्यसेरृन्निति ऋन् प्रत्ययः । सुष्ठु अस्यन्ति कर्मसु पदार्थानिति स्वसारः । न षट् स्वस्रादिभ्यः इति ङीपः प्रतिषेधः । नित्त्वादाद्युदात्तः । अग्रुवः । अगि गतौ । जत्र्वादयश्च । उ. ४-१-२ । इति रुप्रत्ययः । निपातनान्नलोपः । जसि तन्वादित्वादुवङादेशः । प्रत्ययस्वरः । समीचीः । इण् गतावित्यस्मात्समीणः । उ. ४-९२ । इति चट् प्रत्ययो धातोर्दीर्घष्च । टित्त्वाट्ट्ड्ढाणञेत्यादिना ङीप् । संयन्तीति समीच्यः । यद्वा सम्पूर्वस्याञ्चतेः क्विप् । समः समीति समि त्यादेशः । अञ्चतेश्चोपसंख्यानमिति ङीप् । अच इत्याकारलोपः । चाविति दीर्घः । वा छन्दसीति पुर्वसवर्णदीर्घः । एकादशस्वरः । पुमांसम् । पा रक्षण इत्यस्मत्पातेर्डुम्सुन् । उ. ४-१७७ । इति डुम्सुन्प्रत्ययः । पुंसोऽसुङ् । पा. ७-१-८९ । इत्यसुङादेशः । पाति कुलमिति पुमान् । नित्स्वरः । रभन्ते । रभ शब्द इत्यस्य लटि रूपम् । निघातः ॥ १३ ॥