श्रवणम्

3.29.7
जा॒तो अ॒ग्नी रो᳚चते॒ चेकि᳚तानो वा॒जी विप्र᳚ः कविश॒स्तः सु॒दानु᳚ः ।
यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद᳚धुरध्व॒रेषु᳚ ॥
▶ पदपाठः (Word-by-word)
जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि᳚तानः । वा॒जी । विप्रः᳚ । क॒वि॒॑श॒स्तः । सु॒॑दानुः᳚ ।
यम् । दे॒वासः᳚ । ईड्य᳚म् । वि॒श्व॒॑विद᳚म् । ह॒व्य॒॑वाह᳚म् । अद᳚धुः । अ॒ध्व॒रेषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातो मन्थनानन्तरमुत्पन्नः स च चेकितानो सर्वं जानानः सन् वाजी सततगमनस्वभावो विप्रः कर्माभिज्ञोऽत एव कविशस्तः कविभिर्मेधाविभिर्होतृभिः स्तुतः सुदानुः सुष्ठु कर्मफलस्य दाता एवं विधोऽग्नी रोचते । दीप्यते । हे वासो देवा इन्द्रादय ईड्यं होत्रादिभिः स्तुत्यं विश्वविदम् सर्वस्य जगतो वेदितारम् यमग्निमध्वरेषु ज्योतिष्टोमादियज्ञेषु हव्यवाहं हव्यानां वोढारमदधुर्व्यदधुः सोऽग्निर्दीप्यत इति पूर्वेणान्वयः ॥ चेकितानः । कित ज्ञान इत्यस्य यट्लुकि गुणो यङ्लुकोरित्यभ्यासस्य गुणः । अभ्यस्तानामादिरित्याद्युदात्तत्वं कविशस्तः । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । अदधुः । दधात्रेलुङि झेः सिजभ्यस्तविदिभ्यश्चेति जुस् । यद्वृत्तयोगादनिघातः । अडागमस्वरः ॥ ७ ॥