तृतीयं मण्डलम् - सूक्तम् 26

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: वैश्वानरोग्निः छन्दः: जगती

सूक्तम् 3.26 - सम्पूर्णम्

1 / 9
ऋक्: 3.26.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.26.1
वै॒श्वा॒न॒रं मन᳚सा॒ग्निं नि॒चाय्या᳚ ह॒विष्म᳚न्तो अनुष॒त्यं स्व॒र्विद᳚म् ।
सु॒दानुं᳚ दे॒वं र᳚थि॒रं व᳚सू॒यवो᳚ गी॒र्भी र॒ण्वं कु᳚शि॒कासो᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रम् । मन᳚सा । अ॒ग्निम् । नि॒॑चाय्य᳚ । ह॒विष्म᳚न्तः । अ॒नु॒॑स॒त्यम् । स्वः॒॑विद᳚म् ।
सु॒॑दानु᳚म् । दे॒वम् । र॒थि॒रम् । व॒सु॒॑यवः᳚ । गीः॒॑भिः । र॒ण्वम् । कु॒शि॒कासः᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । हे अग्ने हविष्मन्तः सम्भृतहविष्का वसूयवो धनमात्मन इच्छन्तः कुशिकासः कुशिकगोत्रोत्पन्ना वयं वैश्वानरम् । विश्वे नरा अग्निप्रणयनादि क्रियाया नेतारो यस्मेति विश्वानरोऽग्निः तस्य सम्बन्धी वैश्वानरः अपत्यमिति यावत् । यद्वा विश्वानर एव वैश्वानरः । तद्भितोऽनन्यार्थो राक्षसवायसादिवत् । तमनुषत्यं सत्येनानुगतं कर्मानुरूपफलप्रदायिने सत्यप्रतिज्ञं स्वर्विदं स्वर्गादिलक्षणफलस्य ज्ञातारं अत एव सुदानं सुष्ठु फलस्य दातारं रथिरं रथवन्तं अत एव रण्वं यज्ञान्गच्छन्तं देवं द्योतमानं तमिममग्निं मनसा निचाय्य अन्तः करणे नैवविधगुणविशिश्वस्त्वमिति ज्ञात्वा गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्हवामहे । इह कर्मणित्वामाह्वयामः । वैश्वानरम् । नरे संज्ञायामिति पूर्वपदस्य दीर्घत्वम् । विश्वानरस्येदमित्यर्थे तस्येदमित्यण् । प्रत्ययस्वरः । निचाय्य । चायृ पूजनिशामनयोरित्यस्य ल्यपि रूपम् । लित्स्वरः । अनुषत्यम् । अनुगतं सत्येन । अवादयः क्रष्टाद्यर्थे तृतीययेति समासः । सुषामादित्वात्षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । सुदानुम् । डुदाञ् दाने । दाभाभ्यां नुरिति कर्तरि नुप्रत्ययः । परादिश्छन्दसि बहुलुमित्युत्तरपदाद्युदात्तत्वम् । रथिरम् । रथशब्दान्मतुबर्थे मेधारथाभ्यामिरनिरचौ व्यक्तव्यावितीरच् । चित्स्वरः । वसूयवः । वस्वात्मन इच्छन्त इति सुप आत्मनः क्यच् । अकृत्सार्वधातुकर्य्रिति दीर्घः । क्याच्छन्दसित्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरः । रण्वम् । रविर्गत्यर्थः । रण्वति यज्ञान्गच्छ्तीति रण्वः । पचाद्यजन्तः । चित्स्वरः । कुशिकासः । कुशिकशब्दाद्गोत्रमित्यर्थे विदादित्वादञ् । तस्य बहुषु यञञोश्च । पा. २-४-६४ । इति लुक् । हवामहे । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणं निघातः ॥ १ ॥

3.26.2
तं शु॒भ्रम॒ग्निमव᳚से हवामहे वैश्वान॒रं मा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् ।
बृह॒स्पतिं॒ मनु᳚षो दे॒वता᳚तये॒ विप्रं॒ श्रोता᳚र॒मति᳚थिं रघु॒ष्यद᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । शु॒भ्रम् । अ॒ग्निम् । अव᳚से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा᳚नम् । उ॒क्थ्य᳚म् ।
बृह॒स्पति᳚म् । मनु᳚षः । दे॒व॑ता᳚तये । विप्र᳚म् । श्रोता᳚रम् । अति᳚थिम् । र॒घु॒॑स्यद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः पूर्वमन्त्रे प्रतिपादितस्तं शुभ्रं द्योतमानं वैश्वानरं विश्वानरसम्बन्धिनं मातरिश्वानम् । मातर्यन्तरिक्षे श्वसिति विद्युदादिरूपतया चेष्टत इति मातरिश्वाग्निः । तमुक्थ्यमुक्थैः शस्त्रैः शंसनीयं बृहस्पतिं बृहतो यज्ञस्य पतिं पालकतया स्वामिनं विप्रं मेधाविनं श्रोतारं स्तोत्रशस्त्रादिमन्तवाक्यं शृण्वन्तमतिथिमातिथेयपूजार्हतया यदृच्छया प्राप्तं रघुस्यदं लघुस्यदम् । रघुर्लघुः स्यदो वेगो यस्येति क्षिप्रगन्तारम् । यद्वा स्यदशब्देनाध्वा लक्ष्यते रघुस्यदः क्षिप्रगन्तेत्यर्थः । तमेवंविधगुणयुक्तमग्निमवसेऽस्माकं रक्शणाय हवामहे । कुशिकगोत्रजा वयमाह्वयामः । किञ्च । मनुषो मनुष्यस्य देवतातये यज्ञार्थं त्वामाह्वयामः । शुभ्रम् । शुभ दीप्तौ । अस्मात् स्फायितंचीत्यादिना कर्तरि रक् । कित्वाद्गुणाभावः । प्रत्ययस्वरः । मातरिश्वानम् । निर्माणहेतुत्वान्मातान्तरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वाग्निः । श्वन्नुक्षिन्नित्यादिना मातरिश्वञ्छब्दस्य कन्प्रत्ययान्तत्वेन निपातनात्पूर्वपदान्तोदात्तत्वम् । उक्थ्यम् । उक्थेन स्तोत्रेण स्तुत्यः । तत्र भव इत्यर्थे भवे छन्दसीति यत् । तित्स्वरितमिति स्वरितः । देवतातये । देव एव देवतातिः । स्वार्थिकस्तातिल् । देवतातिशब्देन यज्ञो लक्ष्यते तत्सम्प्रदानकत्वाद्यज्ञस्य । लित्स्वरः । रघुष्यदम् । स्यन्दू प्रस्रवण इत्यस्माद्घञन्तः । स्यदशब्दः । स्यदो जव इति निपातनादनुनासिकलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ २ ॥

3.26.3 समानपद
अश्वो॒ न क्रन्द॒ञ्जनि᳚भि॒ः समि᳚ध्यते वैश्वान॒रः कु᳚शि॒केभि᳚र्यु॒गेयु᳚गे ।
स नो᳚ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा᳚तु॒ रत्न᳚म॒मृते᳚षु॒ जागृ᳚विः ॥
▶ पदपाठः (Word-by-word)
अश्वः᳚ । न । क्रन्द᳚न् । जनि᳚॑भिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः᳚ । यु॒गे॑यु᳚गे ।
सः । नः॒ । अ॒ग्निः । सु॒॑वीर्य᳚म् । सु॒॑अश्व्यम् । दधा᳚तु । रत्न᳚म् । अ॒मृते᳚षु । जागृ᳚विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो वैश्वानरोऽग्निः कुशिकेभिः स्तोत्रं कुर्वाणैर्होत्रादिभिर्युगे युगे प्रतिदिनं समिध्यत आज्याहुतिप्रक्षेपेण सम्यक् दीप्यते तत्र दृष्टान्ब्तः अश्वोनेति यथा जातोऽश्वः क्रन्दन् हेषारवं कुर्वन् जनिभिर्जनयित्रीभिर्बडवाभिःस्तन्यप्रदानेन प्रतिदिनं सम्यक् पोष्यते तद्वत् । अमृतेषु मरणधर्मरहितेषु देवेषु मध्येजागृविर्ज्वालया जाग्रत् दीप्यमानः सोऽग्निः सुवीर्यं शोभनापत्ययुक्तं स्वश्व्यं शोभनाश्वादिपशुयुक्तं रत्नमुत्तमं धनं नोऽस्माकं दधातु । विदधातु । प्रयच्छतु ॥ युगेयुगे । नित्यवीप्सयोरिति द्विर्वचनम् । षरस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदप्रकृतिस्वरह् । अश्वशब्दः क्वन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहावाद्युदात्तं द्वच् छन्दसीत्युत्तरपदाद्युदात्तत्तम् । यकारोपजनश्छान्दसः । यद्वा । अश्वेषु साधवोऽश्व्याः । तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । बहुव्रीहौ पूर्वोक्तस्वरः । दधातु । दधातेर्लोटि रूपम् । रत्नम् । रमु क्रीडायाम् । रमेस्त चेत्यधिकरणे नप्रत्ययस्तकारश्चान्तादेशः । रमेऽस्मिन्निति रत्नम् । निदित्यनुवृत्तावाद्युदात्तः । जागृविः । क्विन्प्रत्ययान्तः । नित्त्वादाद्युदात्तः ॥ ३ ॥

3.26.4
प्र य᳚न्तु॒ वाजा॒स्तवि᳚षीभिर॒ग्नयः᳚ शु॒भे सम्मि᳚श्ला॒ः पृष᳚तीरयुक्षत ।
बृ॒ह॒दुक्षो᳚ म॒रुतो᳚ वि॒श्ववे᳚दस॒ः प्र वे᳚पयन्ति॒ पर्व᳚ता{4}॒ अदा᳚भ्याः ॥
▶ पदपाठः (Word-by-word)
प्र । य॒न्तु॒ । वाजाः᳚ । तवि᳚षीभिः । अ॒ग्नयः᳚ । शु॒भे । सम्॑मि᳚श्लाः । पृष᳚तीः । अ॒यु॒क्ष॒त॒ ।
बृ॒ह॒त्॑उक्षः᳚ । म॒रुतः᳚ । वि॒श्व॑वे᳚दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व᳚तान् । अदा᳚भ्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजा वेगवन्तोऽग्नयः प्रयन्तु । जलमभिलक्ष्य गच्छन्तु । गताश्च तेऽग्नयस्तविषीभिर्बलयुक्तैर्मरुद्भिः शुभे जले संमिश्लाः परस्परं सङ्गताः सन्तः पृशतीर्बिन्दूनयुक्षत । अयुन्जन् । जले बिन्दूनकुर्वन् । यद्वा वाजा वेगवन्तोऽगन्यस्तविषीभिर्बलयुक्तैर्मरुद्भिर्जलमनुलक्ष्य प्रयन्तु । गच्छ्न्तु । ते च मरुतः शुभे जले सम्मिश्ला अग्निभिः सङ्गताः सन्तः पृषतीश्चित्रवर्णा वाहनरूपा वडवा अयुक्षत । रथे मेघभेदनार्थे ता अतौक्षुः । रथारूढास्ते विश्ववेदसः प्राणिकृतकर्माभिज्ञानयुक्ता अदाभ्याः केनाप्यतिरस्कार्या मरुत एवं विधा वायवो बृहदुक्षः प्रभूतसेक्तॄन् पर्वतान्मेघान् प्रवेपयन्ति । यथा प्रभूत वृष्टिर्भवति तथा मेघान् चालयन्ति ॥ तविषीभिः । तव गताविति सौत्रोधातुः । अस्मात्तवेर्णिद्वेति टिषच् निच्च । तवन्ति सन्चरन्त्याकाश इति तविषा वायवः । टिड्ढाणञिति ङीप् । लिङ्गव्यत्ययः । नित्त्वादाद्युदात्तः । पृषतीः । पृषु सेचने पॄ पालनपूरण योरिति वा । अस्माद्वर्तमाने पृद्बृहन्महदिति निपातनादतिप्रत्ययः । शतृवद्भवति । उगितश्चेति ङीप् । पर्षन्तीति पृषत्यः शीकराः । पृणन्ति पालयन्तीति पृषत्यो वडवाः । अयुक्षत । युजिर् योग इत्यस्य लुङि सिचि रूपम् । निघातः । बृहदुक्षः । उक्ष सेचन इत्यस्मात् क्विप् । कृदुत्तरपदप्रकृतिस्वरः । वेपयन्ति । टुवेपृ कम्पने । निघातः । पर्वतान् पर्व पुरण इत्यस्मात् भृमृदृशीत्यादिना अतच् । पर्वति पुरयति भूमिमुदकेनेति पर्वतो मेघः । व्यत्ययेनाद्युदात्तः ॥ ४ ॥

3.26.5
अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ᳚ष्टय॒ आ त्वे॒षमु॒ग्रमव᳚ ईमहे व॒यम् ।
ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र᳚तवः सु॒दान᳚वः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नि॒॑श्रियः᳚ । म॒रुतः᳚ । वि॒श्व॑कृ᳚ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः᳚ । ई॒म॒हे॒ । व॒यम् ।
ते । स्वा॒निनः᳚ । रु॒द्रियाः᳚ । व॒र्ष॑नि᳚र्निजः । सिं॒हाः । न । हे॒ष॑क्र᳚तवः । सु॒॑दान᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निश्रियो वैद्युतमग्निं श्रयन्तो विश्वकृष्टयः । विश्वस्य वृक्षादेः कृष्टिराकर्षणं नमनोन्नमनादिलक्षणं कर्मयेभ्यो भवति ते विश्वकृष्टयः । एवं विधाये मरुतो विद्यन्ते तेषां च मरुतां त्वेषं दीप्तमुग्रमुद्गूर्णमवो रक्षणमेमहे । कुशिका वयमा समन्ताद्याचामहे । ते मरुतो रुद्रिया रुद्रपुत्रा वर्षिनिर्णिजः । निर्णिक् शब्दो रूपवाचि निर्णिग्वविरिति तन्नामसु पाठात् । वर्षणं रूपं स्वभावो येषां ते वर्षनिर्णिजो वर्षकाः । हेषक्रतवः । हेषावरस्य क्रतुः करणं येषां ते कृतहेषारवाः सिंहा न सिंहा इव स्वानिनः शब्दवन्तः । एवं विधास्ते मरुतः सुदानवः सुष्ठु जलस्य दातारो भवन्ति ॥ अग्निश्रियः । श्रिञ् सेवायाम् । वचिप्रच्छीत्यादिना क्विप् सम्प्रसारणाभावो धातोर्दीर्घश्च । जसि इयङादेशः । कृत्स्वरः । उग्रम् । गम्लृगतौ । उत्पूर्वः । ऋज्रेन्द्राग्रेति नोपातनाद्रप्रत्ययो मकारलोप उपसर्गास्यान्तलोपश्च । उद्गच्छतीत्युग्रः । प्रत्ययस्वरः । ईमहे । ई कान्तिगत्यादिषु । व्य्त्ययेनात्मनेपदम् । अदादित्वाच्छपोलुक् । निघातः । स्वानिनः । स्वानोघञन्तः । तद्वन्तः । अत इनिठनावितीनिः । पत्ययस्वरः । रुद्रियाः । रुद्रशब्दाच्छान्दसोघः । तस्येयादेश । प्रत्ययस्वरः ॥ ५ ॥

3.26.6
व्रातं᳚व्रातं ग॒णंग᳚णं सुश॒स्तिभि᳚र॒ग्नेर्भामं᳚ म॒रुता॒मोज᳚ ईमहे ।
पृष᳚दश्वासो अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
व्रात᳚म्॑व्रातम् । ग॒णम्॑ग᳚णम् । सु॒श॒स्ति॑भिः᳚ । अ॒ग्नेः । भाम᳚म् । म॒रुता᳚म् । ओजः᳚ । ई॒म॒हे॒ ।
पृष᳚त्॑अश्वासः । अ॒न॒व॒भ्र॑रा᳚धसः । गन्ता᳚रः । य॒ज्ञम् । वि॒दथे᳚षु । धीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कुशिका वयमग्नेर्भामं भासकं मरुतामोजस्तेजो व्रातंव्रातं व्राते व्राते प्रतिसमूहं गणं गणं गणे गणे महति समूहे क्रियमाणाभिः सुशस्तिभिः । शोभनाः शस्तयः स्तुतयो यैर्मन्त्रैः क्रियन्ते ते सुशस्तयः । तैर्मन्त्रैरीमहे । तादृशं मारुतं तेजो याचामहे । पृषदश्वासः । पृषत्यश्चित्रवर्णा अश्वायेषां ते तादृशाः । अनवभ्रराधसः । न विद्यतेऽवभ्रम्शो यस्य तदनवभ्रम् । अनवभ्रं राधो धनं येषां तेऽनवभ्रराधसः । सम्पूर्णधना इति यावत् । दीराः कर्माभिज्ञास्ते मरुतो विदथेषु यज्ञेषु यज्ञं यजनीयं हविरभिलक्ष्य गन्तारो गमनशीला भवन्ति ॥ गणं गणम् । गण संख्याने । पचाद्यच् । नित्यवीप्सयोरिति द्विर्वचनम् । परस्यार्मेडितत्वादनुदात्तत्वे पुर्वपदस्वरः । सुशस्तिभिः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । भामम् । भा दीप्तौ । अर्तिस्तुस्वित्यादिना मन् । नित्स्वरः । ओजः । उब्ज आर्जवे । उब्जेर्बले बलोपश्च । उ. ४-१९१ । इत्यसुन् । तत्सन्नियोगेन बकारलोपः । अर्धधातुकलक्षणो गुणः । नित्स्वरः । ईमहे । कान्त्यादिषु । निघातः । अनवभ्रराधसः । अनवभ्रम् । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्त्वम् । बहुव्रीहौ पूर्वपदस्वरः । गन्तारः । ताच्छीलिकस्तृन् । विदथेषु । विदज्ञाने । रुदिविदिभ्यां किदित्यथप्रत्ययः । कित्त्वादगुणः । विदन्त्यस्मिन्कर्मजातमध्वर्वादय इति विदथो यज्ञः । प्रत्ययस्वरः ॥ ६ ॥

3.26.7
अ॒ग्निर᳚स्मि॒ जन्म᳚ना जा॒तवे᳚दा घृ॒तं मे॒ चक्षु᳚र॒मृतं᳚ म आ॒सन् ।
अ॒र्कस्त्रि॒धातू॒ रज᳚सो वि॒मानो॑ज᳚स्रो घ॒र्मो ह॒विर᳚स्मि॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । अ॒स्मि॒ । जन्म᳚ना । जा॒त॑वे᳚दाः । घृ॒तम् । मे॒ । चक्षुः᳚ । अ॒मृत᳚म् । मे॒ । आ॒सन् ।
अ॒र्कः । त्रि॒॑धातुः᳚ । रज᳚सः । वि॒॑मानः᳚ । अज᳚स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साक्षात्कृतपरतत्त्वरूपोऽग्निर्द्वृचेन स्वात्मनः सर्वात्मकत्वानुभवमाविष्करोति । हे कुशिकाः । भोक्तृभोग्यभावेन द्विविधं हीदं सर्वं जगत् । एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नाद इति श्रुतेः । तत्र सकलभोक्तृवर्गरूपाणान्नादोऽग्निः । स चाग्निवाय्वादित्यभेदेन त्रेधा भूत्वा पृथिव्यन्तरिक्ष द्युलोकानधितिष्ठति । तदुक्तं वाजसनेयके । स त्रेधात्मानं व्यभजत । आदित्यं तृतीयं वायुं तृतीयमिति । तत्र सोऽग्निरहं जन्मनैव जातवेदा अस्मि । श्रवणमननादिसाधननिरचेक्षण स्वभावत एव साक्षात्कृतपरतत्त्वस्वरूपोऽस्मि । घृतं मे चक्षुः । यदेतद्विश्वस्य विभासकं मम स्वभावभूतप्रकाशात्मकं चक्षुस्तद्घृतम् । इदानीमत्यन्तः दीप्तं यदेतदमृतम् कर्मफलं दिव्यादिव्यविविधविषयोवभोगात्मकं तन्मे ममासन् । अस्ये वर्तते । सकलभोक्तृवर्गात्मना स्वयमेवावस्थानात् । एवं स्वात्मनः पृथिव्यधिष्ठातृरूपतामभिधाय वाय्वात्मनान्तरिक्षाधिष्ठातृतामाह । अर्को जगत् स्रष्टा प्राणः । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् । श. ब्रा. १०-६-५ । इति श्रुतेः । स प्राणोऽहं त्रिधातुः । त्रेधात्मानं विभज्य तत्र वाय्वात्मना रजसोऽन्तरिक्षस्य विमानो विमाताधिष्ठातास्मि । तथादित्यरूपेण द्युलोकाधिष्थातृतामाह । अजस्रो घर्म इति । अजस्रोऽनुपक्षीणो घर्मः प्रकाशात्मा द्युलोकाधिष्थातादित्योऽहमस्मि । एवं भोक्तृरूपमात्मनोऽनुसन्धाय भोग्यरूपतामप्यनुसन्धत्ते । यद्धविर्भोग्यं प्रसिद्धमस्ति तदप्यहमेवास्मि । यद्वा । अहमग्निरस्मि । देवानां हविष्प्रापणादङ्गनादिगुणयुक्तोऽस्मि । किञ्च जन्मनोत्पत्त्या जातवेदा जातप्रज्ञोऽस्मि । उत्पत्तिक्षण एव सर्वज्ञोऽहमस्मि अथवा जातं सर्वं स्मात्मरूपतया वेत्तीति जातवेदाः । सर्वात्मक इत्यर्थः । तत्क्थमित्युच्यते । घृतं मे चक्षुः । यदेतद्घृतं प्रसिद्धमस्ति तन्मे चक्षुः स्थानीयम् । यथा लोके चक्षुर्भासकं एवं घृतं मयि प्रक्षिप्तं ज्वालामुत्पादयन्ममभासकम् । अमृतं प्रभारूपं यदमृतमविनाशि ज्योतिर्मे ममासन् । आस्ये वर्तते । त्रिधातुः प्राणापानाव्यानात्मना त्रिधा वर्तमानोऽर्कोऽर्चनीयो यो प्राणोऽस्ति सोऽप्यहमेवास्मि । तथा च रजसोऽन्तरिक्षस्य विमानो विशेषण माता परिच्छेत्ता वायुश्चाहमस्मि । किञ्च । अजस्रो घर्मो नैरन्तर्येण सन्तापकारी सूर्यश्चाहमस्मि । किं बहुना आज्यपुरोडाशादिरूपं यदेतद्धविरस्ति तदुपलक्षितं सर्वमप्यहमस्मि । सर्वं खल्विदं ब्रह्मेति श्रुतेः । नामशब्दः प्रसिद्धौ । तदनेनाग्नेः सर्वात्मकत्वप्रतिपादनेन परब्रह्मत्वमुक्तं भवति ॥ चक्षुः । चक्षिङ् व्यक्तायां वाचि । उसिन्नित्यनुवृत्तौ चक्षेः शिच्चेत्युसिन् । शिद्वद्भावात् ख्याञादेशाभावः । नित्स्वरः । आसन् । आस्य शब्दस्य पद्दन्नोमासित्यादिना आसनादेशः । सुपां सुलुगिति सप्तम्यालुक् । विमानः । माङ् माने । कृत्युल्ल्युटो बहुलमिति कर्तरि ल्युट् । लित्स्वरः । अजस्रः । जसु मोक्षणे । नञ् पूर्वः । नमिकम्पिस्म्यजसकमहिम्सदीपो रः । पा. ३-२-१६७ । इति ताच्छीलिको रप्रत्ययः । नञ् पूर्वो जसिर्नैरन्तर्ये वर्तते नञ्स्वरः । जस उपक्षये वा ॥ ७ ॥

3.26.8
त्रि॒भिः प॒वित्रै॒रपु᳚पो॒द्ध्य१॒᳚र्कं हृ॒दा म॒तिं ज्योति॒रनु᳚ प्रजा॒नन् ।
वर्षि᳚ष्ठं॒ रत्न᳚मकृत स्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वी पर्य᳚पश्यत् ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑भिः । प॒वित्रैः᳚ । अपु᳚पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः᳚ । अनु᳚ । प्र॒॑जा॒नन् ।
वर्षि᳚ष्ठम् । रत्न᳚म् । अ॒कृ॒त॒ । स्व॒धाभिः᳚ । आत् । इत् । द्यावा᳚पृथि॒वी इति᳚ । परि᳚ । अ॒प॒श्य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सर्वात्मकोऽग्निर्हृदान्तःकरणवृत्त्यामतिं मननीयं ज्योतिः स्वप्रकाशरूपं परब्रह्माख्यं तेजोऽनु प्रजानन् श्रवणमननादिक्रमेण प्रकर्षेण सम्शयविपर्यासभावनाबुद्धिनिरासेन स्वात्मरूपतया जानानः सन् पवित्रैः पावनैस्त्रिभिरग्निवायुसूर्यैरर्कमर्चनीयं स्वात्मानमपुपोद्धि । तेभ्योऽपि निर्मलतया पावनं परिच्छिच्छेद खलु यथा दशापवित्रेण सोमं पावयति तद्वत् । एवं जानानोऽग्निर्वर्षिष्ठं स्वात्मानमुत्तमं स्वधाभिः । स्वेन लोकान्दधातीति स्वधा । तैरग्निवायुसूर्यै रत्नं रमणीयमकृत । अकार्षीत् । आदित् अनन्तरमेवमात्मनि ज्ञाते सति द्यावापृथिवी तत्र परिकल्पिते द्यावापृथिवौ तदुपलक्षितं सर्वं जगच्च पर्यपश्यत् । परितः सर्वतः स्वात्मतयाऽदर्शत् । आत्मनि विज्ञाते सर्वमिदं विज्ञातं भव्तीति श्रुतेः । पवित्रैः । पूञ् पवने । अस्मात्कर्तरि चर्षिदेवतयोः । पा. ३-२-१८६ । इति देवतायामभिधेयायां कर्तरि इत्रप्रत्ययः । पुनरेतीति पवित्रा अग्निवायुसूर्याः । प्रत्ययस्वरः । अपुपोत् । पूञ् पवने इत्यस्य यङ् लुगन्तस्य रूपम् । संज्ञा पूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः । यद्धितुपरं छन्दसि । पा. ८-१-५६ । इति न निघातः । अर्कम् । अर्च पूजायाम् । कृदाधारार्चिकलिभ्यः क इति क प्रत्ययः । हृदा । हृदयशब्दस्य पद्दन्नोमासित्यादिना हृदादेशः । मतिम् । मनज्ञाने । मन्त्रे वृषेषपचेत्यादिना कर्मणि क्तिन् उदात्तः । अकृत । परोतेर्लुङि सिच् । तस्य ह्रस्वादङ्गादिति लोपः । द्यावापृथिवी । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरः ॥ ८ ॥

3.26.9
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् ।
मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ॥
▶ पदपाठः (Word-by-word)
श॒त॑धा᳚रम् । उत्स᳚म् । अक्षी᳚यमाणम् । वि॒पः॒॑चित᳚म् । पि॒तर᳚म् । वक्त्वा᳚नाम् ।
मे॒ळिम् । मद᳚न्तम् । पि॒त्रोः । उ॒प॑स्थे᳚ । तम् । रो॒द॒सी॒ इति᳚ । पि॒पृ॒त॒म् । स॒त्य॒॑वाच᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मादुपाध्यायाद्विश्वामित्रो वैश्वानराख्यं परं ब्रह्माज्ञासीत्तमिममुपाध्यायमनयर्चा स्तौति । हे रोदसी द्यावापृथिवौ शतधारमपरिमित जलधारायुक्तमक्षीयमाणं न कदापि विच्छिन्न प्रवाहमुत्सं उत्समिव शतप्रवाहोपेतं स्रोत इवाविच्छिन्नवाक्शरणीसमेत विपश्चितं मेधाविनं सकलशास्त्राभिज्ञां पितरं शिष्याणां विद्योपदेशेन पालकं वक्त्वानां वक्तव्यानां वेदवाक्यानां मेकं मेलकं नानाशाखागतानां वाक्यानामेकस्मिन्नर्थे सम्कलय्य वक्तारं पित्रोर्द्यावापृथिव्योरुपस्थे समीपे वदन्तं ज्ञानातिशयेन हृष्यन्तं अत एव सत्यवाचमज्ञातार्थभावात्परप्रतारणे च कारणाभावात्सत्यवादिनम् । तमिममुपाध्यायं पिपृतम् । अपेक्षितफलप्रदानेन सम्पूर्णं कुरुतम् । यद्वा पालयन्तं ॥ उत्सम् । उन्दीक्लेदने । अस्मादुन्द्यमिगुधिकुषिभ्यः कित् । उ. ३-६८ । इति सप्रत्ययः । कित्वान्नकारलोपः । उनत्तीत्युत्सः । व्यत्ययेनाद्युदात्तः । विपश्चितम् । विशेशेण पातीति विपावाक् । विपो वाचश्चिनोतीति क्विप् । ह्रस्वस्य पितीति तुक् । तत्पुरुषे कृति बहुलमिति बहुलवचनात् द्वितीयाया अप्यलुक् । कृदुत्तरपदस्वरः ॥ वक्त्वानाम् । वच परिभाषणे । अस्मात्कृत्यार्थे तवैकेन्केन्यत्वन इति त्वन्प्रत्ययः । चोः कुरिति कुत्वम् । नित्स्वरः । मेळिम् । मलिः सम्पर्कार्थो धातुः । अस्मादौणादिक इप्रत्ययः । रोदसी । आमन्त्रितत्वान्निघातः । पिपृतम् । पॄ पालन पूरणयोः । छान्दसो जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । निघातः ॥ ९ ॥