श्रवणम्

3.26.5
अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ᳚ष्टय॒ आ त्वे॒षमु॒ग्रमव᳚ ईमहे व॒यम् ।
ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र᳚तवः सु॒दान᳚वः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नि॒॑श्रियः᳚ । म॒रुतः᳚ । वि॒श्व॑कृ᳚ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः᳚ । ई॒म॒हे॒ । व॒यम् ।
ते । स्वा॒निनः᳚ । रु॒द्रियाः᳚ । व॒र्ष॑नि᳚र्निजः । सिं॒हाः । न । हे॒ष॑क्र᳚तवः । सु॒॑दान᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निश्रियो वैद्युतमग्निं श्रयन्तो विश्वकृष्टयः । विश्वस्य वृक्षादेः कृष्टिराकर्षणं नमनोन्नमनादिलक्षणं कर्मयेभ्यो भवति ते विश्वकृष्टयः । एवं विधाये मरुतो विद्यन्ते तेषां च मरुतां त्वेषं दीप्तमुग्रमुद्गूर्णमवो रक्षणमेमहे । कुशिका वयमा समन्ताद्याचामहे । ते मरुतो रुद्रिया रुद्रपुत्रा वर्षिनिर्णिजः । निर्णिक् शब्दो रूपवाचि निर्णिग्वविरिति तन्नामसु पाठात् । वर्षणं रूपं स्वभावो येषां ते वर्षनिर्णिजो वर्षकाः । हेषक्रतवः । हेषावरस्य क्रतुः करणं येषां ते कृतहेषारवाः सिंहा न सिंहा इव स्वानिनः शब्दवन्तः । एवं विधास्ते मरुतः सुदानवः सुष्ठु जलस्य दातारो भवन्ति ॥ अग्निश्रियः । श्रिञ् सेवायाम् । वचिप्रच्छीत्यादिना क्विप् सम्प्रसारणाभावो धातोर्दीर्घश्च । जसि इयङादेशः । कृत्स्वरः । उग्रम् । गम्लृगतौ । उत्पूर्वः । ऋज्रेन्द्राग्रेति नोपातनाद्रप्रत्ययो मकारलोप उपसर्गास्यान्तलोपश्च । उद्गच्छतीत्युग्रः । प्रत्ययस्वरः । ईमहे । ई कान्तिगत्यादिषु । व्य्त्ययेनात्मनेपदम् । अदादित्वाच्छपोलुक् । निघातः । स्वानिनः । स्वानोघञन्तः । तद्वन्तः । अत इनिठनावितीनिः । पत्ययस्वरः । रुद्रियाः । रुद्रशब्दाच्छान्दसोघः । तस्येयादेश । प्रत्ययस्वरः ॥ ५ ॥