पृष᳚दश्वासो अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीरा᳚ः ॥
पदपाठः (Word-by-word)
पृष᳚त्॑अश्वासः । अ॒न॒व॒भ्र॑रा᳚धसः । गन्ता᳚रः । य॒ज्ञम् । वि॒दथे᳚षु । धीराः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
कुशिका वयमग्नेर्भामं भासकं मरुतामोजस्तेजो व्रातंव्रातं व्राते व्राते प्रतिसमूहं गणं गणं गणे गणे महति समूहे क्रियमाणाभिः सुशस्तिभिः । शोभनाः शस्तयः स्तुतयो यैर्मन्त्रैः क्रियन्ते ते सुशस्तयः । तैर्मन्त्रैरीमहे । तादृशं मारुतं तेजो याचामहे । पृषदश्वासः । पृषत्यश्चित्रवर्णा अश्वायेषां ते तादृशाः । अनवभ्रराधसः । न विद्यतेऽवभ्रम्शो यस्य तदनवभ्रम् । अनवभ्रं राधो धनं येषां तेऽनवभ्रराधसः । सम्पूर्णधना इति यावत् । दीराः कर्माभिज्ञास्ते मरुतो विदथेषु यज्ञेषु यज्ञं यजनीयं हविरभिलक्ष्य गन्तारो गमनशीला भवन्ति ॥ गणं गणम् । गण संख्याने । पचाद्यच् । नित्यवीप्सयोरिति द्विर्वचनम् । परस्यार्मेडितत्वादनुदात्तत्वे पुर्वपदस्वरः । सुशस्तिभिः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । भामम् । भा दीप्तौ । अर्तिस्तुस्वित्यादिना मन् । नित्स्वरः । ओजः । उब्ज आर्जवे । उब्जेर्बले बलोपश्च । उ. ४-१९१ । इत्यसुन् । तत्सन्नियोगेन बकारलोपः । अर्धधातुकलक्षणो गुणः । नित्स्वरः । ईमहे । कान्त्यादिषु । निघातः । अनवभ्रराधसः । अनवभ्रम् । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्त्वम् । बहुव्रीहौ पूर्वपदस्वरः । गन्तारः । ताच्छीलिकस्तृन् । विदथेषु । विदज्ञाने । रुदिविदिभ्यां किदित्यथप्रत्ययः । कित्त्वादगुणः । विदन्त्यस्मिन्कर्मजातमध्वर्वादय इति विदथो यज्ञः । प्रत्ययस्वरः ॥ ६ ॥