तृतीयं मण्डलम् - सूक्तम् 15

7 ऋचः

ऋषिः: उत्कीलः कात्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 3.15 - सम्पूर्णम्

1 / 7
ऋक्: 3.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
3.15.1 समानपद
वि पाज᳚सा पृ॒थुना॒ शोशु᳚चानो॒ बाध᳚स्व द्वि॒षो र॒क्षसो॒ अमी᳚वाः ।
सु॒शर्म᳚णो बृह॒तः शर्म᳚णि स्याम॒ग्नेर॒हं सु॒हव᳚स्य॒ प्रणी᳚तौ ॥
▶ पदपाठः (Word-by-word)
वि । पाज᳚सा । पृ॒थुना᳚ । शोशु᳚चानः । बाध᳚स्व । द्वि॒षः । र॒क्षसः᳚ । अमी᳚वाः ।
सु॒॑शर्म᳚णः । बृ॒ह॒तः । शर्म᳚णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒॑हव᳚स्य । प्र॑नी᳚तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्कीलः स्तौति । हे अग्ने पृथुना विस्तीर्णेन पाजसा तेजसा शोशुचानोऽत्यर्थं दीप्यमानस्त्वं द्विषः कर्मानुष्ठानविघ्नकारिणः शत्रून् विबाधस्व । विशेषेण नाशय । तथामीवा रोगाराहित्येन सामर्थ्योपेतानि रक्षसः । उभयत्र सुब्व्यत्ययः । तानि रक्षांसि बाधस्य । कर्मविघ्नकारीणि तान्यपनुदस्व । यद्वामीवा आभिमुख्येनागमनपरागमनपराः पिशाचिकाश्च बाधस्व । सुशर्मणः स्वर्गादिलक्षणशोभनसुखहेतोर्बृहतो मरुतः शत्रुविजयेन प्राप्तमहिम्नः सुहवस्य सुष्ठ्वाह्वानोपेतस्याग्नेः शर्मण्यस्माकं सुख हेतौ प्रणीतावुत्तरवेद्यादिस्थानेषु प्रणयने । प्रकर्षेण नयनं तत्र तत्रानीय प्रक्षेपः । एवं भूते तव प्रणयनेऽहं स्याम् । अग्नि प्रणयनपूर्वके क्रत्वनुष्ठाने भवेयं ॥ पाजसा । पा रक्षणे । असुन्नित्यनुवृत्तौ पातेर्बले जुट् चेत्यसुन् । जुडागमः । नित्त्वादाद्युदात्तः । पृथुना । प्रथप्रख्याने । उदित्यनुवृत्तौ प्रथिम्रदिभ्रस्जां सम्प्रसारणमित्युप्रत्ययः । तत्सन्नियोगेन सम्प्रसारणम् । प्रत्ययस्वरः । शोशुचानः । शुच दीप्तावित्यस्य यङ् लुकि ग्तुणो यङ् लुकोरित्यभ्यासस्य गुणः । व्यत्ययेन शानच् । चर्करीतस्यादादिवद्भावाच्छपो लुक् । चित्त्वादन्तोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्याद्युदात्तत्वम् । बाधस्व । ब्धृ लोडन इत्यस्य लोटि रूपम् । पादादित्वान्निघाताभावः । सुकर्मणः । शॄ हिंसायाम् । दुःखं शृणातीत्यौणादिको मनिन् । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम् । स्याम् । अस भुवीत्यस्य लिङ् यासुट् परस्मै पदेष्वित्यादिना यासुट् । लिङः सलोप इति सलोपः । यासुटो ङित्त्वात् श्नसोरल्लोपः । निघातः ॥ १ ॥

3.15.2
त्वं नो᳚ अ॒स्या उ॒षसो॒ व्यु᳚ष्टौ॒ त्वं सूर॒ उदि᳚ते बोधि गो॒पाः ।
जन्मे᳚व॒ नित्यं॒ तन᳚यं जुषस्व॒ स्तोमं᳚ मे अग्ने त॒न्वा᳚ सुजात ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒स्याः । उ॒षसः᳚ । वि॑उ᳚ष्टौ । त्वम् । सूरे᳚ । उत्॑इ᳚ते । बो॒धि॒ । गो॒पाः ।
जन्म᳚॑इव । नित्य᳚म् । तन᳚यम् । जु॒ष॒स्व॒ । स्तोम᳚म् । मे॒ । अ॒ग्ने॒ । त॒न्वा᳚ । सु॒॑जा॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमस्या अद्य वर्तमानाया उषसो व्युष्टौ व्युच्छने प्रकाशने सूरे सूर्य उदिते च सति नोऽग्निहोत्रादिकर्मणि प्रव्त्त्तान्नामस्माकं गोपा गोपयिता भावमीति बोधि । हुध्यस्व । केचित्सूर्योदयात्प्रागग्निहोत्रं जुह्वति । केचिदुदिते तस्मिन् जुह्वति । तेषामुभयेषां पालयिता भवेत्यर्थः । तन्वा सुजातज्वालापरिवृतेन शरीरेण सुष्ठु जात देदीप्यमान । अथव तन्वा सुजात आत्मनैवसुजातः स्वयम्भूरित्यर्थः । तादशस्त्वं मे मदीयं स्तोमं त्रिवृत्पञ्चदशादि लक्षणं स्तोत्रं नित्यं जुषस्व । तत्र दृष्टान्तः । नन्मेवेति । यथा जन्म जनकः पितौरसं तनयं पुत्रं परिष्वङ्गादिभिः सेवते तद्वदस्माभिः क्रियमाणमिमं सेवस्य ॥ व्युष्टौ । उच्छी विवासे । तमो विवास्यतेऽनयेति करणे क्तिन् । व्रश्चादिना षत्वम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । गोपाः । उउपो रक्षणे । गुलूधूपविच्छिपणिपनिघ्य इत्यायप्रत्ययः । तदन्ताद्भातोः क्विप् । अतो लोप इत्यकारलोपः । लोपोव्योरिति यलोपः । धातुस्वरः । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । निघातः ॥ २ ॥

3.15.3
त्वं नृ॒चक्षा᳚ वृष॒भानु᳚ पू॒र्वीः कृ॒ष्णास्व᳚ग्ने अरु॒षो वि भा᳚हि ।
वसो॒ नेषि᳚ च॒ पर्षि॒ चात्यंहः᳚ कृ॒धी नो᳚ रा॒य उ॒शिजो᳚ यविष्ठ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नृ॒॑चक्षाः᳚ । वृ॒ष॒भ॒ । अनु᳚ । पू॒र्वीः । कृ॒ष्णासु᳚ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ ।
वसो॒ इति᳚ । नेषि᳚ । च॒ । पर्षि᳚ । च॒ । अति᳚ । अंहः᳚ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः᳚ । य॒वि॒ष्ठ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभ कामानां वर्षितर्हे अग्ने नृचक्षा नॄणां मनुष्याणां शुभा शुभकर्मणोर्द्रष्टा कृष्णासु रात्रिष्वरुष आरोचनानस्त्वमनु अनुक्रमेण पूर्वीर्बह्वीर्ज्वालाविभाहि । विशेषेण प्रकाशय । वसो सर्वस्य प्रकाशप्रदानेन स्वस्वस्थानेषु वासयितरग्ने त्वं नोऽस्मान्नेषि । कर्मानुरूपफलानि च प्रापय । अम्होऽस्माकं दारिद्र्य लक्षणं पापमतिपर्षि च । अतिपारय । निवारयेति यावत् । किञ्च यविष्ट युवतम हे अग्ने नोऽस्मान्राये धनायोशिजः । कामयमानान् कृधि । कुरु । अभिलषितफलप्रदानेन प्राप्तकामान् कुर्वित्यर्थः । नृचक्षाः । चक्षिङ् व्यक्तायां वाचि । अयमत्र दर्शने वर्तते । असुन्नित्यनुवृत्तौ चक्षेर्बहुलं शिच्चेत्यसुन् । शिद्वद्भावात् ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरः । वृषभ । वृषु सेचने । अभजित्यनुवृत्तौ ऋषिवृषिभ्यां कदित्यभच् । कित्त्वाद्गुणाभावः । अपादादित्वान्निघातः । पूर्वीः । पुरु शब्दस्य वोतो गुणवचनादिति ङीष् । आद्यस्योकारस्य दीर्घश्चान्दसः । प्रत्ययस्वरेणान्तोदात्तः । भाहि । भा दीप्तौ । अन्तर्भावितण्यर्थः । लोटि रूपम् । वसो । वस निवासे । उरित्यनुवृत्तौ शॄ स्वृस्निहित्रप्यसिवसीत्यादिना उप्रत्ययः । पाददित्वान्न निघातः । षाष्ठिकमाद्युदात्तत्वम् । नेषि । णीञ् प्रापणे । छन्दसि लोडर्थे लट् । बहुलं छन्दसीति शपो लुक् । आमन्त्रितं पूर्वमविद्यमानवदित्यामन्त्रितस्याविद्यमानवत्त्वेन पादादित्वान्न निघातः । पर्षि । पॄ पालनपूरणयोः । चादिषु चेति न निघातः । कृधि डुकृञ् करण इत्यस्य लोटिसेर्ह्यपिच्चेति हिरादेशः । तस्य सुश्रुशृणुपॄकृवृभ्यश्चन्दसीति धिरादेशः । बहुलं छन्दसीत्युप्रत्ययस्य लुक् । पादादित्वान्न निघातः । राये रा दाने । रातेर्डैरिति दैप्रत्ययः । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । यविष्ठः । युवशब्दावतिशायन इष्ठन्प्रत्ययः । स्थूलदूरयुवेत्यादिना याणादेः परस्य लोपः पूर्वस्य च गुणः । आमन्त्रितत्वान्निघातः ॥ ३ ॥

3.15.4
अषा᳚ळ्हो अग्ने वृष॒भो दि᳚दीहि॒ पुरो॒ विश्वा॒ः सौभ᳚गा संजिगी॒वान् ।
य॒ज्ञस्य᳚ ने॒ता प्र᳚थ॒मस्य᳚ पा॒योर्जात᳚वेदो बृह॒तः सु᳚प्रणीते ॥
▶ पदपाठः (Word-by-word)
अषा᳚ळ्हः । अ॒ग्ने॒ । वृ॒ष॒भः । दि॒दी॒हि॒ । पुरः᳚ । विश्वाः᳚ । सौभ᳚गा । स॒म्॑जि॒गी॒वान् ।
य॒ज्ञस्य᳚ । ने॒ता । प्र॒थ॒मस्य᳚ । पा॒योः । जात᳚॑वेदः । बृ॒ह॒तः । सु॒॑प्र॒नी॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अषाळ्हः शत्रुभिरसोढोऽपराजितः । स्वयं शत्रूञ्जयतीत्यर्थः । वृषभः कामानां वर्षियिता एवंभूतस्त्वं विश्वाः सर्वाः पुरः शत्रूणां पुरीः सौभगा तत्रत्यानि शोभनान्युत्तमानि धनानि च सञ्जिगीवान् सम्यग्जयन् दीदिहि । सर्वतो ज्वलाभिर्दीप्यस्व । सुप्रणीते शोभनप्रणयन जातवेदो जातप्रज्ञ हे अग्ने बृहत उपदिष्टातिदिष्टद्विविधेतिकर्तव्यताकलापेन महतः । पायोस्तत्फलप्रदानेन रक्षकस्य प्रथमस्य मुख्यतया प्रथमं क्रियमाणस्य एषवाव प्रथमो यज्ञो यज्ञानां यज्जोतिष्टोम इति श्रुतेः । तादृशस्य ज्योतिष्टोमाख्यस्य यज्ञस्य नेता हविर्हनदेवताह्वानादिक्रिया निर्वाहको भव । अषाळ्हः । षहमर्षण इत्यस्य निष्ठायां होढ इति ढकारः । यषस्तथोर्थोध इति क्तस्य धकारः । ष्ग्टुत्वेन ढः । ढलोपे कृते ढ्रलोपे पूर्वस्य दीर्घ इति दीर्घः । ऒत्वाभावश्छान्दसः । सहेः साडः स इति सकारस्य मूर्धान्यादेशः । अव्ययपूर्वपदप्रकृतिस्वरे न ञ्स्वरः । वृषभ वृष सेचने । ऋषिवृषिभ्यां किदित्यभच् । चित्स्वरः । दीदिहि । दिवु क्रीडादावित्यस्य यङ्लुकि लोटो मध्यमैकवचने संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । सर्वे विधयश्छन्दसि विकल्प्यन्त इति पूर्वत्रासिद्धमित्यस्याप्रवृत्तौ परत्वाद्धलि चेति दीर्घत्वं पश्चाद्वलोपः । सौभगा । सुभगान्मन्त्र इत्युद्गात्रादिषु पाठाद्भावार्थेऽञ् । हृद्भगसिन्ध्वन्त इति पूर्वपदस्य वृद्धिः । उत्तरपदस्य वृद्धिर्न हवति सर्वविधीनां छन्दसि विकल्पितत्वात् । सुपां सुलिगिति सुपो डादेशः । तेन च सौभाग्येन धनान्युपलक्ष्यन्ते । ञित्त्वादाद्युदात्तः । सञ्जिगीवान् । जी जये । छन्दसि लिट् । तस्य क्वसुः । सन्लिटोर्जेरिति कवर्गादेशः । प्रत्यय स्वरः । दीर्घाश्छान्दसः । पायोः । पा रक्षणे । कृवापाजिमीयादिना उण् प्रत्ययः । आतो युक् चिण् कृतोरिति युगागमः । प्रत्ययस्वरः ॥ ४ ॥

3.15.5
अच्छि᳚द्रा॒ शर्म᳚ जरितः पु॒रूणि᳚ दे॒वा{4} अच्छा॒ दीद्या᳚नः सुमे॒धाः ।
रथो॒ न सस्नि᳚र॒भि व᳚क्षि॒ वाज॒मग्ने॒ त्वं रोद᳚सी नः सु॒मेके᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छि᳚द्रा । शर्म᳚ । ज॒रि॒त॒रिति᳚ । पु॒रूणि᳚ । दे॒वान् । अच्छ᳚ । दीद्या᳚नः । सु॒॑मे॒धाः ।
रथः᳚ । न । सस्निः᳚ । अ॒भि । व॒क्षि॒ । वाज᳚म् । अ॒ग्ने॒ । त्वम् । रोद᳚सी॒ इति᳚ । नः॒ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरितः सर्वस्य जगतोऽन्तकाले जरयितर्हे अग्ने सुमेधाः शोभनप्रज्ञोपेतो दीद्यानः । स्वतेजसा प्रकाशमानस्त्वं देवान् यष्टव्यान्देवान् अच्छाभिलक्ष्य तदुद्देशेन क्रियमाणानि पुरूणि शर्म स्वर्गादिसुखसाधनभूतान्यग्निहोत्रादीनि कर्माण्यच्छिद्रा अच्छिद्राणि कुरु । कर्तृकर्मसाधनवैकल्यराहित्येन सम्पूर्णानि कुरु । किञ्च हे अग्ने त्वं सस्निः सन्निरुद्धः स्वकीयं सततगमनं सन्निरुद्ध्य हविष्प्रक्षेप पर्यन्तमत्र वर्तमानस्त्वं वाजं नोऽस्माभिर्दीयमानं हविर्लक्षणमन्नमभिदेवानभिलक्ष्य वक्षि । वह प्रापय । तत्र दृष्ठान्तः रथो न रथ इव ॥ यथा रथो धान्यादिकमूढ्वा तत्स्वामिनं प्रापयति तद्वत् । किञ्च त्वमग्ने रोदसी द्यावापृथिव्यौ सुमेके शोभनरूपोपेते स्वकीयप्रभाभिः प्रकाशयुक्ते कुरु ॥ दीद्यानः । दीदेतिः दीप्तिकर्मा । तस्माच्छानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपादान्तोदात्तत्वम् । सस्निः । षस स्वप्ने । अस्मादौणादिको निन् । नित्त्वादाद्युदात्तत्वम् । वक्षि वहप्रापणे । अस्य लोटः सिपि बहुलं छन्दसीति शपो लुक् । ढत्वकत्वे । हिरादेशश्छान्दसत्वान्न भवति निघातः ॥ ५ ॥

3.15.6
प्र पी᳚पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद᳚सी नः सु॒दोघे᳚ ।
दे॒वेभि᳚र्देव सु॒रुचा᳚ रुचा॒नो मा नो॒ मर्त᳚स्य दुर्म॒तिः परि᳚ ष्ठात् ॥
▶ पदपाठः (Word-by-word)
प्र । पी॒प॒य॒ । वृ॒ष॒भ॒ । जिन्व᳚ । वाजा᳚न् । अग्ने᳚ । त्वम् । रोद᳚सी॒ इति᳚ । नः॒ । सु॒दोघे॒ इति᳚ सु॒॑दोघे᳚ ।
दे॒वेभिः᳚ । दे॒व॒ । सु॒॑रुचा᳚ । रु॒चा॒नः । मा । नः॒ । मर्त᳚स्य । दुः॒॑म॒तिः । परि᳚ । स्था॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभ कामानां वर्षिहर्हे अग्ने त्वं नोऽस्माकं प्रपीपय । अभिलषित फलानि वर्धय । वाचानन्नानि च जिन्व । प्रयच्छ । किञ्च देव दीप्यमान हे अग्ने सुरुचा शोभनदीप्त्या रुचानः शोभमानस्त्वं देवेभिर्यजनीयदैवैः सहितोऽस्माकं रोदसी इमे द्यावापृघिवौ सुदोघे वृष्विद्वाराभिमतफलप्रदानेन सुष्ठु दोग्ध्र्यौकुरु । तथा मर्त्यस्य शत्रोर्दुर्मतिर्दुष्टबुद्धिप्रयुक्तोऽभिभवोनोऽस्मान् मा परिष्ठात् । परितो मा गच्छतु ॥ पीपय । पा पान इत्येतस्य ण्यन्तस्य लुङ् चङ् द्विर्वचनाभ्यासदीर्घौ । सिपो लोपश्छान्दसः । जिन्व । इवि जिवि धिवि प्रीणनार्थाः । एतस्य लोटि इतित्त्वान्नुम् । शप् । अतो हेरिति हेर्लुक् । आमन्त्रितस्याविद्यमानवत्वेन अतिङ उत्तरत्वाभावान्न निघातः । सुदोघे । दोहनम् । दोघः भावे घञ् । कुत्वं छान्दसम् । आद्युदात्तं द्व्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । दुर्मतिः । मनु अवबोधने । मन्यत इतिमतिर्बुद्धिः । कर्तरि क्तिच् । कुष्टा बुद्धिः । अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

3.15.7
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पुरुदंसम् । आपोऽप्नो वेष इति कर्मनाममसु पठितत्वाद्दंसः शब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमन्निरन्तरं हवमानाय यजमानाय मह्यं साधः साधय । किञ्चनोस्ऽमाकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोधना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटव्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यंत इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतम् । भू सत्तायाम् । बहुलं छन्दसीति शपो लुक् । भूसुवोस्तीङीति गुणप्रतिषेधः ॥ ७ ॥