तृतीयं मण्डलम् - सूक्तम् 28

6 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 3.28 - सम्पूर्णम्

1 / 6
ऋक्: 3.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
3.28.1
अग्ने᳚ जु॒षस्व᳚ नो ह॒विः पु᳚रो॒ळाशं᳚ जातवेदः ।
प्रा॒त॒ःसा॒वे धि᳚यावसो ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । जु॒षस्व᳚ । नः॒ । ह॒विः । पु॒रो॒ळाश᳚म् । जा॒त॒॑वे॒दः॒ ।
प्रा॒तः॒॑सा॒वे । धि॒या॒व॒सो॒ इति᳚ धिया॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । जातवेदः जातप्रज्ञ धियावसो । धिया स्तोत्रेण वसुधनं यस्माद्भवति सोऽयं धियावसुः । तस्य सम्बुद्धिः । कर्मानुरूपधनप्रद हे अग्ने प्रातः सावेऽग्निष्टोमे प्रातः सवने नोऽस्मत्सम्बन्धि पुरोडाशं पुरोडाशाख्यं हविर्जुषस्व । सेवस्व ॥ जुषस्व । जुषीप्रीतिसेवनयोरित्यस्माल्लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । प्रातः सावे । षुञ् अभिषवे । नवनं सावः भावे घञ् । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । धियावसो । विभक्त्यलोपश्छान्दसः । आमन्त्रितत्त्वान्निघातः ॥ १ ॥

3.28.2
पु॒रो॒ळा अ᳚ग्ने पच॒तस्तुभ्यं᳚ वा घा॒ परि᳚ष्कृतः ।
तं जु᳚षस्व यविष्ठ्य ॥
▶ पदपाठः (Word-by-word)
पु॒रो॒ळाः । अ॒ग्ने॒ । प॒च॒तः । तुभ्य᳚म् । वा॒ । घ॒ । परि᳚॑कृतः ।
तम् । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यविष्ठ्य युवतम हे अग्ने यः पुरोळाः । पुरोडाशन्तेऽध्वर्व्यादय एनमिति पुरोडाः पुरोडाशः । पचतः कपालयोः पक्वोऽस्ति । स च तुभ्यं त्वदर्थं परिष्कृतो वा घ पर्यग्निकरणादिभिरलंकृतः खलु । तमिमं पुरोडाशं जुषस्व । सेवस्व ॥ पुरोळाः । दाश्र दान इत्यस्मात्पुरुस्पूर्वान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशोण्विन् । पा. ३-२-७१ । इति कर्मणि ण्विनि कृते श्वेतवहादीनां डस्पदस्य । पा. ३-२-७१-१ । इति डस्प्रत्यये च कृते अवयाः श्वेतवाः पुरोडाशाश्चेति निपातनाद्दकारस्य डत्वम् । पुरोडाशन्त एनमिति पुरोडाः पुरोडाशः । डकारस्य ळकारो बह्वृ च साम्प्रदायिकः । कृदुत्तरपदस्वरः । पचतः । डुपचष् पाक इत्यस्माद्भृमृदृशीत्यादिना कर्मण्यतच् प्रत्ययः । पच्यतेऽसाविति पचतः पक्वः । चित्स्वरः । घा । ऋचितुनुघेत्यादिना सम्हितायां दीर्घः । परिष्कृतः । सम्पर्युपेभ्यः करोतौ भूषण इतिकरोतेः सुडागमः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । यविष्ठ्य । यविष्ठ एव यविष्ठ्यः । पादार्घाभ्यां च । पा. ५-४-२५ । इत्यत्र च कारेण वस्वादीनां स्वार्थे यत्प्रत्यय स्योपादानाद्यविष्ठ्येत्र स्वार्थिको यत्प्रत्ययः । आमन्त्रितत्त्वान्निघातः ॥ २ ॥

3.28.3 समानपद
अग्ने᳚ वी॒हि पु᳚रो॒ळाश॒माहु᳚तं ति॒रोअ᳚ह्न्यम् ।
सह᳚सः सू॒नुर᳚स्यध्व॒रे हि॒तः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । वी॒हि । पु॒रो॒ळाश᳚म् । आ॑हु᳚तम् । ति॒रः॑अ᳚ह्न्यम् ।
सह᳚सः । सू॒नुः । अ॒सि॒ । अ॒ध्व॒रे । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तिरोअह्न्यं अह्नि तिरोहिते सत्याहुतमा समन्ताद्धुतं पुरोडाशं पुरोडाशाख्यं हविर्वीहि । भक्षय । अध्वरेऽस्मिन्न्यज्ञे सहसः सूनुर्बलस्य पुत्रस्त्वं हितोऽसि । अवहनीयादिस्थानेष्वस्माभिर्निहितोऽसि । तस्माद्वीहीति शेषः ॥ वीहिवी कान्तिगथादिषु । लोटि रूपम् । हेरपित्त्वादन्तोदात्तत्वम् । आहुतम् । जुहोतेः कर्मणि क्ते गतिरनन्तर इत् गतेः प्रकृतिस्वरत्वम् । तिरोअह्न्यम् । अह्नि भवमह्न्यम् । भवे छन्दसिति यत् । तिरोभूतमह्न्यं यस्मिन् काले स तिरो अह्न्यः । रात्रिकाल इत्यर्थः । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । प्रकृत्यान्तः पादमित्येङः । प्रकृतिभावह् । बहुव्रीहौ पूर्वपदस्वरः ॥ ३ ॥

3.28.4
माध्यं᳚दिने॒ सव᳚ने जातवेदः पुरो॒ळाश᳚मि॒ह क᳚वे जुषस्व ।
अग्ने᳚ य॒ह्वस्य॒ तव᳚ भाग॒धेयं॒ न प्र मि᳚नन्ति वि॒दथे᳚षु॒ धीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
माध्य᳚न्दिने । सव᳚ने । जा॒त॒॑वे॒दः॒ । पु॒रो॒ळाश᳚म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ ।
अग्ने᳚ । य॒ह्वस्य᳚ । तव᳚ । भा॒ग॒॑धेय᳚म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे᳚षु । धीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवे मेधाविन् हे जातवेद इहास्मिन्नग्निष्टोमाख्ये कर्मणि तत्र च माध्यन्दिने मध्यन्दिनसम्बन्धिनि सवने पुरोडाशं माध्यन्दिनसवनीयपुरोडाशम् । जुषस्व । सेवस्व । हे अग्ने विदथेषु यज्ञेषु धीराः कर्मकुशला अध्वर्व्यादयो यह्वस्य । यान्ति प्राप्नुवन्ति देवा हविंष्यनेनेति यह्वो महानग्निः । यह्वस्य महतस्तव भागधेयं भागतया परिकल्पितमिमं पुरोडाशं न प्रमिनन्ति । न हिंसन्ति । किन्तु तुभ्यं प्रयच्छन्ति । तं जुषस्वेति शेषः । माध्यन्दिने । मध्यन्दिनस्येदमित्यर्थ उत्सादित्वादञ् । ञेत्त्वादादिवृद्धिः । ञित्त्वादेवाद्युदात्तत्वम् । यह्वस्य । या प्रापण् इत्यस्मात् शेवयह्वजिह्वेति निपातनात्करणे वन्प्रत्ययः । हुगागमधातुह्रस्वौ । यान्त्यनेनेशि यह्वोऽग्निः । व्यत्ययेनान्तोदात्तः । भागधेयम् । भागशब्दात्स्वार्थे भागरूपानामभ्यो धेयप्रत्ययो वक्तव्यः । पा. ५-४-३६-२ । इति धेयः । प्रत्यय स्वरः । मिनन्ति । मिञ् हिम्सायामित्यस्य क्र्यादित्वात् श्ना । तस्मिन् मीनातेर्निगम इति ह्रस्वत्वं हिनु मीना । पा. ८-४-१५ । इति णत्वं न भवति सर्वविधीनां छन्दसि विकल्पितत्वादिति ॥ ४ ॥

3.28.5
अग्ने᳚ तृ॒तीये॒ सव᳚ने॒ हि कानि᳚षः पुरो॒ळाशं᳚ सहसः सून॒वाहु᳚तम् ।
अथा᳚ दे॒वेष्व᳚ध्व॒रं वि᳚प॒न्यया॒ धा रत्न᳚वन्तम॒मृते᳚षु॒ जागृ᳚विम् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । तृ॒तीये᳚ । सव᳚ने । हि । कानि᳚षः । पु॒रो॒ळाश᳚म् । स॒ह॒सः॒ । सू॒नो॒ इति᳚ । आ॑हु᳚तम् ।
अथ᳚ । दे॒वेषु᳚ । अ॒ध्व॒रम् । वि॒प॒न्यया᳚ । धाः । रत्न᳚॑वन्तम् । अ॒मृते᳚षु । जागृ᳚विम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसः सूनो बलस्य पुत्र हे अग्ने त्वं तृतीये सवन आहुतं हूयमानं पुरोडाशं कानिषः । कामयसे । अथ अनन्तरमध्वरमविनाशिनं रत्नवन्तम् । रत्नशब्देन स्वर्गादिलक्षणमुत्तमं फलमभिधीयते । तद्वन्तं फलप्रदं जागृविं जागरणकारणम् । प्रातः सोमो जागृविर्भवति स्वप्ननिवारक इति । तमिमं सोमं विपन्यया स्तुतिलक्षणया वाचा स्तुतस्त्वममृतेषु मरणधर्मरहितेषु देवेष्विन्द्रादिषु धाः । धेहि हिपूरणः ॥ तृतीये । त्रिशब्दात्पूरणार्थे त्रेः सम्प्रसारणम् । पा. ५-२-५५ । इति तीयप्रत्ययः । तत्सन्नियोगेन सम्प्रसारणम् । हल इति दीर्घो न भवति । अन्निति तत्र नानुवर्तनात् प्रत्ययस्वरः । कानिषः । कनी कान्त्यादिषु । लेटि सिब्बहुलमिति सिप् । तस्यार्धधातुकत्वादिडागमः । कान्तिरभिलाषः । अकारस्य अकारो व्यत्ययेन हियोगादनिघातः । धातुस्वरः । विपन्यया । पन स्तुतौ । भाए क्विप् । विपनं यातीति क प्रत्ययः । प्रत्ययस्वरः । धाः । दधात्रेधातोश्छान्दसे लुङि रूपम् । पादादित्वादनिघातः । जागृवीम् । क्विन्प्रत्ययान्तो जागृविशब्दः । नित्स्वरः ॥ ५ ॥

3.28.6
अग्ने᳚ वृधा॒न आहु᳚तिं पुरो॒ळाशं᳚ जातवेदः ।
जु॒षस्व᳚ ति॒रोअ᳚ह्न्यम् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । वृ॒धा॒नः । आ॑हु᳚तिम् । पु॒रो॒ळाश᳚म् । जा॒त॒॑वे॒दः॒ ।
जु॒षस्व᳚ । ति॒रः॑अ᳚ह्न्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदो जातप्रज्ञ हे अग्ने वृधान आहुतिभिर्वर्धमानस्त्वं तिरोअह्नम् । अह्नि भवमह्न्यं दिवसकृत्यम् । तिरोभूतमह्न्यं यस्मिन्काले स तिरो अह्न्यो रात्रकालः । तस्मिन्काल आहुतिं पुरोडाशाख्यं हविर्जुषस्व । सेवस्व । आहुतिम् । जुहोतेः कर्मणि क्तिन् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वं ॥ ६ ॥