अथा᳚ दे॒वेष्व᳚ध्व॒रं वि᳚प॒न्यया॒ धा रत्न᳚वन्तम॒मृते᳚षु॒ जागृ᳚विम् ॥
पदपाठः (Word-by-word)
अथ᳚ । दे॒वेषु᳚ । अ॒ध्व॒रम् । वि॒प॒न्यया᳚ । धाः । रत्न᳚॑वन्तम् । अ॒मृते᳚षु । जागृ᳚विम् ॥
सायणभाष्यम् (Sayana Commentary)
सहसः सूनो बलस्य पुत्र हे अग्ने त्वं तृतीये सवन आहुतं हूयमानं पुरोडाशं कानिषः । कामयसे । अथ अनन्तरमध्वरमविनाशिनं रत्नवन्तम् । रत्नशब्देन स्वर्गादिलक्षणमुत्तमं फलमभिधीयते । तद्वन्तं फलप्रदं जागृविं जागरणकारणम् । प्रातः सोमो जागृविर्भवति स्वप्ननिवारक इति । तमिमं सोमं विपन्यया स्तुतिलक्षणया वाचा स्तुतस्त्वममृतेषु मरणधर्मरहितेषु देवेष्विन्द्रादिषु धाः । धेहि हिपूरणः ॥ तृतीये । त्रिशब्दात्पूरणार्थे त्रेः सम्प्रसारणम् । पा. ५-२-५५ । इति तीयप्रत्ययः । तत्सन्नियोगेन सम्प्रसारणम् । हल इति दीर्घो न भवति । अन्निति तत्र नानुवर्तनात् प्रत्ययस्वरः । कानिषः । कनी कान्त्यादिषु । लेटि सिब्बहुलमिति सिप् । तस्यार्धधातुकत्वादिडागमः । कान्तिरभिलाषः । अकारस्य अकारो व्यत्ययेन हियोगादनिघातः । धातुस्वरः । विपन्यया । पन स्तुतौ । भाए क्विप् । विपनं यातीति क प्रत्ययः । प्रत्ययस्वरः । धाः । दधात्रेधातोश्छान्दसे लुङि रूपम् । पादादित्वादनिघातः । जागृवीम् । क्विन्प्रत्ययान्तो जागृविशब्दः । नित्स्वरः ॥ ५ ॥