इ॒मं म॒हे वि᳚द॒थ्या᳚य शू॒षं शश्व॒त्कृत्व॒ ईड्या᳚य॒ प्र ज᳚भ्रुः ।
शृ॒णोतु᳚ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज᳚स्रः ॥
इ॒मम् । म॒हे । वि॒द॒थ्या᳚य । शू॒षम् । शश्व᳚त् । कृत्वः᳚ । ईड्या᳚य । प्र । ज॒भ्रुः॒ ।
शृ॒णोतु᳚ । नः॒ । दम्ये᳚भिः । अनी᳚कैः । शृ॒णोतु᳚ । अ॒ग्निः । दि॒व्यैः । अज᳚स्रः ॥
महे महेते विदथ्याय विदथे यज्ञे मन्थनेन निष्पाद्यमानायेड्याय सर्वैः स्तुत्यायाग्नये शूशं सुखकरमिमं स्तोमं शश्वत्कृत्वो भूयो भूयः प्र जभ्रुः । प्रभरन्ति । प्रकर्षेण धारयन्ति । उच्चारयन्तीत्यर्थः । सोऽग्निर्दम्येभिः परेषां दमनकुशलैर्दमे गृहे विद्यमानैर्वानीकैस्तेजोभिर्युक्तः सन् नोऽस्मदीयमिमिमं स्तोमं शृणोतु । दिव्यैर्दिवि भवैस्तेजोभिरजस्रो निरन्तरं युक्तोऽगिन्रिमं स्तोमं शृणोतु । शश्वत्कृत्व ईड्याय प्रजभ्रुरिति स्वानामेवैनं तच्छ्रैष्थ्यं गमयति । ऐ. ब्रा. १-२८ । इति ब्राह्मणानुसारेण महदादिगुणविशिष्टाय यजमानायेममगिन्ं प्रजभ्रुः प्रहरन्त्यृत्विज इति वा व्याख्येयम् । उत्तरार्धर्चः समान एव । विदथ्याय । तत्र भव इत्यर्थे भवे छन्द्सीति यत् । तित्स्वरितः । ईड्याय । ईडवन्देत्यादिना उदात्तत्वम् । दम्येभिः । तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । दिव्यैः । दिवमर्हतीत्यर्थे छन्दसि चेति यप्रत्ययः । अजस्रः । जुसु मोक्षणे । नमिकंपीत्यादिना ताच्छिलिको रप्रत्ययः । नञा समासे तस्य स्वरः ॥ १ ॥
महि᳚ म॒हे दि॒वे अ᳚र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च᳚रति प्रजा॒नन् ।
ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स᳚प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ॥
महि᳚ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः᳚ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒॑जा॒नन् ।
ययोः᳚ । ह॒ । स्तोमे᳚ । वि॒दथे᳚षु । दे॒वाः । स॒प॒र्यवः᳚ । मा॒दय᳚न्ते । सचा᳚ । आ॒योः ॥
हे स्तोतर्महे महत्यै दिवे द्युलोकदेवतायै महत्यै पृथिव्यै च महि महत् त्वं प्रजानन् स्तोत्रमर्च । कुरु । मे मम कामो मनोरथः सर्वान् भोगानिच्छन् चरति । सर्वत्र वर्तते । आयोर्मनुष्यस्य विदथेषु यज्ञेषु ययोर्द्यावापृथिव्योः स्तोमे स्तोत्रे सपर्यवः पूजाकामा देवाः स्तोतारो वा सचा मादयन्ते ह सह माद्यन्ति खलु ॥ पृथिव्यै । उदात्तयण इति विभक्तेरुदात्तत्वम् । सपर्यवः । सपर्यामिच्छतीत्यर्थे सुपः क्यच् ॥ २ ॥
यु॒वोरृ॒तं रो᳚दसी स॒त्यम᳚स्तु म॒हे षु णः᳚ सुवि॒ताय॒ प्र भू᳚तम् ।
इ॒दं दि॒वे नमो᳚ अग्ने पृथि॒व्यै स᳚प॒र्यामि॒ प्रय᳚सा॒ यामि॒ रत्न᳚म् ॥
यु॒वोः । ऋ॒तम् । रो॒द॒सी॒ इति᳚ । स॒त्यम् । अ॒स्तु॒ । म॒हे । सु । नः॒ । सु॒॑वि॒ताय᳚ । प्र । भू॒त॒म् ।
इ॒दम् । दि॒वे । नमः᳚ । अ॒ग्ने॒ । पृ॒थि॒व्यै । स॒प॒र्यामि᳚ । प्रय᳚सा । यामि᳚ । रत्न᳚म् ॥
हे रोदसी द्यावापृथ्व्यौ युवोर्युवयोरृतमानृशंस्यं सत्यं यथार्थमस्तु । युवां नोऽस्माकं महे महते सुवितायाभ्युदयाय यज्ञसमाप्त्यर्थं सु सुष्ठु प्र भूतम् । प्रभवतम् । हे अग्ने दिवे पृघिव्यै चेदं नमोऽस्तु । प्रयसा हविर्लक्षणेनान्नेन सपर्यामि परिचरामि । रत्नमुत्तमं धनं यामि । याचे । यातिर्याञ्चाकर्मा ईमह इत्यादिषु पठितत्वात् । षु । संहितायां सुञ इति षत्वम् । णः । संहितायां नश्च धातुस्थोरुषभ्य इति णत्वम् । सुविताय इण् गतौ । आधिकरणे क्तः । शोभनं गम्यतेऽस्मिन्निति सुवितम् । उवङादेशश्छान्दसः । भूतम् । भवतेस्थेति लुक् । निघातः । दिवे पृघिव्यै । नमःस्वस्तीत्यादिना । पा. २-३-१६ । चतुर्थी । सपर्यामि कण्ड्वादिः परिचरणे वर्तते । प्रत्ययस्वरः । यामि । यतेर्लटि रूपम् । वाक्यभेदादनिघातः ॥ ३ ॥
उ॒तो हि वां᳚ पू॒र्व्या आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः᳚ ।
नर᳚श्चिद्वां समि॒थे शूर᳚सातौ ववन्दि॒रे पृ᳚थिवि॒ वेवि᳚दानाः ॥
उ॒तो इति᳚ । हि । वा॒म् । पू॒र्व्याः । आ॒॑वि॒वि॒द्रे । ऋत᳚वरी॒ इत्यृत᳚॑वरी । रो॒द॒सी॒ इति᳚ । स॒त्य॒॑वाचः᳚ ।
नरः᳚ । चि॒त् । वा॒म् । स॒म्॑इ॒थे । शूर᳚॑सातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि᳚दानाः ॥
उतो अपि च हे ऋतावारी । ऋतं सत्यम् । तद्वत्यौ हे रोदसी द्यावापृथ्य्व्यौ पूर्व्याः पूर्वे भवाः पुरातनाः सत्यवाचो महर्षयो वां युवाभ्यामाविविद्रे हि । तं तमपेक्षितमर्थं लेभिरे खलु । तथा हे पृघिवि शूरसातौ शूराणां सातिर्लाभो यस्मिन् तस्मिन्समिथे सङ्गमननिमित्ते युद्धे नरश्चिदद्यतना मनुषुयाश्च वां युवयोर्माहात्म्यं वेविदाना जानन्तोऽतो द्यावापृथिव्यौ ववन्दिरे । स्तुवन्ति । आविविद्रे । विद्लृ लाभे इत्ययमुधयपदी । लिटि इरयो र इति रे आदेशः । सह सुपेत्यत्र सहेति योगविभागादाङा सह समासः । समिथे । इण् गतौ । समीण इति थक्प्रत्ययः । प्रत्ययस्वरः ॥ ४ ॥
को अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚चद्दे॒वा{4} अच्छा᳚ प॒थ्या॒३॒᳚ का समे᳚ति ।
ददृ᳚श्र एषामव॒मा सदां᳚सि॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु᳚ ॥
कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वान् । अच्छ᳚ । प॒थ्या᳚ । का । सम् । ए॒ति॒ ।
ददृ᳚श्रे । ए॒षा॒म् । अ॒व॒मा । सदां᳚सि । परे᳚षु । या । गुह्ये᳚षु । व्र॒तेषु᳚ ॥
को वाद्धा सत्यभूतं तादृशमर्थं वेद । वेत्ति । को वेहास्मिन्प्रज्ञातमर्थं प्र वोचत् । प्र ब्रविति । किं तत्तदुच्यते । देवानच्छाभिलक्ष्य का पथ्या पथि साधु समीचीनः को वा मर्गः समेति । सम्यक् प्राप्नोतिति । इममर्थं न कश्चिज्जानाति । न कोऽपि ब्रविति । किन्ते देवा विद्यन्ते । वाढमित्याह । एषां दिवि स्थितानां नक्षत्ररूपाणां देवानामवमाधोमुखानि सदांसि स्थानानि ददृश्रे । दृश्यन्ते । तथापि परेषूत्तमेशु गुह्येशु दुर्ज्ञानेषु व्रतेषु कर्मस्वनुष्ठितेषु या यानि दिवि देवस्थानानि लभ्यन्ते तत्रागन्तुं को मार्ग इति वेदमन्त्ररेन न कश्चिज्जानातीत्यभिप्रायः ॥ अद्धा । स्वरादिषन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । वोचत् । ब्रूञ् व्यक्तायां चाचि लुङि ब्रुवो वचिरिति वच्यादेशः । अस्यतिवक्तिख्यातिभ्य इति च्लेरङादेशः । वच उमित्युमागमः । निघातः ॥ ५ ॥
क॒विर्नृ॒चक्षा᳚ अ॒भि षी᳚मचष्ट ऋ॒तस्य॒ योना॒ विघृ᳚ते॒ मद᳚न्ती ।
नाना᳚ चक्राते॒ सद᳚नं॒ यथा॒ वेः स᳚मा॒नेन॒ क्रतु᳚ना संविदा॒ने ॥
क॒विः । नृ॒॑चक्षाः᳚ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य᳚ । योना᳚ । विघृ᳚ते॒ इति॒ वि॑घृ᳚ते । मद᳚न्ती॒ इति᳚ ।
नाना᳚ । च॒क्रा॒ते॒ इति᳚ । सद᳚नम् । यथा᳚ । वेः । स॒मा॒नेन᳚ । क्रतु᳚ना । सं॒वि॒दा॒ने इति᳚ स॒म्॑वि॒दा॒ने ॥
कविः क्रान्तदर्शी नृचक्षा नृणां द्रष्टा सूर्वः सीमेते द्यापृथिवावभ्यचष्ट । अर्वतः पश्यति । ऋतस्य योना जलस्य स्थानेऽन्तरिक्षे मदन्ती हृष्यन्त्यौ विघृते । घृतमस्या ओषधयो जलमम्य्ष्या इति । एवं विधरसोपेते समानेन । समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नय इति परस्परप्रीणनाख्येनैकेन क्रतुना कर्मणा संविदाने परस्परमैकमत्यं प्राप्ते ते द्यावापृथ्व्यौ नाना पृथग्भुतं सदनं स्थानं चक्राते । तथा च श्रुतिः । इमौ वै लोकौ सहास्तां तौ व्यैतामिति । तत्र दृष्टान्तः । यथा वेः कुलायं नाना भवति तद्वत् ॥ अचष्ट । चक्षिङ् व्यक्तायां वाचीत्यस्य लङि स्कोः संयोगाद्योरिति ककारलोपः । निघातः । संविदाने । विद ज्ञान इत्यस्य समो गमीत्यादिनात्मनेपदे शानच् । चित्त्वादन्तोदात्तः ॥ ६ ॥
स॒मा॒न्या वियु᳚ते दू॒रेअ᳚न्ते ध्रु॒वे प॒दे त᳚स्थतुर्जाग॒रूके᳚ ।
उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒ आदु᳚ ब्रुवाते मिथु॒नानि॒ नाम᳚ ॥
स॒मा॒न्या । वियु᳚ते॒ इति॒ वि॑यु᳚ते । दू॒रेअ᳚न्ते॒ इति᳚ दू॒रे॑अ᳚न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ । जा॒ग॒रूके॒ इति᳚ ।
उ॒त । स्वसा᳚रा । यु॒व॒ती इति᳚ । भव᳚न्ती॒ इति᳚ । आत् । ऊं॒ इति᳚ । ब्रु॒वा॒ते॒ इति᳚ । मि॒थु॒नानि᳚ । नाम᳚ ॥
सामान्या समाने परस्परप्रीणनाख्येन कर्मणैकमत्यं गते वियुते वियुज्य वर्तमाने दूरे अन्ते । दूरेऽन्तोऽवसानं ययोस्ते दूरे अन्ते । अविनाशिन्यौ ते द्यावापृथिव्यौ जागरूके जागरणशीले सत्यौ ध्रुवेऽविनाशिनि पदेऽन्तरिक्षे तस्थुतुः । तिष्ठत । उतापि च युवती नित्यतरुणे स्वसारा भगिन्यावेकस्मादात्मनो जाते इति भवन्ती तस्थतुरित्यन्वयः । आदनन्तरं मिथुनानि द्वन्द्वानि नाम उर्वी पृथ्वी बहुले दूरे अन्ते रोदसी पुरोहिति इत्यादीनि नामानि ब्रुवाते । ते परस्परं ब्रूतः । उर्व्यादिभिर्द्वन्द्वनामभिर्द्यावापृथिव्यावुच्यते इत्यर्थः ॥ सामान्या । सुपां सुलिगिति विभक्तेर्डादेशः । दूरे अन्ते । इण् गतौ । दुरीणो लोपश्च । उ. २-२० । इति रक्प्रत्ययो धातोर्लोपश्च । रो रीति रेफलोपः । ढ्रलोप इति दीर्घः । अन्तशब्दोऽमेरसिहसीत्यादिना तन्प्रत्य्त्यान्तः । सप्तम्युपमानेति बहुव्रीहिः । हलदन्तादिति सप्तम्या अलुक् । पुर्वपदस्वरः । जागरूके । जागृ निद्राक्शय इत्यस्मात्ताच्छील्यार्थे जागरूकः । पा. ३-२-१६५ । क्त्यूकप्रत्य्त्यः । प्रत्ययस्वरः । स्वसारा । न षट् स्वस्रादिभ्य इति ङीपः प्रतिषेधः ॥ ७ ॥
विश्वेदे॒ते जनि᳚मा॒ सं वि᳚विक्तो म॒हो दे॒वान्बिभ्र᳚ती॒ न व्य᳚थेते ।
एज᳚द्ध्रु॒वं प᳚त्यते॒ विश्व॒मेकं॒ चर᳚त्पत॒त्रि विषु᳚णं॒ वि जा॒तम् ॥
विश्वा᳚ । इत् । ए॒ते इति᳚ । जनि᳚म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र᳚ती॒ इति᳚ । न । व्य॒थे॒ते॒ इति᳚ ।
एज᳚त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व᳚म् । एक᳚म् । चर᳚त् । प॒त॒त्रि । विषु᳚णम् । वि । जा॒तम् ॥
एते द्यावापृथिव्यौ विश्वेज्जनिम सर्वाण्यपि भूतजातानि सं विविक्तः । अवकाशप्रदानेन संविभज्य कुरुतः । किञ्च महो महतो देवानिन्द्र सूर्यादीन् सरित्समुद्रपर्वतादींश्च बिभ्रती बिभ्राणे अपि न व्यथेते । न खिद्येते । किञ्चएजज्जंगमात्मकं ध्रुवं स्थावरात्मकं च विश्वं जगदेकं स्थानं पृथिवीमेव पत्यते । अभिगच्छति । तथा चरच्चञ्चलं पशुजातं पतत्रि पक्षिजातं च विषुणं विष्वक् नानारूपमनयोर्मध्ये वितिष्ठते । योग्यक्रियाध्याहारः । विविक्तः । विचिर् पृथग्भावे । जुहोत्यादिः । निघातः । बिभ्रती । डुभृञ् धारणपोषणयोरित्यस्य शतरि नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः । एजत् । एजृ कम्पने । शतरि रूपम् । पत्यते । पद गतौ । दिवादिरात्मनेपदी । दकारस्य तकारो व्यत्ययेन । निघातः ॥ ८ ॥
सना᳚ पुरा॒णमध्ये᳚म्या॒रान्म॒हः पि॒तुर्ज᳚नि॒तुर्जा॒मि तन्न᳚ः ।
दे॒वासो॒ यत्र᳚ पनि॒तार॒ एवै᳚रु॒रौ प॒थि व्यु᳚ते त॒स्थुर॒न्तः ॥
सना᳚ । पु॒रा॒णम् । अधि᳚ । ए॒मि॒ । आ॒रात् । म॒हः । पि॒तुः । ज॒नि॒तुः । जा॒मि । तत् । नः॒ ।
दे॒वासः᳚ । यत्र᳚ । प॒नि॒तारः᳚ । एवैः᳚ । उ॒रौ । प॒थि । वि॑उ᳚ते । त॒स्थुः । अ॒न्तरिति᳚ ॥
हे द्यौर्महो महत्याः पितुः सर्वस्य पालयित्र्या जनितुर्जनयित्र्यास्त्तवपना सनतनं पुराणं पूर्वक्रमागतं नोऽस्माकं तज्जामि जामित्वम् । सर्वमेकस्माज्जातमिति द्यौर्भगिनी भवति । तादृशं भगिनीत्वं तदारादधुनाध्येमि । स्मरामि । दिवः पितृत्वे जनयितृत्वे च मन्त्र वर्णः । द्यौर्मे पिता जनिता नाभिरत्र । ऋग्वे> १-१६४-३३ । इति । यत्र यस्यां दिव्यन्तर्मध्य उरौ विस्तीर्णे व्युते विविक्ते पथि नभसि पनितारस्त्वां स्तुवन्तो देवासो देवा एवैर्गमनसाधनैः स्वाइः स्वाइर्वाहनैः सहिताः सन्तस्तुस्थुः । तत्र स्थिता देवा मदीयं स्तोत्रं शृण्वन्त्विति भावः । पुराणम् । पुराशब्दात् शैषिकार्थे सायञ्चिरमिति ट्युप्रत्ययः । पुराणप्रोक्तेषु ब्राह्मणकल्पेष्विति निपातनात्तुडभावः । निपातनादेवान्तोदात्तत्वम् । एमि । इक् स्मरणे । अदादिः । लटि रूपम् । निघातः । व्युते । वेञ् त्युतसन्ताने । कर्मणि क्तः । यजातित्वात्संप्रसारणम् । गतिनन्तर इति गतेः प्रकृतिस्वरः । तस्थुः । तिष्ठतेर्लिटि रूपम् । यत्रयोगादनिघातः ॥ ९ ॥
इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र᳚वीम्यृदू॒दरा᳚ः शृणवन्नग्निजि॒ह्वाः ।
मि॒त्रः स॒म्राजो॒ वरु᳚णो॒ युवा᳚न आदि॒त्यासः᳚ क॒वयः᳚ पप्रथा॒नाः ॥
इ॒मम् । स्तोम᳚म् । रो॒द॒सी॒ इति᳚ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः᳚ । शृ॒ण॒व॒न् । अ॒ग्नि॒॑जि॒ह्वाः ।
मि॒त्रः । स॒म्॑राजः᳚ । वरु᳚णः । युवा᳚नः । आ॒दि॒त्यासः᳚ । क॒वयः᳚ । प॒प्र॒था॒नाः ॥
हे रोदसी च्यावापृथिव्याविमं युष्मदीयं स्तोमं प्रब्रवीमि । प्रकर्षेण वदामि । ऋदूदराः । ऋदु मृदु उदरं येषां ते ऋदूदराः । यद्वा । मृदुरुदरे सोमो येषां ते ऋदूदराः । अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते तथोक्ताः । सम्राजः सम्यग्दीप्यमाना युवानो नित्यतरुणाः । यद्वा । यजमानानभिमतफलैर्मिश्रीकुर्वन्तः । कवयः क्रान्तदर्शिनः पप्रथानाः स्वानि स्वानि कर्माणि प्रथयन्तो मित्रादयो देवाः शृणवन् । तदिदं स्तोत्रं शृण्वन्तु । शृणवन् । श्रुश्रवण इत्यस्य लेट्यडागमः । अग्निजिह्वाः । त्रिचक्रादित्वादन्तोदात्तत्वम् । पप्रथानाः । प्रथ प्रख्यान इत्यस्य कानचि रूपम् । चित्त्वादन्तोदात्तः ॥ १० ॥
हिर᳚ण्यपाणिः सवि॒ता सु᳚जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य᳚मानः ।
दे॒वेषु᳚ च सवित॒ः श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु᳚व स॒र्वता᳚तिम् ॥
हिर᳚ण्य॑पाणिः᳚ । स॒वि॒ता । सु॒॑जि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे᳚ । पत्य᳚मानः ।
दे॒वेषु᳚ । च॒ । स॒वि॒त॒रिति᳚ । श्लोक᳚म् । अश्रेः᳚ । आत् । अ॒स्मभ्य᳚म् । आ । सु॒व॒ । स॒र्व॑ता᳚तिम् ॥
हिरण्यपाणिः । दानार्थं हिरण्यं पाणौ हस्ते यस्य स तथोक्तः । यद्वा देवकर्तृकयागे सवितुरृत्वग्भूतस्य हस्ते प्राशित्रं भक्षणार्थमद्वर्यवो ददुः । तत्प्राशित्रं तस्य हस्तौ चिच्छेद । ततोऽध्वर्यवो हिरण्मयौ हस्तौ कृत्वा सन्दधुः । ततोऽयं हिरण्यपाणिः । तथा च कौषीतकम् । सवित्रे प्राशित्रं प्रतिजह्रुस्त्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति । सुजिह्वः । शोभनवाक् सविता विदथे यज्ञे त्रिस्त्रिषु सवनेषु दिवो नभसः सकाशादा पत्यमान आगच्छन् भवतीति शेषः । परोऽर्धर्चः प्रत्यक्षः । हे सवितस्त्वं देवेषु स्तोतृषु विद्यमानं च श्लोकम् । श्लोक्यतेऽनेनेति श्लोकः स्तोत्रम् । तदश्रेः । प्राप्नुहि च । अदनन्दरं सर्वतातिं सर्वमपेक्शितं फलमस्मभ्यमा सुव । प्रेरय । हिरण्यपाणिः । हिरण्यशब्दं यास्को बहुधा निर्वक्ति । हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमित्यादिना । नि.२-१० । पाणिशब्दं च निर्विवेच । पाणिः पणायतेः पूजाकर्मणः । नि.२-२६ । इति हर्य कान्तिगत्योः । हर्यतेः कन्यन् हिर चेति कन्यन् हिर इत्ययमादेशो धातोः । नित्त्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदस्वरः पत्यमानः । पद गतौ । दिवादिरात्मने पदी । दकारस्य तकारश्छान्दसः । अश्रेः । श्रिञ् सेवायामित्यस्य लङि बहुलं छन्दसीति शपो लुक् । चवायोगे प्रथमेति न निघातः सुव । षू प्रेरणे । तुदादिः । सर्वतातिम् । सर्वदेवात्तातिल् स्वार्थिकः । लित्स्वरः ॥ ११ ॥
सु॒कृत्सु᳚पा॒णिः स्ववा{4}᳚ ऋ॒तावा᳚ दे॒वस्त्वष्टाव᳚से॒ तानि᳚ नो धात् ।
पू॒ष॒ण्वन्त᳚ ऋभवो मादयध्वमू॒र्ध्वग्रा᳚वाणो अध्व॒रम᳚तष्ट ॥
सु॒॑कृत् । सु॒॑पा॒णिः । स्व॑वा᳚न् । ऋ॒त॑वा᳚ । दे॒वः । त्वष्टा᳚ । अव᳚से । तानि᳚ । नः॒ । धा॒त् ।
पू॒ष॒ण्॑वन्तः᳚ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । ऊ॒र्ध्व॑ग्रा᳚वाणः । अ॒ध्व॒रम् । अ॒त॒ष्ट॒ ॥
सकृत्सुष्ठु जगतः कर्ता सुपाणिः कल्याणपाणिः स्ववान् धनवानृतावा सत्य सङ्कल्पस्त्वष्टा देवस्तानि यान्यस्माकमपेक्शितान्यवसे रक्षणाय नोऽस्मभ्यं धात् । ददातु । ऋभवः । उरु भान्तीत्यृभवः । हे ऋभवः पूशण्वन्तः पूश्णा सहित यूयं मादयध्वम् । अस्मान् धनप्रदानेन हृष्टान् कुरुत । ऊर्ध्वग्रावाणः सोमाभिषवार्थमुद्यतग्रावानः सन्त ऋत्विज इममस्मदीयमध्वरमतष्ट । अकुर्वन् । अतष्ट । तक्षू त्वक्षू तनूकरणे । ऊदित्त्वादत्रेडभावः । झलो झलीति सिलोपः । स्कोः संयोगाद्योरिति ककारलोपः । बहुवचनस्यैकवचनं छान्दसं ॥ १२ ॥
वि॒द्युद्र᳚था म॒रुत᳚ ऋष्टि॒मन्तो᳚ दि॒वो मर्या᳚ ऋ॒तजा᳚ता अ॒यासः᳚ ।
सर᳚स्वती शृणवन्य॒ज्ञिया᳚सो॒ धाता᳚ र॒यिं स॒हवी᳚रं तुरासः ॥
वि॒द्युत्॑र᳚थाः । म॒रुतः᳚ । ऋ॒ष्टि॒॑मन्तः᳚ । दि॒वः । मर्याः᳚ । ऋ॒त॑जा᳚ताः । अ॒यासः᳚ ।
सर᳚स्वती । शृ॒ण॒व॒न् । य॒ज्ञिया᳚सः । धात᳚ । र॒यिम् । स॒ह॑वी᳚रम् । तु॒रा॒सः॒ ॥
मिद्युद्रथा विद्योतमानरथोपेता ऋष्तिमन्तो दीप्तिमन्तः । ऋष्टिरायुधविशेषः । तद्वन्तो वा दिवो द्योतमाना मर्याः शत्रूणां मारयितार ऋतजाता उदकाद्यज्ञाद्वा प्रादुर्भूताः । यद्वा । ऋतमुदकं जातं येभ्यस्ते ऋतजाताः । आयासः सततगमनशीला यज्ञियासो यज्ञार्हा मरुतः सरस्वती । गद्यपद्यरूपेण प्रसरणमस्या अस्तीति सरस्वती । वाग्देवता च । एते सर्वे देवा मदीयमिमं स्तोमं शृणवन् । शृण्वन्तु । तुरासोऽस्माकं फलप्रदाने त्वरणयुक्ता हे मरुतः । सहवीरं पुत्रसहितं रयिं धनं धात । अस्मभ्यं धत्त । धात । दधातेर्लोटि बहुलं छन्दसीति शपोलुक् । तप्तनप्तनथानश्चेति तबादेशः पादादित्वादनिघातः । तपः । पित्त्वादनुदात्तत्वे धातुस्वरः । तुरासः । तुर त्वरणे । इगुपधलक्षणः कः । आमन्त्रितत्वान्निघातः ॥ १३ ॥
विष्णुं॒ स्तोमा᳚सः पुरुद॒स्मम॒र्का भग᳚स्येव का॒रिणो॒ याम᳚नि ग्मन् ।
उ॒रु॒क्र॒मः क᳚कु॒हो यस्य᳚ पू॒र्वीर्न म᳚र्धन्ति युव॒तयो॒ जनि᳚त्रीः ॥
विष्णु᳚म् । स्तोमा᳚सः । पु॒रु॒॑द॒स्मम् । अ॒र्काः । भग᳚स्य॑इव । का॒रिणः᳚ । याम᳚नि । ग्म॒न् ।
उ॒रु॒॑क्र॒मः । क॒कु॒हः । यस्य᳚ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः᳚ । जनि᳚त्रीः ॥
स्तोमासः । स्तूयन्त एभिरिति स्तोमाः स्तोत्राणि । आर्का अर्चनीयानि शस्त्राणि च भगस्येव धनस्य कारिणः कर्तॄणीव स्तिह्तानि तानि यामनि सन्ततं प्रतायमानेऽस्मिन्यज्ञे पुरुदस्मं बहुकर्माणम् । यद्वा । बहून् दस्यत्युपक्षपयतीति पुरुदस्मः । तं विष्णुं देवं ग्मन् । गच्छन्तु । पूर्वीर्बह्व्यो जनित्रीः सर्वस्य जनयित्र्यो युवतयः परस्परमसङ्कीर्णाः ककुहः । कं स्कुभ्नन्ति विस्तारयन्तीति ककुभो दिशः । यद्वा । ककुबुच्छ्रयार्थः उच्छ्र्ता इव हि दिशो वृक्षाग्रेषूपलभ्यमनास्तिष्ठन्ति । एता दिशो विष्णोराज्ञां न मर्धन्ति । न हिंसन्ति । स विष्णुरुरुक्रमः । उरुर्महान् क्रमः पादविक्षेपो यस्य सः । त्रिविक्रमावतार एकेनैव पादेन सर्वं जगदाक्रम्यातिष्ठत । ग्मन् । गमेर्लुङि मन्त्रे घसेत्यादिना च्लेर्लुक् ककुभः । पृषोदरादित्वाद्रूपस्वरसिद्धिः ॥ १४ ॥
इन्द्रो॒ विश्वै᳚र्वी॒र्यै॒३॒᳚ः पत्य᳚मान उ॒भे आ प᳚प्रौ॒ रोद᳚सी महि॒त्वा ।
पु॒रं॒द॒रो वृ᳚त्र॒हा धृ॒ष्णुषे᳚णः सं॒गृभ्या᳚ न॒ आ भ᳚रा॒ भूरि᳚ प॒श्वः ॥
इन्द्रः᳚ । विश्वैः᳚ । वी॒र्यैः᳚ । पत्य᳚मानः । उ॒भे इति᳚ । आ । प॒प्रौ॒ । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा ।
पु॒र॒म्॑द॒रः । वृ॒त्र॒॑हा । धृ॒ष्णु॑से᳚णः । स॒म्॑गृभ्य᳚ । नः॒ । आ । भ॒र॒ । भूरि᳚ । प॒श्वः ॥
विश्वै सर्वैर्विरैः सामर्थ्यैः पत्यमानः प्राप्यमाणः स इन्द्र उभे रोदसी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना पप्रौ । पूरयामास । शेषः प्रत्यक्षकृतः । पुरन्दरः शत्रुपुरां दारयिता वृत्रहा वृत्रस्य हन्ता धृष्णुषेणः प्राभिभवनशीलसेनोपेतः अत्वं पश्वः पशून् संगृभ्य संगृह्य नोऽस्मभ्यं भूरि प्रभूतं यथा भवति तथा भर । देहि । यद्वा । पश्वः पशोर्भूरि बहुत्वं बहून् पशूंश्च यच्छेति । पुरन्दरः । दॄ विदारण इत्यस्य पुरशब्द उपपदे पूः सर्वयोर्दारिसहोरिति खच् प्रत्ययः । वाचंयमपुरन्दरौ चेति निपातनात्पुर्वपदस्यामागमः । चित्त्वादन्तोदात्तः । धृष्णुषेणः । पुर्वपदादिति संहितायां षत्वम् । यदा षत्वं तदा रषाभ्यामिति णत्वम् । संगृभ्य । ग्रहेर्ल्यपि स्थानिवद्भावात्संप्रसारनम् । हृग्रहोर्भश्छन्दसीति भत्वम् । लितीति प्रत्ययत्पूर्वस्योदात्तत्वम् । पश्वः । पशुशब्दात् शसः जसादिषु छन्दसि वावचनमिति सवर्णदीर्घाभावः ॥ १५ ॥
नास᳚त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य᳚म॒श्विनो॒श्चारु॒ नाम᳚ ।
यु॒वं हि स्थो र᳚यि॒दौ नो᳚ रयी॒णां दा॒त्रं र᳚क्षेथे॒ अक᳚वै॒रद᳚ब्धा ॥
नास᳚त्या । मे॒ । पि॒तरा᳚ । ब॒न्धु॒॑पृच्छा᳚ । स॒॑जा॒त्य᳚म् । अ॒श्विनोः᳚ । चारु᳚ । नाम᳚ ।
यु॒वम् । हि । स्थः । र॒यि॒॑दौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति᳚ । अक᳚वैः । अद᳚ब्धा ॥
हे नासत्यावश्विनौ बन्धुपृच्छा । हविष्प्रदातृत्वेन बन्धूनस्मानपेक्षितमर्थं पृच्छत इति बन्धूनां प्रष्टारौ । युवां मे पितरौ पालयितारौ भवतम् । युवयोरश्विनोः सजात्यं सजाते भवं सङ्गतं चारु नाम कमनीयं खलु । हे आश्विनौ युवं युवां नोऽस्मभ्यं रयीणां धनानां मध्ये रयिदावुत्तमस्य धनस्य दातारौ स्थो हि । भवथः खलु । किञ्च अदब्धा केनाप्यतिरस्कृतौ युवां दात्रं हविषां दातारं मामकवैर्कुत्सितैः शोभनैः कर्मभी रक्षेथे । पालयतम् । नानत्या । नभ्राण्नपादित्यादिना निपातनान्नञः प्रकृतिभावः । बन्धुपृच्छा । पृच्छेः क्विप् । सुपां सुलुगिति सुपो डादेशः । सजात्यम् । सजाते भवम् । भवे छन्दसीति यत् । तित्स्वरितः । स्थः । आस्तेर्लटि रूपम् । हियोगादनिघातः ॥ १६ ॥
म॒हत्तद्व᳚ः कवय॒श्चारु॒ नाम॒ यद्ध᳚ देवा॒ भव᳚थ॒ विश्व॒ इन्द्रे᳚ ।
सख᳚ ऋ॒भुभि᳚ः पुरुहूत प्रि॒येभि᳚रि॒मां धियं᳚ सा॒तये᳚ तक्षता नः ॥
म॒हत् । तत् । वः॒ । क॒व॒यः॒ । चारु᳚ । नाम᳚ । यत् । ह॒ । दे॒वाः॒ । भव᳚थ । विश्वे᳚ । इन्द्रे᳚ ।
सखा᳚ । ऋ॒भु॑भिः᳚ । पु॒रु॒॑हू॒त॒ । प्रि॒येभिः᳚ । इ॒माम् । धिय᳚म् । सा॒तये᳚ । त॒क्ष॒त॒ । नः॒ ॥
हे कवयो मेधाविनो हे देवा वो युष्माकं तत्तादृशं महत्प्रभूतं नाम कर्म नमनं वा चारु मनोहरं खलु । यद्येन कर्मणा विश्वे सर्वे यूयमिन्द्र इन्द्रोपलक्शिते लोके देवा भवथ ह देवत्वं प्राप्नुथ खलु । हे पुरुहूत बहुभिराहूत हे इन्द्र त्वं प्रियेभिः प्रियतमैऋभिभिः । ऋतेन भवन्त्यृतेन भान्तीति वा । ऋभभिर्देवैः सखासि । इन्द्रसहिता ऋभवो यूयमिमामस्मदीयां धियं स्तुतिं नोऽस्माकं सातये धनादिलाभार्थं तक्शत । स्वीकुरुत । यत् । सुपां सुलुगित्यादिना सुपो लुक् । भवथ । भवतेर्लटि रूपम् । यद्वृत्तयोगादनिघातः । सख ऋभुभिरित्यस्य संहितायामृत्यक इति प्रकृतिभावो ह्रस्वत्वं च ॥ १७ ॥
अ॒र्य॒मा णो॒ अदि᳚तिर्य॒ज्ञिया॒सो॑द᳚ब्धानि॒ वरु᳚णस्य व्र॒तानि᳚ ।
यु॒योत᳚ नो अनप॒त्यानि॒ गन्तो᳚ः प्र॒जावा᳚न्नः पशु॒मा{4} अ᳚स्तु गा॒तुः ॥
अ॒र्य॒मा । नः॒ । अदि᳚तिः । य॒ज्ञिया᳚सः । अद᳚ब्धानि । वरु᳚णस्य । व्र॒तानि᳚ ।
यु॒योत᳚ । नः॒ । अ॒न॒प॒त्यानि᳚ । गन्तोः᳚ । प्र॒जा॑वा᳚न् । नः॒ । प॒शु॒॑मान् । अ॒स्तु॒ । गा॒तुः ॥
अर्यमा । ऋच्छति सर्वदा गच्छतीत्यर्यमा सूर्यः । अदितिर्देवमाता यज्ञियासो यज्ञार्हा देवा यस्य वरुणस्य व्रतानि कर्मण्यदब्धान्यहिंसितानि भवन्ति स वरुणस्ते चार्यमादयो देवा नोऽस्मान्रक्शन्त्विति शेशः । ते यूयं नोऽस्माकमनपत्यान्यपत्यानां पुत्राणामहितानि कर्माणि । यद्वा । पतनकारणं न भवतीत्यपत्यम् । तदन्यान्यनपत्यानि पतनकारणानि कर्माणि गन्तोः सन्मार्गाद्युयोत । पृथक्कुरुत । यथा तान्यहितानि कर्माणि न स्पृशन्ति तथा कुरुतेत्यर्थः । अथ गातुः । गायन्ति स्तुवन्तीन्द्रादीनत्रेति गातुर्गृहम् । नोऽस्मदीयं गृहं पशुमान्पश्वादियुक्तं प्रजावानपत्योपेतमस्तु । अर्यमा । ऋ गतौ । श्वन्नुक्षन्प्लीहन्क्लेदन्नित्यादिना निपातनाद्रूपसिद्धिः । अदितिः । दीङ् क्षय इत्यस्य कर्तरि क्तिच् । न ञा समासः । अदितिरदीनेति यास्कः । छान्दसं ह्रस्वत्वम् । नञः स्वरः । युयोत । यौतेरमिश्रीभावकर्मणो लोटि बहुलं छन्दसीति शप श्लुः । तप्तनबिति तप्रत्ययस्य तबादेशः । गन्तोः । गम्लृ गतौ । सितनिगमिमसिसच्यविधाञ् क्रुशिभ्य इति तुन्प्रत्ययः । नित्त्वादाद्युदात्तः । तातुः । गापाहिभ्यश्चेति तुप्रत्ययः ॥ १८ ॥
दे॒वानां᳚ दू॒तः पु᳚रु॒ध प्रसू॒तो॑ना᳚गान्नो वोचतु स॒र्वता᳚ता ।
शृ॒णोतु᳚ नः पृथि॒वी द्यौरु॒ताप॒ः सूर्यो॒ नक्ष᳚त्रैरु॒र्व१॒᳚न्तरि᳚क्षम् ॥
दे॒वाना᳚म् । दू॒तः । पु॒रु॒ध । प्र॑सू᳚तः । अना᳚गान् । नः॒ । वो॒च॒तु॒ । स॒र्व॑ता᳚ता ।
शृ॒णोतु᳚ । नः॒ । पृ॒थि॒वी । द्यौः । उ॒त । आपः᳚ । सूर्यः᳚ । नक्ष᳚त्रैः । उ॒रु । अ॒न्तरि᳚क्षम् ॥
पुरुध पुरुषु बहुषु देशेषु प्रसूतोऽग्निहोत्रार्थं विहितः । यद्वा । पुरुभिर्यजमानैः प्रसूतो यष्टव्यदेवाह्वानार्थं प्रेरितो देवानां दूतः । तथा च तैत्तिरीयकम् । अग्निर्देवानां दूत आसीदिति । तादृशोऽग्निः कर्मकर्तृसाधनवैगुण्येन सापराधानप्यस्माननागाननागसः । सर्वताता सर्वत्र वोचतु । ब्रवीतु । किञ्च पृथिवी द्यौश्च उतापि चापः सूर्यश्च नक्षत्रैरुरु विस्तीर्णमन्तरिकाहं च । एते सर्वे देवा नोऽस्मदीयां स्तुतिं शृणोतु । षृण्वन्तु । प्रत्येकविवक्शयैकवचनम् । प्रसूतः । षू प्रेरणे । कर्मणि क्तः । गतिरनन्तर इति गतेः प्रकृतिस्वरः । अनागान् । शसि सकारलोपश्छान्दसः । सवर्नदीर्घे कृते तस्माच्छसो न इति नत्वम् । वोचतु । वच परिभाषणे । व्यत्ययो बहुलमिति शपोऽङादेशः । वच उम् । गुणः । निघातः । नक्षत्रैः । नक्श गतौ । अमिनक्शियजिबन्धिपतिभ्योऽत्रन्नित्यत्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । यद्वा । नक्षरति न क्षीयत इति वा नक्षत्रम् । नभ्राण्नपादिति नञः प्रक्रुतिभावः । नञः स्वरः ॥ १९ ॥
शृ॒ण्वन्तु᳚ नो॒ वृष᳚ण॒ः पर्व᳚तासो ध्रु॒वक्षे᳚मास॒ इळ᳚या॒ मद᳚न्तः ।
आ॒दि॒त्यैर्नो॒ अदि᳚तिः शृणोतु॒ यच्छ᳚न्तु नो म॒रुत॒ः शर्म᳚ भ॒द्रम् ॥
शृ॒ण्वन्तु᳚ । नः॒ । वृष᳚णः । पर्व᳚तासः । ध्रु॒व॑क्षे᳚मासः । इळ᳚या । मद᳚न्तः ।
आ॒दि॒त्यैः । नः॒ । अदि᳚तिः । शृ॒णो॒तु॒ । यच्छ᳚न्तु । नः॒ । म॒रुतः᳚ । शर्म᳚ । भ॒द्रम् ॥
वृषणोऽभिमतफलसेचका मरुतः पर्वतासः । पृणन्ति पूरयन्त्यर्थिनां कामानिति पर्वता गाव्राभिमानिनो देवाः ध्रुवक्षेमासो निश्चलस्थाना इलयाहविर्लक्षनेनान्नेन मदन्तो माद्यन्तः सन्तो नोऽस्मदीयां स्तुतिं शृण्वन्तु । किञ्च अदित्यैरपत्यभूतैरादित्यैरुपेतादितिर्नोऽस्मदीयां स्तुतिं शृणोतु । मरुतश्च नोऽस्म्भ्यं भद्रं कल्याणकरं शर्म सुखं यच्छन्तु । ददतु । आदित्यैः । अदितेरपत्यानीत्यर्थे दित्यदितिति ण्यः । प्रत्ययस्वरेणान्तोदात्तः । सुपा सहैकादेशे कृत एकादेश उदात्तः ॥ २० ॥
सदा᳚ सु॒गः पि᳚तु॒मा{4} अ᳚स्तु॒ पन्था॒ मध्वा᳚ देवा॒ ओष᳚धी॒ः सं पि᳚पृक्त ।
भगो᳚ मे अग्ने स॒ख्ये न मृ᳚ध्या॒ उद्रा॒यो अ᳚श्यां॒ सद᳚नं पुरु॒क्षोः ॥
सदा᳚ । सु॒॑गः । पि॒तु॒॑मान् । अ॒स्तु॒ । पन्थाः᳚ । मध्वा᳚ । दे॒वाः॒ । ओष᳚धीः । सम् । पि॒पृ॒क्त॒ ।
भगः᳚ । मे॒ । अ॒ग्ने॒ । स॒ख्ये । न । मृ॒ध्याः॒ । उत् । रा॒यः । अ॒श्या॒म् । सद᳚नम् । पु॒रु॒॑क्षोः ॥
प्रवत्स्यन्यजमानः सदा सुग इत्यृचं जपन् गच्छेत् । सूत्रितं च । सदा सुगः पितुमाङ् अस्तु पन्था इति पन्थानमवरुह्य । आ. २-५ । इति ॥
हे अग्ने अस्माकं पन्था मार्गः सदा सर्वदा सुगः सुखेन गन्तुं शक्यः पितुमानन्नवांश्चास्तु । हे देवा मध्वा माधुर्योपेतेनोदकेनौशधीः सं पिपृक्त । संपर्चयत । सेचयतेत्सर्थेः । हे अग्ने त्वया सख्ये सञ्जाते सति मे मम भगो धनं न मृध्याः । न विनश्यतु । किञ्च रायो धनस्य पुरुक्शोर्बह्वन्नस्य च सदनं स्थानमुदश्याम् । प्राप्नुयाम् । सदा । स्वरादिष्वाद्युदात्तत्वेन पाठदाद्युदात्तः । पिपृक्त । पृची सम्पर्के । लोटि भौलं छन्दस्तीति शपः श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । मृध्याः । मृधिर्हिंसार्थः । लिङि तिङा तिङो भवन्तिति तिपः सिप् ॥ २१ ॥
स्वद᳚स्व ह॒व्या समिषो᳚ दिदीह्यस्म॒द्र्य१॒᳚क्सं मि᳚मीहि॒ श्रवां᳚सि ।
विश्वा{4}᳚ अग्ने पृ॒त्सु ताञ्जे᳚षि॒ शत्रू॒नहा॒ विश्वा᳚ सु॒मना᳚ दीदिही नः ॥
स्वद᳚स्व । ह॒व्या । सम् । इषः᳚ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य᳚क् । सम् । मि॒मी॒हि॒ । श्रवां᳚सि ।
विश्वा᳚न् । अ॒ग्ने॒ । पृ॒त्॑सु । तान् । जे॒षि॒ । शत्रू᳚न् । अहा᳚ । विश्वा᳚ । सु॒॑मनाः᳚ । दी॒दि॒हि॒ । नः॒ ॥
पुशो पुरोडाशस्विष्टकृतः स्वदस्व हव्येति याज्या । सुत्रितं च । स्वदस्व हव्या समिषो दिदीहीति पुरोडाशस्विश्टकृतः । आ. ३-५ । इति ।
हे अग्ने हव्या हवनयोग्यानि हवींशि स्वदस्व । स्वादय । अस्माकमिषोऽन्नानि सं दिदीहि । सम्यक् प्रकाशय । दीपितान तानि श्रवांस्यन्नान्यस्मद्र्यगस्मदभिमुखानि संमिमीहि सम्मानय । कुर्वित्यर्थः । ततः पृत्सु सङ्रामेषु तान्बाधकान्विश्वान्य शत्रून् ज्र्षि । जय । अथ सुमनाः शोभनमनस्कः सन् नोऽस्माकं विश्वाहा सर्वाण्यहानि दीदिहि । अग्निहोत्रादिकर्मयोग्यानि प्रकाशय । स्वदस्व । स्वद आस्वादने । लोटि रूपम् । थासो लसार्वधातुकस्वरे धातुस्वरः । दिदीहि । दिवु क्रीडादावित्यस्य लोटि बहुलं छन्दसिति विकरणस्य श्लुः । परत्वात् हलि चेति दीर्घत्वे कृते पश्चाद्वलि लोपः । निघातः । अस्मद्र्यक् । अस्मानञ्चतित्यन्तचतेः क्विप् । विष्वग्देवयोश्च टेरिति यणः स्वरितत्वम् । मिमीहि । माङ् माने शब्दे च । जुहोत्यादिः । तस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । सुमनाः । सोर्मनसीत्युतरपदाद्युदात्तत्वम् । दीदिहि । दिवेर्युङ् लुकि लोटि तुजादित्वादभ्यासस्य दीर्घः । वलि लोपः ॥ २२ ॥