विश्वेदे॒ते जनि᳚मा॒ सं वि᳚विक्तो म॒हो दे॒वान्बिभ्र᳚ती॒ न व्य᳚थेते ।
एज᳚द्ध्रु॒वं प᳚त्यते॒ विश्व॒मेकं॒ चर᳚त्पत॒त्रि विषु᳚णं॒ वि जा॒तम् ॥
एज᳚द्ध्रु॒वं प᳚त्यते॒ विश्व॒मेकं॒ चर᳚त्पत॒त्रि विषु᳚णं॒ वि जा॒तम् ॥
पदपाठः (Word-by-word)
विश्वा᳚ । इत् । ए॒ते इति᳚ । जनि᳚म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र᳚ती॒ इति᳚ । न । व्य॒थे॒ते॒ इति᳚ ।
एज᳚त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व᳚म् । एक᳚म् । चर᳚त् । प॒त॒त्रि । विषु᳚णम् । वि । जा॒तम् ॥
एज᳚त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व᳚म् । एक᳚म् । चर᳚त् । प॒त॒त्रि । विषु᳚णम् । वि । जा॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
एते द्यावापृथिव्यौ विश्वेज्जनिम सर्वाण्यपि भूतजातानि सं विविक्तः । अवकाशप्रदानेन संविभज्य कुरुतः । किञ्च महो महतो देवानिन्द्र सूर्यादीन् सरित्समुद्रपर्वतादींश्च बिभ्रती बिभ्राणे अपि न व्यथेते । न खिद्येते । किञ्चएजज्जंगमात्मकं ध्रुवं स्थावरात्मकं च विश्वं जगदेकं स्थानं पृथिवीमेव पत्यते । अभिगच्छति । तथा चरच्चञ्चलं पशुजातं पतत्रि पक्षिजातं च विषुणं विष्वक् नानारूपमनयोर्मध्ये वितिष्ठते । योग्यक्रियाध्याहारः । विविक्तः । विचिर् पृथग्भावे । जुहोत्यादिः । निघातः । बिभ्रती । डुभृञ् धारणपोषणयोरित्यस्य शतरि नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः । एजत् । एजृ कम्पने । शतरि रूपम् । पत्यते । पद गतौ । दिवादिरात्मनेपदी । दकारस्य तकारो व्यत्ययेन । निघातः ॥ ८ ॥