श्रवणम्

3.54.2
महि᳚ म॒हे दि॒वे अ᳚र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च᳚रति प्रजा॒नन् ।
ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स᳚प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ॥
▶ पदपाठः (Word-by-word)
महि᳚ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः᳚ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒॑जा॒नन् ।
ययोः᳚ । ह॒ । स्तोमे᳚ । वि॒दथे᳚षु । दे॒वाः । स॒प॒र्यवः᳚ । मा॒दय᳚न्ते । सचा᳚ । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतर्महे महत्यै दिवे द्युलोकदेवतायै महत्यै पृथिव्यै च महि महत् त्वं प्रजानन् स्तोत्रमर्च । कुरु । मे मम कामो मनोरथः सर्वान् भोगानिच्छन् चरति । सर्वत्र वर्तते । आयोर्मनुष्यस्य विदथेषु यज्ञेषु ययोर्द्यावापृथिव्योः स्तोमे स्तोत्रे सपर्यवः पूजाकामा देवाः स्तोतारो वा सचा मादयन्ते ह सह माद्यन्ति खलु ॥ पृथिव्यै । उदात्तयण इति विभक्तेरुदात्तत्वम् । सपर्यवः । सपर्यामिच्छतीत्यर्थे सुपः क्यच् ॥ २ ॥