श्रवणम्

3.54.16
नास᳚त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य᳚म॒श्विनो॒श्चारु॒ नाम᳚ ।
यु॒वं हि स्थो र᳚यि॒दौ नो᳚ रयी॒णां दा॒त्रं र᳚क्षेथे॒ अक᳚वै॒रद᳚ब्धा ॥
▶ पदपाठः (Word-by-word)
नास᳚त्या । मे॒ । पि॒तरा᳚ । ब॒न्धु॒॑पृच्छा᳚ । स॒॑जा॒त्य᳚म् । अ॒श्विनोः᳚ । चारु᳚ । नाम᳚ ।
यु॒वम् । हि । स्थः । र॒यि॒॑दौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति᳚ । अक᳚वैः । अद᳚ब्धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ बन्धुपृच्छा । हविष्प्रदातृत्वेन बन्धूनस्मानपेक्षितमर्थं पृच्छत इति बन्धूनां प्रष्टारौ । युवां मे पितरौ पालयितारौ भवतम् । युवयोरश्विनोः सजात्यं सजाते भवं सङ्गतं चारु नाम कमनीयं खलु । हे आश्विनौ युवं युवां नोऽस्मभ्यं रयीणां धनानां मध्ये रयिदावुत्तमस्य धनस्य दातारौ स्थो हि । भवथः खलु । किञ्च अदब्धा केनाप्यतिरस्कृतौ युवां दात्रं हविषां दातारं मामकवैर्कुत्सितैः शोभनैः कर्मभी रक्षेथे । पालयतम् । नानत्या । नभ्राण्नपादित्यादिना निपातनान्नञः प्रकृतिभावः । बन्धुपृच्छा । पृच्छेः क्विप् । सुपां सुलुगिति सुपो डादेशः । सजात्यम् । सजाते भवम् । भवे छन्दसीति यत् । तित्स्वरितः । स्थः । आस्तेर्लटि रूपम् । हियोगादनिघातः ॥ १६ ॥