शृ॒णोतु᳚ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज᳚स्रः ॥
पदपाठः (Word-by-word)
शृ॒णोतु᳚ । नः॒ । दम्ये᳚भिः । अनी᳚कैः । शृ॒णोतु᳚ । अ॒ग्निः । दि॒व्यैः । अज᳚स्रः ॥
सायणभाष्यम् (Sayana Commentary)
महे महेते विदथ्याय विदथे यज्ञे मन्थनेन निष्पाद्यमानायेड्याय सर्वैः स्तुत्यायाग्नये शूशं सुखकरमिमं स्तोमं शश्वत्कृत्वो भूयो भूयः प्र जभ्रुः । प्रभरन्ति । प्रकर्षेण धारयन्ति । उच्चारयन्तीत्यर्थः । सोऽग्निर्दम्येभिः परेषां दमनकुशलैर्दमे गृहे विद्यमानैर्वानीकैस्तेजोभिर्युक्तः सन् नोऽस्मदीयमिमिमं स्तोमं शृणोतु । दिव्यैर्दिवि भवैस्तेजोभिरजस्रो निरन्तरं युक्तोऽगिन्रिमं स्तोमं शृणोतु । शश्वत्कृत्व ईड्याय प्रजभ्रुरिति स्वानामेवैनं तच्छ्रैष्थ्यं गमयति । ऐ. ब्रा. १-२८ । इति ब्राह्मणानुसारेण महदादिगुणविशिष्टाय यजमानायेममगिन्ं प्रजभ्रुः प्रहरन्त्यृत्विज इति वा व्याख्येयम् । उत्तरार्धर्चः समान एव । विदथ्याय । तत्र भव इत्यर्थे भवे छन्द्सीति यत् । तित्स्वरितः । ईड्याय । ईडवन्देत्यादिना उदात्तत्वम् । दम्येभिः । तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । दिव्यैः । दिवमर्हतीत्यर्थे छन्दसि चेति यप्रत्ययः । अजस्रः । जुसु मोक्षणे । नमिकंपीत्यादिना ताच्छिलिको रप्रत्ययः । नञा समासे तस्य स्वरः ॥ १ ॥