श्रवणम्

3.54.4 समानपद
उ॒तो हि वां᳚ पू॒र्व्या आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः᳚ ।
नर᳚श्चिद्वां समि॒थे शूर᳚सातौ ववन्दि॒रे पृ᳚थिवि॒ वेवि᳚दानाः ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । हि । वा॒म् । पू॒र्व्याः । आ॒॑वि॒वि॒द्रे । ऋत᳚वरी॒ इत्यृत᳚॑वरी । रो॒द॒सी॒ इति᳚ । स॒त्य॒॑वाचः᳚ ।
नरः᳚ । चि॒त् । वा॒म् । स॒म्॑इ॒थे । शूर᳚॑सातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि᳚दानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपि च हे ऋतावारी । ऋतं सत्यम् । तद्वत्यौ हे रोदसी द्यावापृथ्य्व्यौ पूर्व्याः पूर्वे भवाः पुरातनाः सत्यवाचो महर्षयो वां युवाभ्यामाविविद्रे हि । तं तमपेक्षितमर्थं लेभिरे खलु । तथा हे पृघिवि शूरसातौ शूराणां सातिर्लाभो यस्मिन् तस्मिन्समिथे सङ्गमननिमित्ते युद्धे नरश्चिदद्यतना मनुषुयाश्च वां युवयोर्माहात्म्यं वेविदाना जानन्तोऽतो द्यावापृथिव्यौ ववन्दिरे । स्तुवन्ति । आविविद्रे । विद्लृ लाभे इत्ययमुधयपदी । लिटि इरयो र इति रे आदेशः । सह सुपेत्यत्र सहेति योगविभागादाङा सह समासः । समिथे । इण् गतौ । समीण इति थक्प्रत्ययः । प्रत्ययस्वरः ॥ ४ ॥