श्रवणम्

3.54.7
स॒मा॒न्या वियु᳚ते दू॒रेअ᳚न्ते ध्रु॒वे प॒दे त᳚स्थतुर्जाग॒रूके᳚ ।
उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒ आदु᳚ ब्रुवाते मिथु॒नानि॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मा॒न्या । वियु᳚ते॒ इति॒ वि॑यु᳚ते । दू॒रेअ᳚न्ते॒ इति᳚ दू॒रे॑अ᳚न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ । जा॒ग॒रूके॒ इति᳚ ।
उ॒त । स्वसा᳚रा । यु॒व॒ती इति᳚ । भव᳚न्ती॒ इति᳚ । आत् । ऊं॒ इति᳚ । ब्रु॒वा॒ते॒ इति᳚ । मि॒थु॒नानि᳚ । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सामान्या समाने परस्परप्रीणनाख्येन कर्मणैकमत्यं गते वियुते वियुज्य वर्तमाने दूरे अन्ते । दूरेऽन्तोऽवसानं ययोस्ते दूरे अन्ते । अविनाशिन्यौ ते द्यावापृथिव्यौ जागरूके जागरणशीले सत्यौ ध्रुवेऽविनाशिनि पदेऽन्तरिक्षे तस्थुतुः । तिष्ठत । उतापि च युवती नित्यतरुणे स्वसारा भगिन्यावेकस्मादात्मनो जाते इति भवन्ती तस्थतुरित्यन्वयः । आदनन्तरं मिथुनानि द्वन्द्वानि नाम उर्वी पृथ्वी बहुले दूरे अन्ते रोदसी पुरोहिति इत्यादीनि नामानि ब्रुवाते । ते परस्परं ब्रूतः । उर्व्यादिभिर्द्वन्द्वनामभिर्द्यावापृथिव्यावुच्यते इत्यर्थः ॥ सामान्या । सुपां सुलिगिति विभक्तेर्डादेशः । दूरे अन्ते । इण् गतौ । दुरीणो लोपश्च । उ. २-२० । इति रक्प्रत्ययो धातोर्लोपश्च । रो रीति रेफलोपः । ढ्रलोप इति दीर्घः । अन्तशब्दोऽमेरसिहसीत्यादिना तन्प्रत्य्त्यान्तः । सप्तम्युपमानेति बहुव्रीहिः । हलदन्तादिति सप्तम्या अलुक् । पुर्वपदस्वरः । जागरूके । जागृ निद्राक्शय इत्यस्मात्ताच्छील्यार्थे जागरूकः । पा. ३-२-१६५ । क्त्यूकप्रत्य्त्यः । प्रत्ययस्वरः । स्वसारा । न षट् स्वस्रादिभ्य इति ङीपः प्रतिषेधः ॥ ७ ॥