तृतीयं मण्डलम् - सूक्तम् 48

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.48 - सम्पूर्णम्

1 / 5
ऋक्: 3.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.48.1
स॒द्यो ह᳚ जा॒तो वृ᳚ष॒भः क॒नीन॒ः प्रभ᳚र्तुमाव॒दन्ध᳚सः सु॒तस्य᳚ ।
सा॒धोः पि᳚ब प्रतिका॒मं यथा᳚ ते॒ रसा᳚शिरः प्रथ॒मं सो॒म्यस्य᳚ ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । ह॒ । जा॒तः । वृ॒ष॒भः । क॒नीनः᳚ । प्र॑भ᳚र्तुम् । आ॒व॒त् । अन्ध᳚सः । सु॒तस्य᳚ ।
सा॒धोः । पि॒ब॒ । प्र॒ति॒॑का॒मम् । यथा᳚ । ते॒ । रस᳚॑आशिरः । प्र॒थ॒मम् । सो॒म्यस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभो वृष्टिद्वारापां वर्षिता सद्यस्तदानीमेव जात उत्पन्नः कनीनः कमनीय इन्द्रः सुतस्याभिषुतस्यान्धसो हविर्लक्शणस्यान्नस्य सोमस्य प्रभर्तुं प्रकर्षेण भर्तारं सङ्ग्रहीतारं यजमानमावत् । रक्षतु । ह प्रसिद्धौ । किञ्च तादृशस्त्वं प्रतिकामं कामे कामे सोमपानेच्छायां सत्यां ते तव यथा कामस्य पूर्तिर्भवति तथा साधो रसात्मना संसिद्धं रसाशिरो गोपयोमिश्रणोपेतं सोम्यस्य सोममयं रसं प्रथमं सर्वेभ्यो एवेभ्यः पुरस्तात्पिब । प्रतिकामम् । कामं कामं प्रति । वीप्सायामाव्ययीभावः । समासस्वरः । यथा । अपादान्तत्वादेव लित्स्वरः । रसाशिरः । आङ् पूर्वात् श्रीणातेः क्विप्यपस्पृधेथामित्यादिनाशिर् इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सोम्यस्य । सोमशब्दान्मयडर्थे मये चेति य प्रत्ययः ॥ १ ॥

3.48.2
यज्जाय᳚था॒स्तदह᳚रस्य॒ कामें॒॑शोः पी॒यूष᳚मपिबो गिरि॒ष्ठाम् ।
तं ते᳚ मा॒ता परि॒ योषा॒ जनि᳚त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । जाय᳚थाः । तत् । अहः᳚ । अ॒स्य॒ । कामे᳚ । अं॒शोः । पी॒यूष᳚म् । अ॒पि॒बः॒ । गि॒रि॒॑स्थाम् ।
तम् । ते॒ । मा॒ता । परि᳚ । योषा᳚ । जनि᳚त्री । म॒हः । पि॒तुः । दमे᳚ । आ । अ॒सि॒ञ्च॒त् । अग्रे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यद्यस्मिन्नहनि जायथा आजायथाः तदहस्तस्मिन्नेवाहन्यस्य सोमस्य कामे पिपासायां सत्यां गिरिष्ठां गिरिस्थां पर्वतोस्योच्चस्थाने वर्तमानमंशोः सोमलताखण्डविशिष्टस्य ऋजीषस्य पीयुशमभिनवं रसमपिबः । पीतवानसि । उत्पत्तिक्षण एव सोमपाने कारणं दर्शयति । ते तव जनित्री माता योषा युवतिरदितिर्महो महतः पितुर्जनकस्य कश्यपस्य दमे सूतिकागृहेऽग्रे स्तन्यदानात् प्राक् तं तादृषं सोमं पर्यासिञ्चत् । तवास्ये परितोऽक्षारयत् । जायथाः । जनी प्रादुर्भाव इत्यस्य लङि बहुलं छन्दसीत्यडभावः । यद्वृत्तयोगादनिघातः । जनित्री । जनिता मन्त्र इति निपातनाण्णेर्लोपः ॥ २ ॥

3.48.3
उ॒प॒स्थाय᳚ मा॒तर॒मन्न᳚मैट्ट ति॒ग्मम᳚पश्यद॒भि सोम॒मूधः᳚ ।
प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚ अ॒न्यान्म॒हानि᳚ चक्रे पुरु॒धप्र᳚तीकः ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑स्थाय᳚ । मा॒तर᳚म् । अन्न᳚म् । ऐ॒ट्ट॒ । ति॒ग्मम् । अ॒प॒श्य॒त् । अ॒भि । सोम᳚म् । ऊधः᳚ ।
प्र॒॑य॒वय᳚न् । अ॒च॒र॒त् । गृत्सः᳚ । अ॒न्यान् । म॒हानि᳚ । च॒क्रे॒ । पु॒रु॒ध॑प्र᳚तीकः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो मातरमुपस्थाय प्रार्थयित्वान्नमैट्ट । तामन्नमयाचत । ईळिरध्येषणाकर्मेति यास्कः । ततस्तस्या ऊध ऊधसि क्शीररूपेण स्थितं तिग्मं दीप्तं सोममभ्यपश्यत् । सर्वतोऽदर्शत् । गृत्सः । अभिका~क्श्यते सर्वैर्देवैः शत्रुहननार्थमिति गृत्स इन्द्रः । अन्यान्सपत्नान्प्रयवयन् स्वस्वस्थानात्प्रकर्षेणोच्चालयन्नचरत् । सर्वत्र चरति । किञ्च पुरुधप्रतीकस्तेजोयोगाद्बहुधा विक्षिप्ताङ्गो महानि महान्ति वृत्रहननादीनि कर्माणि चक्ते । उपस्थाय । तिश्ठतेर्ल्यपि घुमास्थेतीत्वे प्राप्ते न ल्यपीति प्रतिषेधः । लित्स्वरः । ऐट्ट । ईळिर्याज्ञार्थः । तस्माल्लङि रूपम् । आडजादीनामित्याडागमः । ष्टुत्वम् । निघातः । तिग्मम् । तिज निशाने । अस्माद्युजिरुचितिजां कुश्चेति मक्प्रत्ययः कवर्गादेशश्च । प्रयवयन् । यु मिश्रणामिश्रणयोरित्यस्यण्यन्तस्य शतरि रूपम् । लित्स्वरः । गृत्सः । गृधु अभिकांक्षायाम् । गृधिपण्य़ोर्दकौ चेति सप्रत्ययो दकारश्चान्तादेशः । वृषादित्वादाद्युदात्तः । पुरुधप्रतीकः । पुरुशब्द इह संख्यावाची । संख्याया विधार्थे धेति धाप्रत्ययः । ह्रस्वश्छान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ३ ॥

3.48.4
उ॒ग्रस्तु᳚रा॒षाळ॒भिभू᳚त्योजा यथाव॒शं त॒न्वं᳚ चक्र ए॒षः ।
त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम᳚मपिबच्च॒मूषु᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू᳚ति॑ओजाः । य॒था॒॑व॒शम् । त॒न्व᳚म् । च॒क्रे॒ । ए॒षः ।
त्वष्टा᳚रम् । इन्द्रः᳚ । ज॒नुषा᳚ । अ॒भि॒॑भूय᳚ । आ॒॑मुष्य᳚ । सोम᳚म् । अ॒पि॒ब॒त् । च॒मूषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य एष इन्द्र उग्रः शत्रूणां भयङ्करस्तुराषाट् त्वरया शत्रूणामभिभविता अत एवाभिभूत्योजाः शत्रूणामभिभवनपराक्रमोपेतः सन् तन्वमात्मीयं शरीरं यथावशं यथाकामं नानाविधरूपोपेतं चक्रे । तथा च मन्त्रवर्णः । रूपं रूपं मघवा बोभवीति । ऋग्वे. ३-५३-८ । इति स इन्द्रो जनुषा जन्मना सामर्थ्येन त्वष्टारं त्वष्टृनामकमसुरमभिभूय चमूषु चमसेषु स्थितमामुष्य चोरयित्वा सोममपिबत् । त्वष्टा हतपुत्रो वीन्द्रमित्यादि प्रासहा सोममपिबत् । तै. सं. २-४-१२ । इति तैत्तिरीयकम् । तुराषाट् । ञित्वरा सम्भ्रमे । क्विप् । ज्वरत्वरेत्यादिना ऊट् । सहेश्चन्दसि सह इति ण्विः । कर्तृकरणे कृता बहुलमिति समासः । तत्पुरुषे कृति बहुलमिति तृतीयाया अलुक् । सहेः साडः स इति षत्वम् । कृदुत्तरपदस्वरः । यथावशम् । वशं काममनतिक्रम्येत्यव्ययीभावसमासः । समासस्वरः । आमुष्य । मुशस्तेये । ल्यप् । चमूशु । चमु अदने । कृषिचमितनिधनिसर्जिखर्जिभ्य ऊरित्यूप्रत्ययः । प्रत्ययस्वरः ॥ ४ ॥

3.48.5
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं षुघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेशु व्रुत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिम्सन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं सम्यग्देतारं ता मूतये रक्शणाय वयमाह्वयेवा । शुनम् । तुओश्वि गैत्वृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृशादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्शणे । सम्पूर्वात् क्विप् । सम्भक्शयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञितम् । जि जये । क्विप् ॥ ५ ॥