श्रवणम्

3.48.2
यज्जाय᳚था॒स्तदह᳚रस्य॒ कामें॒॑शोः पी॒यूष᳚मपिबो गिरि॒ष्ठाम् ।
तं ते᳚ मा॒ता परि॒ योषा॒ जनि᳚त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । जाय᳚थाः । तत् । अहः᳚ । अ॒स्य॒ । कामे᳚ । अं॒शोः । पी॒यूष᳚म् । अ॒पि॒बः॒ । गि॒रि॒॑स्थाम् ।
तम् । ते॒ । मा॒ता । परि᳚ । योषा᳚ । जनि᳚त्री । म॒हः । पि॒तुः । दमे᳚ । आ । अ॒सि॒ञ्च॒त् । अग्रे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यद्यस्मिन्नहनि जायथा आजायथाः तदहस्तस्मिन्नेवाहन्यस्य सोमस्य कामे पिपासायां सत्यां गिरिष्ठां गिरिस्थां पर्वतोस्योच्चस्थाने वर्तमानमंशोः सोमलताखण्डविशिष्टस्य ऋजीषस्य पीयुशमभिनवं रसमपिबः । पीतवानसि । उत्पत्तिक्षण एव सोमपाने कारणं दर्शयति । ते तव जनित्री माता योषा युवतिरदितिर्महो महतः पितुर्जनकस्य कश्यपस्य दमे सूतिकागृहेऽग्रे स्तन्यदानात् प्राक् तं तादृषं सोमं पर्यासिञ्चत् । तवास्ये परितोऽक्षारयत् । जायथाः । जनी प्रादुर्भाव इत्यस्य लङि बहुलं छन्दसीत्यडभावः । यद्वृत्तयोगादनिघातः । जनित्री । जनिता मन्त्र इति निपातनाण्णेर्लोपः ॥ २ ॥