तृतीयं मण्डलम् - सूक्तम् 4

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इध्मः समिद्धोग्निर्वा छन्दः: त्रिष्टुप्

सूक्तम् 3.4 - सम्पूर्णम्

1 / 11
ऋक्: 3.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.4.1
स॒मित्स᳚मित्सु॒मना᳚ बोध्य॒स्मे शु॒चाशु᳚चा सुम॒तिं रा᳚सि॒ वस्व᳚ः ।
आ दे᳚व दे॒वान्य॒जथा᳚य वक्षि॒ सखा॒ सखी᳚न्त्सु॒मना᳚ यक्ष्यग्ने ॥
▶ पदपाठः (Word-by-word)
स॒मित्॑स᳚मित् । सु॒॑मनाः᳚ । बो॒धि॒ । अ॒स्मे इति᳚ । शु॒चा॑शु᳚चा । सु॒॑म॒तिम् । रा॒सि॒ । वस्वः᳚ ।
आ । दे॒व॒ । दे॒वान् । य॒जथा᳚य । व॒क्षि॒ । सखा᳚ । सखी᳚न् । सु॒॑मनाः᳚ । य॒क्षि॒ । अ॒ग्ने॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समित्समित् अत्यर्थंसमिद्धस्त्वं सुमनाः बोधिबुध्यस्व शुचाशुचा अत्यर्थं प्रसप्रकेण ज्योति षायुक्तः त्वं वस्वोवसुनोधनस्यतद्विषयां सुमतिं शॊभनांबुद्धिं अस्मेअस्मभ्यं रासिदेहि हे देव द्योतमान देवान् यजनीयान् यजथाययज्ञाय तदर्थं आवक्षिआवहसि हेअग्नेसखादेवानां सखात्वं सुमनाःसन् सखीन् देवान् यक्षियजस्व ॥ १ ॥

3.4.2 समानपद
यं दे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते दि॒वेदि᳚वे॒ वरु᳚णो मि॒त्रो अ॒ग्निः ।
सेमं य॒ज्ञं मधु᳚मन्तं कृधी न॒स्तनू᳚नपाद्घृ॒तयो᳚निं वि॒धन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
यम् । दे॒वासः᳚ । त्रिः । अह᳚न् । आ॒॑यज᳚न्ते । दि॒वे॑दि᳚वे । वरु᳚णः । मि॒त्रः । अ॒ग्निः ।
सः । इ॒मम् । य॒ज्ञम् । मधु᳚॑मन्तम् । कृ॒धि॒ । नः॒ । तनू᳚॑नपात् । घृ॒त॑यो᳚निम् । वि॒धन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणःमित्रःअग्निः एतेत्रयोदेवासोदेवाः यमग्निंदिवेदिवेप्रतिदिवसं अहन् अहनित्रिः प्रातर्मध्या ह्नसायंतनेषुसवनेषु त्रिवारं आयजन्ते हेतनूनपात् तनूनांशरीराणां नपातयितः सत्वं घृतयोनिं घृस्योदकस्यकारणं विधन्तंविधीयमानंक्रियमाणं नोस्मदीयमिमंयज्ञं मधुमन्तं मध्वित्युदकनाम वृष्ट्यादिफलयुक्तंक्रुधिकुरु ॥ २ ॥

3.4.3
प्र दीधि᳚तिर्वि॒श्ववा᳚रा जिगाति॒ होता᳚रमि॒ळः प्र᳚थ॒मं यज᳚ध्यै ।
अच्छा॒ नमो᳚भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य᳚क्षदिषि॒तो यजी᳚यान् ॥
▶ पदपाठः (Word-by-word)
प्र । दीधि᳚तिः । वि॒श्व॑वा᳚रा । जि॒गा॒ति॒ । होता᳚रम् । इ॒ळः । प्र॒थ॒मम् । यज᳚ध्यै ।
अच्छ᳚ । नमः᳚॑भिः । वृ॒ष॒भम् । व॒न्दध्यै᳚ । सः । दे॒वान् । य॒क्ष॒त् । इ॒षि॒तः । यजी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्ववाराविश्वैर्जनैर्वरणीया दीधितिः स्तुतिः दीप्तिर्वा होतारं देवानामाह्वातारमग्निंप्रजि गाति जिगातु प्रकर्षेणगच्छतु प्रथमंमुख्यंअच्छआभिमुख्येन वृषभंसंपदांवर्षितारंवन्दध्यैवन्दितुं योग्यमितिशेषः अग्निंनमोभिः नमस्कारैः सह इळः इषः हवीरूपाण्यन्नानियजध्यै यष्टुंप्रीणयितुं प्रजिगातु प्रकर्षेणगच्छन्तु इषितः अस्माभिःप्रेरितः यजीयान् यष्टृतमः सोग्निर्देवान् यक्षत् यजतु ॥ ३ ॥

3.4.4
ऊ॒र्ध्वो वां᳚ गा॒तुर᳚ध्व॒रे अ᳚कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि᳚ता॒ रजां᳚सि ।
दि॒वो वा॒ नाभा॒ न्य᳚सादि॒ होता᳚ स्तृणी॒महि᳚ दे॒वव्य᳚चा॒ वि ब॒र्हिः ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । वा॒म् । गा॒तुः । अ॒ध्व॒रे । अ॒का॒रि॒ । ऊ॒र्ध्वा । शो॒चींषि᳚ । प्र॑स्थि᳚ता । रजां᳚सि ।
दि॒वः । वा॒ । नाभा᳚ । नि । अ॒सा॒दि॒ । होता᳚ । स्तृ॒णी॒महि᳚ । दे॒व॑व्य᳚चाः । वि । ब॒र्हिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वांयुवयोः अग्निश्चबर्हिश्चउभौवामित्युच्येते समिदादिभिः सहितस्यैवाग्नेर्देवतात्वात् ऊर्ध्वः उन्नतः गातुर्यज्ञमार्गः अध्वरेयज्ञे अकारि आश्रयःक्रियते शोचींषिअर्चिष्मन्तिरजांसिहवींषिऊर्ध्वा ऊर्ध्वंग्रस्थिता प्रस्थितानिगतानिसन्तिहोताग्निर्दिवः दीप्यमानस्ययागगृहस्य नाभा नाभौ मध्य प्रदेशेन्यसादिनिषीदति देवव्यचाः देवैर्व्याप्तंबर्हिश्च चार्थेवाशब्दः विस्तृणीमहि विशेशेणस्तृणीमः ॥ ४ ॥

3.4.5
स॒प्त हो॒त्राणि॒ मन᳚सा वृणा॒ना इन्व᳚न्तो॒ विश्वं॒ प्रति᳚ यन्नृ॒तेन᳚ ।
नृ॒पेश᳚सो वि॒दथे᳚षु॒ प्र जा॒ता अ॒भी॒३॒᳚मं य॒ज्ञं वि च᳚रन्त पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
स॒प्त । हो॒त्राणि᳚ । मन᳚सा । वृ॒णा॒नाः । इन्व᳚न्तः । विश्व᳚म् । प्रति᳚ । य॒न् । ऋ॒तेन᳚ ।
नृ॒॑पेश᳚सः । वि॒दथे᳚षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनसावृणानाः प्रार्थ्यमानाः ऋतेनउदकेन विश्वंइन्वन्तः प्रीणयन्तः देवाः सप्तहोत्राणि होतॄ णांवषट् कर्तॄणांकर्माणिप्रतियन् प्रतिगच्छन्ति अतःपरंद्वारंस्तुतिः नृपेशसः नररूपाः विदथेषुयागे षुजाताः उत्पन्नाः पूर्वीर्वह्व्यः विग्रहवत्योयज्ञद्वाराभिमानिन्योदेवताः इममस्मदीयंयज्ञं विचरन्त विचरन्तु ॥ ५ ॥

3.4.6
आ भन्द᳚माने उ॒षसा॒ उपा᳚के उ॒त स्म᳚येते त॒न्वा॒३॒᳚ विरू᳚पे ।
यथा᳚ नो मि॒त्रो वरु᳚णो॒ जुजो᳚ष॒दिन्द्रो᳚ म॒रुत्वा{4}᳚ उ॒त वा॒ महो᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । भन्द᳚माने॒ इति᳚ । उ॒षसौ᳚ । उपा᳚के॒ इति᳚ । उ॒त । स्म॒ये॒ते॒ इति᳚ । त॒न्वा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे ।
यथा᳚ । नः॒ । मि॒त्रः । वरु᳚णः । जुजो᳚षत् । इन्द्रः᳚ । म॒रुत्वा᳚न् । उ॒त । वा॒ । महः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भन्दमाने स्तूयमाने उपाकेपरस्परं संगते उषसानक्ता अन्योन्यापेक्षयाद्विवचनं नक्तोषसौरा त्र्यहनी आ आगच्छतां उतअपिच विरूपेपृथग्रूपे तन्वाप्रकाशरूपेणशरीरेण स्मयेते प्रकाशेते मित्रोवरुणः उतवाअपिच इन्द्रः मरुत्वांश्च नोस्मान् यथाजुजोषत् यथासेवेत तथा महोभिस्ते जोभिर्युक्तेन्द्र मेद्यावापृथिव्यौकुरुताम् ॥ ६ ॥

3.4.7
दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः᳚ स्व॒धया᳚ मदन्ति ।
ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र᳚त॒पा दीध्या᳚नाः ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः᳚ । स्व॒धया᳚ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस᳚न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु᳚ । व्र॒तम् । व्र॒त॒॑पाः । दीध्या᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्यादिव्यौ प्रथमाप्रथमौमुख्यौ होतारा अह्वातारौ अग्नी न्यृंजे प्रसाधयामि ऋतमुद- कंशंसन्तः आशंसमानाः सप्तपृक्षासःपृक्शमन्नं तद्वन्तऋत्विजः तमग्निंस्वधयासोमेनहविषामदन्ति मादयन्ति व्रतपाः व्रतानांकर्मणांरक्षितारः दीध्यानादीप्यमानाः अथवास्वकर्मभिरग्निंदीपयन्तः ऋत्विजः अनुव्रतं व्रतेषुऋतमित् अग्निमेवमाहुः अग्निमेवऋतभूतमाहुरित्यर्थः एवकारार्थे इच्छब्दः ॥ ७ ॥

3.4.8
आ भार᳚ती॒ भार᳚तीभिः स॒जोषा॒ इळा᳚ दे॒वैर्म᳚नु॒ष्ये᳚भिर॒ग्निः ।
सर᳚स्वती सारस्व॒तेभि᳚र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स᳚दन्तु ॥
▶ पदपाठः (Word-by-word)
आ । भार᳚ती । भार᳚तीभिः । स॒॑जोषाः᳚ । इळा᳚᳚ । दे॒वैः । म॒नु॒ष्ये᳚भिः । अ॒ग्निः ।
सर᳚स्वती । सा॒र॒स्व॒तेभिः᳚ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भारतीभिः भरतस्य सूर्यस्यसंबन्धिनीभिः अद्भिः सजोषाःसंगताभारतीवाक् आगच्छतु देवैर्मनुष्येभिः मनुष्यैश्चसंगताःसत्यः इळाचभूमिश्चआगच्छतु अग्निश्चसारस्वतेभिः सरस्वतिसं बंधिभिः मध्यमस्थानैः सहसरस्वतीमाध्यमिकावाक्च आगच्छतु तिस्रोदेवीः देव्यः वागिळा भारत्यः आगच्छन्तु अर्वागाभिमुख्यं इदंएतत् बर्हिः आसन्दतु आसीदन्तु ॥ ८ ॥

3.4.9
तन्न᳚स्तु॒रीप॒मध᳚ पोषयि॒त्नु देव᳚ त्वष्ट॒र्वि र᳚रा॒णः स्य᳚स्व ।
यतो᳚ वी॒रः क᳚र्म॒ण्य᳚ः सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय᳚ते दे॒वका᳚मः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । तु॒रीप᳚म् । अध᳚ । पो॒ष॒यि॒त्नु । देव᳚ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति᳚ स्यस्व ।
यतः᳚ । वी॒रः । क॒र्म॒ण्यः᳚ । सु॒॑दक्षः᳚ । यु॒क्त॑ग्रा᳚वा । जाय᳚ते । दे॒व॑का᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवत्वष्टः सृष्टिकर्तः विरराणः विशेषेणरममाणःत्वंअधानन्तरं नोस्मान् तुरीयंतारकं पोष यित्नुपोषकंतत्प्रसिद्धंरेतः विस्यस्वमोचय यतोविमोचनाद्वीरः स्त्ववान् कर्मण्यः कर्मसुकुशलः सुदक्षः सुबलः युक्तग्रावा अभिषवार्थग्रावयुक्तः सोमसुदित्यर्थः देवकामः देवान् क्रामयमानः पुत्रोजायते जायेत ॥ ९ ॥

3.4.10
वन᳚स्प॒ते॑व᳚ सृ॒जोप᳚ दे॒वान॒ग्निर्ह॒विः श᳚मि॒ता सू᳚दयाति ।
सेदु॒ होता᳚ स॒त्यत᳚रो यजाति॒ यथा᳚ दे॒वानां॒ जनि᳚मानि॒ वेद᳚ ॥
▶ पदपाठः (Word-by-word)
वन᳚स्पते । अव᳚ । सृ॒ज॒ । उप᳚ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।
सः । इत् । ऊं॒ इति᳚ । होता᳚ । स॒त्य॑त᳚रः । य॒जा॒ति॒ । यथा᳚ । दे॒वाना᳚म् । जनि᳚मानि । वेद᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवनस्पते देवानुपावसृज समीपेकुरु शमितापशोः संस्कर्ता अग्निः वनस्पतिश्चहविः सूद याति देवान् प्रतिप्रेरयतु सत्यतरः अत्यर्थंसत्यः सत्यतरः सत्यस्वरूपः सइत् सएवहोताय- जातियजतु यथा यतःकारणात् सएवाग्निः देवानां जनिमानिजन्मानि वेदवेत्ति अतः सएव यजत्वित्यर्थः उःपूरणः ॥ १० ॥

3.4.11 समानपद
आ या᳚ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभि᳚ः ।
ब॒र्हिर्न᳚ आस्ता॒मदि᳚तिः सुपु॒त्रा स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्॑इ॒धा॒नः । अ॒र्वाङ् । इन्द्रे᳚ण । दे॒वैः । स॒॑रथ᳚म् । तु॒रेभिः᳚ ।
ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि᳚तिः । सु॒॑पु॒त्रा । स्वाहा᳚ । दे॒वाः । अ॒मृताः᳚ । मा॒द॒य॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अर्वाक् अस्मदभिमुखंसमिधानः समिध्यमानः ज्वालारूपेणदीप्यमानः त्वंआयाहि देवतारूपेणागच्छ कथमितिउच्यते—नोस्माकंयज्ञंइन्द्रेणदेवैश्चतुरेभिः त्वरमाणैःदेवैः सरथंसमान रथं यथातथा आयाहि किंच सुपुत्राअदितिरपिनोबर्हिः आस्तां अध्यास्तां स्वाहा स्वाहाकारेण युक्ताअमृताः नित्यादेवाः मादयन्तां तृप्यन्तु ॥ ११ ॥

प्रत्यग्निरुषसइत्येकादशर्चंपञ्चमंसूक्तं वैश्वामित्रंत्रैष्टुभमाग्नेयं अत्रानुक्रमणिका—प्रत्यग्निरिति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिसूक्तत्रयस्यविनियोगः सूत्रितंच—प्रत्यग्निरुषसइतित्रीणीति इळामग्नइतिअस्यउक्तोविनियोगः ।