श्रवणम्

3.4.11 समानपद
आ या᳚ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभि᳚ः ।
ब॒र्हिर्न᳚ आस्ता॒मदि᳚तिः सुपु॒त्रा स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्॑इ॒धा॒नः । अ॒र्वाङ् । इन्द्रे᳚ण । दे॒वैः । स॒॑रथ᳚म् । तु॒रेभिः᳚ ।
ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि᳚तिः । सु॒॑पु॒त्रा । स्वाहा᳚ । दे॒वाः । अ॒मृताः᳚ । मा॒द॒य॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अर्वाक् अस्मदभिमुखंसमिधानः समिध्यमानः ज्वालारूपेणदीप्यमानः त्वंआयाहि देवतारूपेणागच्छ कथमितिउच्यते—नोस्माकंयज्ञंइन्द्रेणदेवैश्चतुरेभिः त्वरमाणैःदेवैः सरथंसमान रथं यथातथा आयाहि किंच सुपुत्राअदितिरपिनोबर्हिः आस्तां अध्यास्तां स्वाहा स्वाहाकारेण युक्ताअमृताः नित्यादेवाः मादयन्तां तृप्यन्तु ॥ ११ ॥

प्रत्यग्निरुषसइत्येकादशर्चंपञ्चमंसूक्तं वैश्वामित्रंत्रैष्टुभमाग्नेयं अत्रानुक्रमणिका—प्रत्यग्निरिति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिसूक्तत्रयस्यविनियोगः सूत्रितंच—प्रत्यग्निरुषसइतित्रीणीति इळामग्नइतिअस्यउक्तोविनियोगः ।