श्रवणम्

3.4.8
आ भार᳚ती॒ भार᳚तीभिः स॒जोषा॒ इळा᳚ दे॒वैर्म᳚नु॒ष्ये᳚भिर॒ग्निः ।
सर᳚स्वती सारस्व॒तेभि᳚र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स᳚दन्तु ॥
▶ पदपाठः (Word-by-word)
आ । भार᳚ती । भार᳚तीभिः । स॒॑जोषाः᳚ । इळा᳚᳚ । दे॒वैः । म॒नु॒ष्ये᳚भिः । अ॒ग्निः ।
सर᳚स्वती । सा॒र॒स्व॒तेभिः᳚ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भारतीभिः भरतस्य सूर्यस्यसंबन्धिनीभिः अद्भिः सजोषाःसंगताभारतीवाक् आगच्छतु देवैर्मनुष्येभिः मनुष्यैश्चसंगताःसत्यः इळाचभूमिश्चआगच्छतु अग्निश्चसारस्वतेभिः सरस्वतिसं बंधिभिः मध्यमस्थानैः सहसरस्वतीमाध्यमिकावाक्च आगच्छतु तिस्रोदेवीः देव्यः वागिळा भारत्यः आगच्छन्तु अर्वागाभिमुख्यं इदंएतत् बर्हिः आसन्दतु आसीदन्तु ॥ ८ ॥