द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न्त्य॒ग्नये᳚ घृ॒ताची᳚ ॥
पदपाठः (Word-by-word)
द॒क्षि॒णा॒॑वाट् । वा॒जिनी᳚ । प्राची᳚ । ए॒ति॒ । ह॒विः । भर᳚न्ती । अ॒ग्नये᳚ । घृ॒ताची᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेकारवः कर्तारः देवयन्तः देवकामाः यूयंमननामननेनमन्त्रेणवच्यमानाः प्रेर्यमाणाः सन्तः देवद्रीचीं देवानञ्चतींस्रुचंप्रणयत प्रकर्षेणनयत प्रापयत दक्षिणावाट् आहवनीयस्यदक्षिणतः उह्यमानावाजिनीअन्नवती प्राचीप्रागग्राअग्नयेअग्न्यर्थं हविर्भरन्ती हविर्धारयन्ती घृताची घृते नाक्तास्रुक् एतिगच्छति ॥ १ ॥