आ रोद᳚सी अपृणा॒ जाय᳚मान उ॒त प्र रि᳚क्था॒ अध॒ नु प्र᳚यज्यो ।
दि॒वश्चि᳚दग्ने महि॒ना पृ᳚थि॒व्या व॒च्यन्तां᳚ ते॒ वह्न᳚यः स॒प्तजि᳚ह्वाः ॥
दि॒वश्चि᳚दग्ने महि॒ना पृ᳚थि॒व्या व॒च्यन्तां᳚ ते॒ वह्न᳚यः स॒प्तजि᳚ह्वाः ॥
पदपाठः (Word-by-word)
आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒णाः॒ । जाय᳚मानः । उ॒त । प्र । रि॒क्थाः॒ । अध᳚ । नु । प्र॒य॒ज्यो॒ इति᳚ प्र॑यज्यो ।
दे॒वः । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । व॒च्यन्ता᳚म् । ते॒ । वह्न᳚यः । स॒प्त॑जि᳚ह्वाः ॥
दे॒वः । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । व॒च्यन्ता᳚म् । ते॒ । वह्न᳚यः । स॒प्त॑जि᳚ह्वाः ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने जायमानस्त्वं रोदसीद्यावापृथिव्यौ नुक्षिप्रंआअपृणाः आपूरय उतापिच हेप्रयज्यो प्रयष्टव्य अध अनन्तरं दिवश्चित् दिवश्चअन्तरिक्षात् पृथिव्याश्च महिनामहिम्ना प्ररिक्थाः अतिरिक्तश्चासि अनेनवह्नेरतिशयउक्तः एवंविधस्यतेतव वह्नयः अग्नयः अंशभूताआहवनी यादयः वच्यन्तांप्रेर्यतां किंविधास्तेसप्तजिह्वाः सप्तजिह्वात्मकाः ॥ २ ॥