व्र॒ता ते᳚ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद᳚सी॒ आ त᳚तन्थ ।
त्वं दू॒तो अ᳚भवो॒ जाय᳚मान॒स्त्वं ने॒ता वृ᳚षभ चर्षणी॒नाम् ॥
त्वं दू॒तो अ᳚भवो॒ जाय᳚मान॒स्त्वं ने॒ता वृ᳚षभ चर्षणी॒नाम् ॥
पदपाठः (Word-by-word)
व्र॒ता । ते॒ । अ॒ग्ने॒ । म॒ह॒तः । म॒हानि᳚ । तव᳚ । क्रत्वा᳚ । रोद᳚सी॒ इति᳚ । आ । त॒त॒न्थ॒ ।
त्वम् । दू॒तः । अ॒भ॒वः॒ । जाय᳚मानः । त्वम् । ने॒ता । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ॥
त्वम् । दू॒तः । अ॒भ॒वः॒ । जाय᳚मानः । त्वम् । ने॒ता । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने महतः सर्वोत्कृष्टस्यतेतव व्रताव्रतानि त्वत्संबन्धीनिकर्माणिमहानिमहान्तिभवन्ति तव क्रत्वाक्रतुनाप्रकाशेनरोदसी द्यावापृथिव्यौ आततन्थ विस्तृतवानसि त्वंदूतोअभवःभव हे वृषभ वर्षणशील त्वंजायमानःसन् चर्षणीनांयजमानानां नेतासि फलप्रापकोसि ॥ ५ ॥