श्रवणम्

3.6.10
स होता॒ यस्य॒ रोद᳚सी चिदु॒र्वी य॒ज्ञंय᳚ज्ञम॒भि वृ॒धे गृ᳚णी॒तः ।
प्राची᳚ अध्व॒रेव᳚ तस्थतुः सु॒मेके᳚ ऋ॒ताव᳚री ऋ॒तजा᳚तस्य स॒त्ये ॥
▶ पदपाठः (Word-by-word)
सः । होता᳚ । यस्य᳚ । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । य॒ज्ञम्॑य᳚ज्ञम् । अ॒भि । वृ॒धे । गृ॒णी॒तः ।
प्राची॒ इति᳚ । अ॒ध्व॒रा॑इ᳚व । त॒स्थ॒तुः॒ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ । ऋ॒तव᳚री॒ इत्यृ॒त॑व᳚री । ऋ॒त॑जा᳚तस्य । स॒त्ये इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सएवहोताभवति उर्वीविस्तीर्णे रोदसीचित् द्यावापृथिव्यौअपि यस्याग्नेः यज्ञंसर्वं यज्ञं वृधेसमृद्धये अभिगृणीतः प्रशंसतः ऋतजातस्य जातसत्यस्य यस्यहोतुः सुमेके सुरूपे ऋता- वरी उदकवत्यौसत्ये सत्यस्वरूपे प्राचीअनुकूले तस्थातुः तिष्ठतः कथमिव अध्वराविव यज्ञाविव ॥ १० ॥