ऐभि᳚रग्ने स॒रथं᳚ याह्य॒र्वाङ्ना᳚नार॒थं वा᳚ वि॒भवो॒ ह्यश्वा᳚ः ।
पत्नी᳚वतस्त्रिं॒शतं॒ त्री{4}श्च᳚ दे॒वान᳚नुष्व॒धमा व᳚ह मा॒दय᳚स्व ॥
पत्नी᳚वतस्त्रिं॒शतं॒ त्री{4}श्च᳚ दे॒वान᳚नुष्व॒धमा व᳚ह मा॒दय᳚स्व ॥
पदपाठः (Word-by-word)
आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒॑रथ᳚म् । या॒हि॒ । अ॒र्वाङ् । ना॒ना॒॑र॒थम् । वा॒ । वि॒॑भवः᳚ । हि । अश्वाः᳚ ।
पत्नी᳚॑वतः । त्रिं॒शत᳚म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒॑स्व॒धम् । आ । व॒ह॒ । मा॒दय᳚स्व ॥
पत्नी᳚॑वतः । त्रिं॒शत᳚म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒॑स्व॒धम् । आ । व॒ह॒ । मा॒दय᳚स्व ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने एभिः पूर्वोक्तैर्देवगणैःसार्धं सरथंसमानरथं नानारथंवा आत्मानं त्वद्रथेसमारोप्यया ह्यर्वाङ् अस्मदभिमुखमायाहि यतःकारणात् तेअश्वाः विभवः प्रभवः समर्थाः हिःप्रसिद्धौ पत्नी वतः तत्नीभिःसहितान् त्रिंशतंत्रींश्च त्रयस्त्रिंशतंदेवांश्च अनुष्वधं बलार्थं अन्नार्थंवा आवहमादय स्व सोमेनेतिशेषः ॥ ९ ॥