प्र का᳚रवो मन॒ना व॒च्यमा᳚ना देव॒द्रीचीं᳚ नयत देव॒यन्त᳚ः ।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न्त्य॒ग्नये᳚ घृ॒ताची᳚ ॥
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न्त्य॒ग्नये᳚ घृ॒ताची᳚ ॥
पदपाठः (Word-by-word)
प्र । का॒र॒वः॒ । म॒न॒ना । व॒च्यमा᳚नाः । दे॒व॒द्रीची᳚न् । न॒य॒त॒ । दे॒व॒॑यन्तः᳚ ।
द॒क्षि॒णा॒॑वाट् । वा॒जिनी᳚ । प्राची᳚ । ए॒ति॒ । ह॒विः । भर᳚न्ती । अ॒ग्नये᳚ । घृ॒ताची᳚ ॥
द॒क्षि॒णा॒॑वाट् । वा॒जिनी᳚ । प्राची᳚ । ए॒ति॒ । ह॒विः । भर᳚न्ती । अ॒ग्नये᳚ । घृ॒ताची᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेकारवः कर्तारः देवयन्तः देवकामाः यूयंमननामननेनमन्त्रेणवच्यमानाः प्रेर्यमाणाः सन्तः देवद्रीचीं देवानञ्चतींस्रुचंप्रणयत प्रकर्षेणनयत प्रापयत दक्षिणावाट् आहवनीयस्यदक्षिणतः उह्यमानावाजिनीअन्नवती प्राचीप्रागग्राअग्नयेअग्न्यर्थं हविर्भरन्ती हविर्धारयन्ती घृताची घृते नाक्तास्रुक् एतिगच्छति ॥ १ ॥