तृतीयं मण्डलम् - सूक्तम् 57

6 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 3.57 - सम्पूर्णम्

1 / 6
ऋक्: 3.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
3.57.1
प्र मे᳚ विवि॒क्वा{4} अ᳚विदन्मनी॒षां धे॒नुं चर᳚न्तीं॒ प्रयु᳚ता॒मगो᳚पाम् ।
स॒द्यश्चि॒द्या दु᳚दु॒हे भूरि᳚ धा॒सेरिन्द्र॒स्तद॒ग्निः प᳚नि॒तारो᳚ अस्याः ॥
▶ पदपाठः (Word-by-word)
प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर᳚न्तीम् । प्र॑यु᳚ताम् । अगो᳚पाम् ।
स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि᳚ । धा॒सेः । इन्द्रः᳚ । तत् । अ॒ग्निः । प॒नि॒तारः᳚ । अ॒स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रमे विविक्वानिति षडृचं चतुर्थं सूक्तम् । विश्वामित्र ऋषिः । त्रिष्टप् छन्दः । विश्वेदेवा देवता । अत्रानुक्रमणिका । प्र मे षळिति । सूक्तविनियोगो लैङ्गिकः ॥

विविक्वान्विवेकवानिन्द्रोऽगिन्र्वा मे मम मनीशां देवताविषयां स्तुतिं प्राविदत् । प्रकर्षेण जानातु । तत्र दृष्टान्तः । चरन्तीं यवस इतस्ततो गच्छन्तीं प्रयुतां पृथग्भूतामेकाकिनीमगोपां गोप्तृरहितां यथाकामं चरन्तिं धेनुं नवसूतिकां गामिव देवतानां प्रीणयित्रीं स्तुतिमविददित्यन्वयः । या स्तुतिरूपा धेनुः सद्यश्चित्तदानीमेव धासेः । धारयति प्राणान् धीयते दीयतेऽर्थिभ्य इति वा धासिरन्नम् । कर्मणि षष्ठी । भूर बह्वन्नमपेक्षितं फलं दुदुहे दुग्धे इन्द्रोऽग्निरन्ये च देवा अस्याः स्तुतिरूपाया धेनोस्तत्तस्यान्नभूतस्य पयसः पनितारः स्तोतारो भवन्ति । यद्वा । इन्द्राग्नी स्तोतारो वयं चास्या धेनोस्तत्पयः प्राप्नुमः । विविक्वान् । विचिर् पृथग्भाव इत्यस्य क्वसौ रूपम् । अविदत् । विदज्ञान इत्यस्य लङि बहुलं छन्दसीति शः । दुदुहे । दुह प्रपूरण इत्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पनितारः । पन स्तुतावित्यस्य तृचि रूपम् ॥ १ ॥

3.57.2
इन्द्र॒ः सु पू॒षा वृष᳚णा सु॒हस्ता᳚ दि॒वो न प्री॒ताः श᳚श॒यं दु᳚दुह्रे ।
विश्वे॒ यद᳚स्यां र॒णय᳚न्त दे॒वाः प्र वो॑त्र᳚ वसवः सु॒म्नम᳚श्याम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सु । पू॒षा । वृष᳚णा । सु॒॑हस्ता᳚ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ ।
विश्वे᳚ । यत् । अ॒स्या॒म् । र॒णय᳚न्त । दे॒वाः । प्र । वः॒ । अत्र᳚ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसवः सर्वस्य वासयितारो हे देवा इन्द्रः पूषा च वृषणाभिमतफलस्यसेक्तारौ सुहस्ता कल्याणपाणी नासतौ मित्रावरुणौ वा । राजाना मित्रावरुणा सुपाणी इत्यादिषु दृष्टत्वात् । एते सर्वे देवाः । नेति सम्प्रत्यर्थे । इदानीं प्रीताः सन्तः शशयं नभसि शयानं मेघं दिवो नभसः सकाशात्सु दुदुह्रे । वृष्टिद्वारापेक्षितं फलं सुष्ठु दुहन्ति । यद्यस्माद्विश्वे सर्वे देवा अस्यां वेद्यां रणयन्त रमयन्ते वो युष्माकं सम्बन्धिन्यत्रलोके सुम्नं सुखकरमपेक्षितं फलं प्राश्याम् । प्राप्नुयाम् । सुहस्ता । हसेरसिहसीत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । दुदुह्रे । दुह प्रपूरण इत्यस्य लिटीरयो रे । रणयन्त । रमि क्रीडायाम् । ण्यन्तस्य लङि रूपम् । वर्णव्यापत्तिः । आश्याम् । अशू व्याप्तावित्यस्य लिङि बहुलं छन्दसीति विकरणस्य लुक् । व्यत्ययेन परस्मैपदं ॥ २ ॥

3.57.3
या जा॒मयो॒ वृष्ण᳚ इ॒च्छन्ति᳚ श॒क्तिं न᳚म॒स्यन्ती᳚र्जानते॒ गर्भ᳚मस्मिन् ।
अच्छा᳚ पु॒त्रं धे॒नवो᳚ वावशा॒ना म॒हश्च᳚रन्ति॒ बिभ्र᳚तं॒ वपूं᳚षि ॥
▶ पदपाठः (Word-by-word)
याः । जा॒मयः᳚ । वृष्णे᳚ । इ॒च्छन्ति᳚ । श॒क्तिम् । न॒म॒स्यन्तीः᳚ । जा॒न॒ते॒ । गर्भ᳚म् । अ॒स्मि॒न् ।
अच्छ᳚ । पु॒त्रम् । धे॒नवः᳚ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र᳚तम् । वपूं᳚षि ॥
▶ सायणभाष्यम् (Sayana Commentary)

याजामयः । जमन्ति वर्षाकाले प्रादुर्भव्वन्तीति जामय ऒषधयः । वृष्णेऽपां वर्षकायेन्द्राय शक्तिं सेचनसामर्थ्यमिच्छन्ति । नमस्यन्तीः प्रह्वीभूतास्ता ओषधयोऽस्मिन्निन्द्रे गर्भं वृष्टिद्वारा पुश्पफलादिलक्षणगर्भादानादिसामर्थ्यं जानते । जानन्ति । वावशानाः फलं कामयमाना धेनवः सर्वस्य प्रीणयित्र्य ओषधयो महो वहान्ति नानाप्रकाराणि वपूंषि रूपाणि बिभ्रतं व्रीहियवनीवारादिफललक्षणं पुत्रं तनयमच्छाभिमुख्येन चरन्ति । प्रप्नुवन्ति । लोके हि हंभारवं कुर्वाणा धेनवो वत्समभिलक्ष्य गच्छन्ति । तद्वत् । यद्वा । जामयः । जमन्ति सर्वत्र प्रसरन्तीति जामयः सूर्यदीप्तयः । वृष्णेऽपां वर्षकाय । स्वरश्मिभिर्भ्ॐआन्रसानादाय पुनर्वर्षतीति वर्षकः सूर्यः । आदित्याज्जायते वृष्टिरिति स्मृतेश्च । तस्मै वर्षणशक्तिमिच्छन्ति । ता दीप्तयोऽस्मिन्नादित्ये गर्भमब्रूपगर्भाधानसामर्थ्यं जानन्ति ॥ जामयः । जमतेर्गतिकर्मणो जनिघसिभ्यामिण्णिति विधीयमानो बहुलवचनादस्मादपि भवति । नमस्यन्तीः । नमः शब्दान्नमोवरिवश्चित्रङः क्यजिति क्यच् । तदन्ताच्छतरि रूपम् । प्रत्ययस्वरः । जानते । ज्ञा अवबोधन इत्यस्य लटि रूपम् । अच्छ । निपातस्य चेति संहितायां दीर्घः ॥ ३ ॥

3.57.4
अच्छा᳚ विवक्मि॒ रोद᳚सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो अ᳚ध्व॒रे म᳚नी॒षा ।
इ॒मा उ᳚ ते॒ मन᳚वे॒ भूरि᳚वारा ऊ॒र्ध्वा भ᳚वन्ति दर्श॒ता यज᳚त्राः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । वि॒व॒क्मि॒ । रोद᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ । ग्राव्णः᳚ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा ।
इ॒माः । ऊं॒ इति᳚ । ते॒ । मन᳚वे । भूरि᳚॑वाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज᳚त्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वरे यज्ञे ग्राव्णः सोमाभिषवार्थमुपलान् युजानः प्रयुञ्जानोऽहं सुमेके सुरूपे रोदसी द्यावापृथिवौ मनीषा मनस ईषया स्तुतिलक्षणयावाचाच्छ विवक्मि । आभिमुख्येन स्त्ॐइ । हे अग्ने ते तव भूरिवारा यजमानैर्बहुवारं वरणीया दर्शताः कमनीयतया दरहनीया यजत्राः पूज्या इमा दीप्तयो मनवे मनुष्यव्यवहारार्थमूर्ध्वा ऊर्ध्वमुखा भवन्ति ॥ विवक्मि । वच परिभाशणे । लटि बहुलं छन्दसीति शपः श्लुः । अर्तिपिपर्त्योश्च बहुलं छन्दसीत्यभ्यासस्येत्वम् । चकारस्य कुत्वं व्यत्ययेन । युजानः । युजिबुधिदृशः किच्चेत्यानच् । कित्त्वादगुणः । चित्त्वादन्तोदात्तः । मनीशा । सुपो डादेशः ॥ ४ ॥

3.57.5
या ते᳚ जि॒ह्वा मधु᳚मती सुमे॒धा अग्ने᳚ दे॒वेषू॒च्यत᳚ उरू॒ची ।
तये॒ह विश्वा{4}॒ अव᳚से॒ यज᳚त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । जि॒ह्वा । मधु᳚॑मती । सु॒॑मे॒धाः । अग्ने᳚ । दे॒वेषु᳚ । उ॒च्यते᳚ । उ॒रू॒ची ।
तया᳚ । इ॒ह । विश्वा᳚न् । अव᳚से । यज᳚त्रान् । आ । सा॒द॒य॒ । पा॒यय᳚ । च॒ । मधू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव मधुमत्युदकवती सुमेधाः । शोभना मेधा प्रज्ञा यस्याः सा । सर्वस्य ज्ञापयित्री या जिह्वा ज्वालारूची बहुव्याप्तिः सती देवेषु मध्य आह्वानार्थमुच्यते प्रेर्यते तया जिह्वया यजत्रान्यजनीयान्विश्वानेवानिहकर्मण्यस्माकमवसे रक्षणाया सादय । उपवेशय । किञ्च तान्विश्वान्देवान्मधूनिमदकरान् सोमान्पायय । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् । उच्यते । वच परिभाषणे । कर्मणि यकि रूपम् । यद्वृत्तयोगादनिघातः । उरूची अञ्चतेः क्विन् । अञ्चतेश्चोपसंख्यानमिति ङीप् । अनुदात्तस्य च यत्रोदात्तलोप इति ङीप उदात्तत्वम् । पायय । पा पान इत्यस्य णौ परतः शाच्छासाह्वावावेषां युगिति युक् । तिङ उत्तरत्वादनिघातः ॥ ५ ॥

3.57.6
या ते᳚ अग्ने॒ पर्व᳚तस्येव॒ धारास᳚श्चन्ती पी॒पय᳚द्देव चि॒त्रा ।
ताम॒स्मभ्यं॒ प्रम᳚तिं जातवेदो॒ वसो॒ रास्व᳚ सुम॒तिं वि॒श्वज᳚न्याम् ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । अ॒ग्ने॒ । पर्व᳚तस्य॑इव । धारा᳚ । अस᳚श्चन्ती । पी॒पय᳚त् । दे॒व॒ । चि॒त्रा ।
ताम् । अ॒स्मभ्य᳚म् । प्र॑म᳚तिम् । जा॒त॒॑वे॒दः॒ । वसो॒ इति᳚ । रास्व᳚ । सु॒॑म॒तिम् । वि॒श्व॑ज᳚न्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव दीप्यमान हे अग्ने चित्रा नानारूपासश्चन्त्यस्मदन्यत्र सङ्गतिमकुर्वाणा या ते तव प्रमतिः प्रकृष्टा बुद्धिः पीपयत् अपेक्षितफलदानेनास्मान्वर्धयति । तत्र द्रुष्टान्तः । पर्वतस्येव धारा । यथा पर्वतस्य मेघस्योदकधारौषधिवनस्पत्यादिशु सङ्गतिं कुर्वाणा तान्वर्धयति तद्वत् । वसो सर्वस्य वासयितर्जातवेदो जातप्रज्ञ हे अग्ने तां प्रमतिं परहितकरणसमर्थां बुद्धिमस्मभ्यं रास्व । दत्स्व । तथा विश्वजन्यां सर्वजनहितां सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ति । सश्चतिर्गतिकर्मा । शतर्युगितश्चेति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । पा पाने । ण्यन्तस्य लुङि चङे रूपम् । चङ्यन्यतरस्यामिति चङे परतः पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । रास्व । रा दाने । व्यत्ययेनात्मनेपदम् । लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वान्निघाताभावः ॥ ६ ॥