अच्छा᳚ विवक्मि॒ रोद᳚सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो अ᳚ध्व॒रे म᳚नी॒षा ।
इ॒मा उ᳚ ते॒ मन᳚वे॒ भूरि᳚वारा ऊ॒र्ध्वा भ᳚वन्ति दर्श॒ता यज᳚त्राः ॥
इ॒मा उ᳚ ते॒ मन᳚वे॒ भूरि᳚वारा ऊ॒र्ध्वा भ᳚वन्ति दर्श॒ता यज᳚त्राः ॥
पदपाठः (Word-by-word)
अच्छ᳚ । वि॒व॒क्मि॒ । रोद᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ । ग्राव्णः᳚ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा ।
इ॒माः । ऊं॒ इति᳚ । ते॒ । मन᳚वे । भूरि᳚॑वाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज᳚त्राः ॥
इ॒माः । ऊं॒ इति᳚ । ते॒ । मन᳚वे । भूरि᳚॑वाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज᳚त्राः ॥
सायणभाष्यम् (Sayana Commentary)
अध्वरे यज्ञे ग्राव्णः सोमाभिषवार्थमुपलान् युजानः प्रयुञ्जानोऽहं सुमेके सुरूपे रोदसी द्यावापृथिवौ मनीषा मनस ईषया स्तुतिलक्षणयावाचाच्छ विवक्मि । आभिमुख्येन स्त्ॐइ । हे अग्ने ते तव भूरिवारा यजमानैर्बहुवारं वरणीया दर्शताः कमनीयतया दरहनीया यजत्राः पूज्या इमा दीप्तयो मनवे मनुष्यव्यवहारार्थमूर्ध्वा ऊर्ध्वमुखा भवन्ति ॥ विवक्मि । वच परिभाशणे । लटि बहुलं छन्दसीति शपः श्लुः । अर्तिपिपर्त्योश्च बहुलं छन्दसीत्यभ्यासस्येत्वम् । चकारस्य कुत्वं व्यत्ययेन । युजानः । युजिबुधिदृशः किच्चेत्यानच् । कित्त्वादगुणः । चित्त्वादन्तोदात्तः । मनीशा । सुपो डादेशः ॥ ४ ॥