तृतीयं मण्डलम् - सूक्तम् 47

5 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.47 - सम्पूर्णम्

1 / 5
ऋक्: 3.47.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.47.1
म॒रुत्वा{4}᳚ इन्द्र वृष॒भो रणा᳚य॒ पिबा॒ सोम᳚मनुष्व॒धं मदा᳚य ।
आ सि᳚ञ्चस्व ज॒ठरे॒ मध्व᳚ ऊ॒र्मिं त्वं राजा᳚सि प्र॒दिवः᳚ सु॒ताना᳚म् ॥
▶ पदपाठः (Word-by-word)
म॒रुत्वा᳚न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा᳚य । पिब᳚ । सोम᳚म् । अ॒नु॒॑स्व॒धम् । मदा᳚य ।
आ । सि॒ञ्च॒स्व॒ । ज॒ठरे᳚ । मध्वः᳚ । ऊ॒र्मिम् । त्वम् । राजा᳚ । अ॒सि॒ । प्र॒॑दिवः᳚ । सु॒ताना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सजोषा इन्द्रेति मरुत्वतीयग्रहस्य याज्या । सूत्रितं च । सजोषा इन्द्र सगणो मरुद्भिरिति भक्षयित्वैतत्पात्रम् । आ. ५-१४ ॥ इति ॥

हे शूर बलवन् हे इन्द्र सजोषाः सङ्गतो देवैर्मरुद्भिः सगणो मरुद्भिरेव वृत्रहा वृत्रस्य हन्ता विद्वान्कर्मविषयाभिज्ञस्त्वं सोमं पिब । ततो नः शत्रून् जहि । मृधो हिंसकान् शत्रूनपनुदस्व । यद्वा मृधः । हिंस्यन्तेत्र प्राणिन इति मृधः सङ्ग्रामाः । तत्र वर्तमानान् शत्रूनपनुदस्व । अथानन्तरं नोऽस्माकं विश्वतः सर्वतोऽभयं कृणुहि । कुरु । सर्वतो भयरहितानस्मान्कुर्वित्यर्थः ॥ वृत्रहा । हन्तेर्ब्रह्मभ्रूण्णवृत्त्रेषु क्विप् । अभयम् । ञीभी भय इत्यस्मादेरच् । नञा समासे तस्य स्वरः । विश्वतः । पञ्चम्यास्तसिल् । लित्स्वरः ॥ १ ॥

3.47.2
स॒जोषा᳚ इन्द्र॒ सग᳚णो म॒रुद्भि॒ः सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ।
ज॒हि शत्रू{4}॒रप॒ मृधो᳚ नुद॒स्वाथाभ᳚यं कृणुहि वि॒श्वतो᳚ नः ॥
▶ पदपाठः (Word-by-word)
स॒॑जोषाः᳚ । इ॒न्द्र॒ । स॑ग᳚णः । म॒रुत्॑भिः᳚ । सोम᳚म् । पि॒ब॒ । वृ॒त्र॒॑हा । शू॒र॒ । वि॒द्वान् ।
ज॒हि । शत्रू᳚न् । अप᳚ । मृधः᳚ । नु॒द॒स्व॒ । अथ᳚ । अभ᳚यम् । कृ॒णु॒हि॒ । वि॒श्वतः᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत पै च हे ऋतुपाः कालनिर्वाहकतया ऋतूनां पातः । ऋतुषु सोमं पिबतीति वा ऋतुपाः । यद्वा ऋतुभिर्मरुद्भिः सह सोमं पिबतीति ऋतुपाः । तादृश हे इन्द्र सखिभिः समानख्यानैऋतुभिर्मरुद्भिर्देवेभिर्देवैः सहितस्त्वं नः सम्बन्धिनं सुतमभिषुतं सोमं पाहि । पिब । किञ्च यान्मरुत आभजोयुद्धसहायार्थमसेवथा ये च मरुतस्त्वा त्वां युद्धे स्वामिनमन्वभजन्त । ततस्त्वं वृत्रमहन् । हतवानसि । ते मरुतस्तुइभ्यं त्वदर्थमोजो युद्धे शत्रुहननादिरुपं पराक्रममदधुः । अकुर्वन् । अभजः । भज सेवायामित्यस्य लङि रूपम् । यद्वृत्तयोगादिनिघातः । अहन् । हन हिम्सागत्योरित्यस्य लङि सिपो हल्ङ्यादिना लोपः । पादादित्वादनिघातः । अदधुः । दधातेर्लङि झेः सिजभ्यस्तेति जुस् । वाक्यभेदादनिघातः ॥ २ ॥

3.47.3
उ॒त ऋ॒तुभि᳚रृतुपाः पाहि॒ सोम॒मिन्द्र᳚ दे॒वेभि॒ः सखि᳚भिः सु॒तं नः᳚ ।
या{4} आभ᳚जो म॒रुतो॒ ये त्वान्वह᳚न्वृ॒त्रमद᳚धु॒स्तुभ्य॒मोजः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । ऋ॒तु॑भिः᳚ । ऋ॒तु॒॑पाः॒ । पा॒हि॒ । सोम᳚म् । इन्द्र᳚ । दे॒वेभिः᳚ । सखि᳚॑भिः । सु॒तम् । नः॒ ।
यान् । आ । अभ᳚जः । म॒रुतः᳚ । ये । त्वा॒ । अनु᳚ । अह᳚न् । वृ॒त्रम् । अद᳚धुः । तुभ्य᳚म् । ओजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वतीयशस्त्रे याज्या ये त्वाहितत्य इत्येषा । सुत्रितं च । ये त्वाहिहत्ये मघवन्निवर्धन्निति याज्या । आ. ५-१४ ॥ इति ॥

हे मघवन्निन्द्र ये मरुतोऽहिहत्ये व्रुत्रहननरूपे कर्मणि त्वा त्वामवर्धन् प्रहर भगवो जहि वीरयस्वेति बलदानेनावीवृधन् । हे हरिवोऽश्ववन्निन्द्र ये च शाम्बरे शंबरववधसंबन्धिनि युद्धे त्वामवीवृधन् । इन्द्रः शम्बरमवधीदित्यस्मिन्नर्थे मन्त्रवर्णः । यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान । ऋग्वे. २-१२-११ । इति । तथा ये मरुतो गविष्टौ पणिनामकैसुरैः सह गवार्थे युद्धे च त्वामविवृधन् । विप्रा मेधाविनो ये च मरुतो नूनमिदानीं त्वामनुमदन्तोइ मादयन्ति तादृशैस्तैर्मरुद्भिः सगणः सन् इमं सोमं पिब । अहिहत्ये । हन्तेर्भावे हनस्त चेति क्यप् । कृदुत्तरपदस्वरः । अवर्धन् । व्रुधु वृद्धावित्यस्य ण्यन्तस्य लङि रूपम् । चन्दस्युभयथेति झेरार्धधातुकत्वाणेर्लोपः । यद्वृत्तयोगादनिघातः । शाम्बरे । शम्बरस्येदमित्यर्थे तस्येदमित्यण्प्रत्ययः । गविष्टौ । इषु इच्छायाम् । भावे क्तिन् । बहुव्रीहौ पूर्वपदस्वरः । अनुमदन्ति । मदि स्तुत्यादिष्वित्यस्य लटि व्यत्ययेन परस्मैपदम् । आगमानुशासनस्यानित्यत्वान्नुमभवः । झेर्लसार्वधातुकस्वरे कृते धातुस्वरः । तिङिचोदात्तवतीति गतेर्निघातः ॥ ३ ॥

3.47.4 समानपद
ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव᳚र्ध॒न्ये शा᳚म्ब॒रे ह᳚रिवो॒ ये गवि᳚ष्टौ ।
ये त्वा᳚ नू॒नम᳚नु॒मद᳚न्ति॒ विप्रा॒ः पिबे᳚न्द्र॒ सोमं॒ सग᳚णो म॒रुद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
ये । त्वा॒ । अ॒हि॒॑हत्ये᳚ । म॒घ॒॑व॒न् । अव᳚र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒वः॒ । ये । गो॑इ᳚ष्टौ ।
ये । त्वा॒ । न्न॒म् । अ॒नु॒॑मद᳚न्ति । विप्राः᳚ । पिब᳚ । इ॒न्द्र॒ । सोम᳚म् । स॑ग᳚णः । म॒रुत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मरुत्वन्तं मरुद्भिस्तद्वन्तं वृषभं मेघभेदनद्वारापां वर्षक ववृधानं वृत्रहननादिकर्मसूत्साहेन वर्धमानमकवारिं प्रभूतशत्रुकं यद्वा आकुत्सितारिम् । तथा च मन्त्रः । स्वरिरमत्रो ववक्षे रणाय । ऋग्वे. १-६१-९ । इति । दिव्यं दिवि स्वर्गलोके वर्तमानं शासं हितोपदेशाहितपरिहाराभ्यां शासितारं विश्वासाहं विश्वस्य प्रतिपक्षस्य सर्वस्याभिभवितारमुग्रं शत्रुषूद्गूर्णं सहोदां युद्धसहकारिणां मरुतां बलप्रदं तं तादृशसामर्थ्योपेतमिन्द्रं नुतनाय नवतरायावसे रक्षणायेह कर्मणि हुवेम । त्वामाह्वयेम । नूतनाय । नवशब्दस्य नू इत्यादेशः । त्नप्तनखाश्च प्रत्यया वक्तव्या इति तनप्रत्ययः ॥ ४ ॥

3.47.5
म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक᳚वारिं दि॒व्यं शा॒समिन्द्र᳚म् ।
वि॒श्वा॒साह॒मव᳚से॒ नूत᳚नायो॒ग्रं स᳚हो॒दामि॒ह तं हु᳚वेम ॥
▶ पदपाठः (Word-by-word)
म॒रुत्व᳚न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक᳚व॑अरिम् । दि॒व्यम् । शा॒सम् । इन्द्र᳚म् ।
वि॒श्व॒॑सह᳚म् । अव᳚से । नूत᳚नाय । उ॒ग्रम् । स॒हः॒॑दाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty