ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव᳚र्ध॒न्ये शा᳚म्ब॒रे ह᳚रिवो॒ ये गवि᳚ष्टौ ।
ये त्वा᳚ नू॒नम᳚नु॒मद᳚न्ति॒ विप्रा॒ः पिबे᳚न्द्र॒ सोमं॒ सग᳚णो म॒रुद्भि᳚ः ॥
ये त्वा᳚ नू॒नम᳚नु॒मद᳚न्ति॒ विप्रा॒ः पिबे᳚न्द्र॒ सोमं॒ सग᳚णो म॒रुद्भि᳚ः ॥
पदपाठः (Word-by-word)
ये । त्वा॒ । अ॒हि॒॑हत्ये᳚ । म॒घ॒॑व॒न् । अव᳚र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒वः॒ । ये । गो॑इ᳚ष्टौ ।
ये । त्वा॒ । न्न॒म् । अ॒नु॒॑मद᳚न्ति । विप्राः᳚ । पिब᳚ । इ॒न्द्र॒ । सोम᳚म् । स॑ग᳚णः । म॒रुत्॑भिः᳚ ॥
ये । त्वा॒ । न्न॒म् । अ॒नु॒॑मद᳚न्ति । विप्राः᳚ । पिब᳚ । इ॒न्द्र॒ । सोम᳚म् । स॑ग᳚णः । म॒रुत्॑भिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र मरुत्वन्तं मरुद्भिस्तद्वन्तं वृषभं मेघभेदनद्वारापां वर्षक ववृधानं वृत्रहननादिकर्मसूत्साहेन वर्धमानमकवारिं प्रभूतशत्रुकं यद्वा आकुत्सितारिम् । तथा च मन्त्रः । स्वरिरमत्रो ववक्षे रणाय । ऋग्वे. १-६१-९ । इति । दिव्यं दिवि स्वर्गलोके वर्तमानं शासं हितोपदेशाहितपरिहाराभ्यां शासितारं विश्वासाहं विश्वस्य प्रतिपक्षस्य सर्वस्याभिभवितारमुग्रं शत्रुषूद्गूर्णं सहोदां युद्धसहकारिणां मरुतां बलप्रदं तं तादृशसामर्थ्योपेतमिन्द्रं नुतनाय नवतरायावसे रक्षणायेह कर्मणि हुवेम । त्वामाह्वयेम । नूतनाय । नवशब्दस्य नू इत्यादेशः । त्नप्तनखाश्च प्रत्यया वक्तव्या इति तनप्रत्ययः ॥ ४ ॥