तृतीयं मण्डलम् - सूक्तम् 35

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 3.35 - सम्पूर्णम्

1 / 11
ऋक्: 3.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.35.1
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा᳚ना या॒हि वा॒युर्न नि॒युतो᳚ नो॒ अच्छ᳚ ।
पिबा॒स्यन्धो᳚ अ॒भिसृ᳚ष्टो अ॒स्मे इन्द्र॒ स्वाहा᳚ ररि॒मा ते॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
तिष्ठ᳚ । हरी॒ इति᳚ । रथे᳚ । आ । यु॒ज्यमा᳚ना । या॒हि । वा॒युः । न । नि॒॑युतः᳚ । नः॒ । अच्छ᳚ ।
पिबा᳚सि । अन्धः᳚ । अ॒भि॑सृ᳚ष्टः । अ॒स्मे इति᳚ । इन्द्र᳚ । स्वाहा᳚ । र॒रि॒म । ते॒ । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । हे इन्द्र रथे स्यन्दने युज्यमाना संयुज्यमानौ हरी अश्वावभिलक्श्य कञ्चित्कालमा तिष्ठ । तत्र दृष्टान्तः । यायुर्नेति । यथा वायू रथे नियुज्यमानानियुतो वडवा अभिलक्श्य कञ्चित्कालं तिष्ठति तद्वत् । अथ रथारूधस्त्वं नोऽस्मानच्छाभिलक्ष्या याहि । शीघ्रमागच्छ । आगत्य चास्मे अस्माभिरभिसृष्टोऽनुज्ञातस्त्वमन्धः सोमलक्शणमन्नं पिबासि । पिब । स्वाहा । दत्तश्चायं सोमः । वयं ते तव मदाय हर्षाय स्वाहाकृतमिमं सोमं ररिम । ददाम । अत्र याहि वायुर्ननियुतो नो अच्छेत्यत्र रथेना याहीत्यर्थः । आपत्चित्पिप्युः स्तर्यो न गावः । ऋग्वे. ७-२३-४ । इत्यत्र तन्न तथेति पदकाले नोत्सृज्यते । तिष्ठ । तिष्ठतेर्लोटि रूपम् । तिष्ठादेशस्याद्युदात्तः । याहि । यातेर्लोटि रूपम् । हेर्ङित्वादन्तोदात्तः । वायुः । वा गतिगन्धनयोरित्यस्मात्कृवापेत्यादिना उण् । आतो युक् । प्रत्ययस्वरः । पिबासि । पातेर्लेट्याडागमः । आगमस्यानुदात्तत्वाद्धातुस्वरः । अन्धः । अद भक्षणे । अदेर्नुं धश्चेत्यसुन्नुमागमो धकारश्चान्तादेशः । अद्यते प्राणिभिस्त्वाद्वा स्वयमत्तीति । तथा च श्रुतिः । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते । तै. उ. २-२- । इति नित्स्वरः । अस्मे । सुपां सुलुगिति तृतीयायाः शे इत्यादेशः । ररिम । रातेर्लिटिरूपम् । वाक्यभेदादनिघतः । प्रत्ययस्वरः ॥ १ ॥

3.35.2
उपा᳚जि॒रा पु᳚रुहू॒ताय॒ सप्ती॒ हरी॒ रथ᳚स्य धू॒र्ष्वा यु᳚नज्मि ।
द्र॒वद्यथा॒ सम्भृ᳚तं वि॒श्वत᳚श्चि॒दुपे॒मं य॒ज्ञमा व᳚हात॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । अ॒जि॒रा । पु॒रु॒॑हू॒ताय᳚ । सप्ती॒ इति᳚ । हरी॒ इति᳚ । रथ᳚स्य । धूः॒॑सु । आ । यु॒न॒ज्मि॒ ।
द्र॒वत् । यथा᳚ । सम्॑भृ᳚तम् । वि॒श्वतः᳚ । चि॒त् । उप᳚ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पुरुहूताय पुरुभिर्बहुभिर्यजमानैर्यज्ञार्थमाहूताय तुभ्यमजिरा शीघ्रगमनशीलौ सप्ती सर्पणशीतौ हरी हरिनामकावश्वौ रथस्य धूर्षु युगप्रान्तेषूपा युनज्मि । अहं तथा योजयामि । द्रवत् स रथो यथा गच्छेत्तथेति शेषः । विश्वतश्चित् सर्वतः संभृतं अग्निर्यजुर्भिः सविता स्तोमैरित्यादियज्ञ संभारैः संपूर्णमिमं यज्ञं प्रतीन्द्रं त्वामुपा वहातः । तावश्वौ । सम्यगावहताम् । धूर्षु । धुर्वी हिंसर्धः । क्विप् । राल्लोप इति वकारलोपः व्रोरुपधाया इति दीर्घः । सावेकाच इति विघक्तेरुदात्तता । युनज्मि । युजिर् योगे । रुधादिः । लटि रूपम् । निघातः । द्रवत् । द्रु गतावित्यस्य छान्दसे लङि रुपम् । व्यत्ययेनान्तोदात्तत्वम् । वहातः । वहेर्लेट्याडागमे रूपं ॥ २ ॥

3.35.3 समानपद
उपो᳚ नयस्व॒ वृष᳚णा तपु॒ष्पोतेम᳚व॒ त्वं वृ᳚षभ स्वधावः ।
ग्रसे᳚ता॒मश्वा॒ वि मु᳚चे॒ह शोणा᳚ दि॒वेदि᳚वे स॒दृशी᳚रद्धि धा॒नाः ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । न॒य॒स्व॒ । वृष᳚णा । त॒पुः॒॑पा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒॑वः॒ ।
ग्रसे᳚ताम् । अश्वा᳚ । वि । मु॒च॒ । इ॒ह । शोणा᳚ । दि॒वे॑दि᳚वे । स॒॑दृशीः᳚ । अ॒द्धि॒ । धा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभ कामानां वर्षक स्वधावोऽन्नवन् हे इन्द्र वृषणा सेचनसमर्थौ त पुष्पा तापकेभ्यः शत्रुभ्यो रक्षकावश्वावुपो नयस्व । अस्मत्समीपं प्रापय । उत अपि च त्वमीमेनं यजमानमव । पालय । शोणा शोणवर्णौ तावश्वाविहास्मिन्देवयजने वि मुच । विमिक्तौ तावश्वौ ग्रसेताम् । विघसं भक्षयताम् । त्वं तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्धि । भक्षय । नयस्व । नयतेर्लोटि रूपम् । तपुष्पा । पा रक्शणे । आतोऽनुपसर्गे कः । सुपां सुलुगिति डादेशः । इसुसोः समर्थ्य इदि संहितायां विसर्जनीयस्य षत्वम् । कृदुत्तरपदप्रकृतिस्वरः । अव । अवतेर्लोटि रूपम् । स्वधावः । मतुवसोरिति नकारस्य रुत्वम् । निघातः । ग्रसेताम् । ग्रसु अदन इत्यस्य लोट्यातामि रुपम् । पादादित्वादनिघातः । आतामो लसार्वधातुकस्वरे धातुस्वरः । मुच । मुञ्चतेर्लोटि रूपम् । आगमानुशासनस्यानित्यत्वान्नुमभावः । सदृशीः । समान्सहब्द उपपदे दृशिर् प्रेक्षन इत्यस्मात्समानान्ययोश्चेति कञ्प्रत्ययः । समानस्य दृग्दृश्वतुष्विति सभावः । टिड्ढाणञ् इत्यादिना ङेप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । अद्भि । अद भक्षण इत्यस्य लोट्यदादित्वाच्छओप् लुक् । हुझल्भ्योहेर्धिरिति ध्यादेश । निघातः । धानाः । डुधाञ् धारनपोषणयोः । धापॄवस्यज्यतिभ्यो न इति नप्रत्ययः । प्रत्ययस्वरः ॥ ३ ॥

3.35.4
ब्रह्म᳚णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद᳚ आ॒शू ।
स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्प्रजा॒नन्वि॒द्वा{4} उप᳚ याहि॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णा । ते॒ । ब्र॒ह्म॒॑युजा᳚ । यु॒न॒ज्मि॒ । हरी॒ इति᳚ । सखा᳚या । स॒ध॒॑मादे᳚ । आ॒शू इति᳚ ।
स्थि॒रम् । रथ᳚म् । सु॒खम् । इ॒न्द्र॒ । अ॒धि॒॑तिष्ठ᳚न् । प्र॒॑जा॒नन् । वि॒द्वान् । उप᳚ । या॒हि॒ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चातुर्विंशिकेऽहनि माध्यन्दिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा त इत्यारंभणीया । सुत्रितं च । ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनुनेशि विद्वान् । आ. ७-४ । इति ॥

हे इन्द्र ब्रह्मयुजा ब्रह्मणा मन्त्रेण योक्तव्यौ सधमादे । माद्यन्ति योद्धारोऽत्रेति मादो युद्धम् । सहमादः सधमादः । तस्मिन्युद्धे सखाया समानपसिद्धी अत एवाशू क्षिप्रगमनोपेतौ ते तव हरी अश्वौ ब्रह्मणा स्तोत्रेण युनज्मि । रथे संयोजयामि । स्थिरं सुदृढं सुखं सुष्ठुद्वारं तादृशं रथमधितिष्ठन् आरूढस्त्वं सोमपानार्थमायाहि । प्रजानन्नित्याद्यगमत् । ब्रह्मयुजा । युजेरौणादिकः कर्मणि क्विप् । युनज्मि । युजेर्लिटिरूपम् । निघातः । सधमादे । मदी हर्षे । अधिकरणे घञ् । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः । कृदुत्तरपदप्रकृतिस्वरः । रथम् । अधिशीङ् स्थासाम् कर्मेति कर्मसंज्ञा । सुखम् । खनु विदारणे । अन्येभ्योऽपि दृश्यत इति डः । कृदुत्तरपदस्वरः ॥ ४ ॥

3.35.5
मा ते॒ हरी॒ वृष᳚णा वी॒तपृ᳚ष्ठा॒ नि री᳚रम॒न्यज᳚मानासो अ॒न्ये ।
अ॒त्याया᳚हि॒ शश्व᳚तो व॒यं ते॑रं᳚ सु॒तेभि᳚ः कृणवाम॒ सोमै᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । हरी॒ इति᳚ । वृष᳚णा । वी॒त॑पृ᳚ष्ठा । नि । री॒र॒म॒न् । यज᳚मानासः । अ॒न्ये ।
अ॒ति॒॑आया᳚हि । शश्व᳚तः । व॒यम् । ते॒ । अर᳚म् । सु॒तेभिः᳚ । कृ॒ण॒वा॒म॒ । सोमैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृषणा कामानां सेचकौ वीतपृष्ठा कमनीयपृष्ठभागौ ते तव हरी अन्ये अस्मदन्ये यजमानासो यजमाना मा नि रीरमन् । मा हर्षयन् । वयं तु सुतेभिरभिषुतैः सोमैस्ते तवारं पर्याप्तं कृणवाम । यथा तव तृप्तिर्भवति तथा कुर्म इत्यर्थः । त्वं तु अत्यायाहि शश्वतः । बहूनन्यानतिक्रम्य सोमपानार्थं शीघर्मागच्छ । वितपृष्ठा । वी कान्त्यादिषु । अस्मात्त्कप्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः । रीरमन् । रमु क्रीडायामित्यस्य ण्यन्तस्य लुङि चङि रूपम् । न माङ्योग इत्यडभावः । निघातः । अत्यायाहि । यातेर्लोटि रूपम् । गतिर्गताविति पूर्वस्य निघातः । कृणवाम । कृणोतेर्लोटि रूपम् । निघातः ॥ ५ ॥

3.35.6
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ᳚श्वत्त॒मं सु॒मना᳚ अ॒स्य पा᳚हि ।
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या᳚ दधि॒ष्वेमं ज॒ठर॒ इन्दु᳚मिन्द्र ॥
▶ पदपाठः (Word-by-word)
तव᳚ । अ॒यम् । सोमः᳚ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्॑त॒मम् । सु॒॑मनाः᳚ । अ॒स्य । पा॒हि॒ ।
अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि᳚ । आ । नि॒॑सद्य᳚ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे᳚ । इन्दु᳚म् । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तवायं सोम इति माध्यन्दिने सवने नेष्टुः प्रस्थितयाज्या । सूत्रितं च । तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवः । आ. ५-५ । इति ॥

हे इन्द्र अयं सोमस्तव त्वदर्थमभिषुतः । त्वमर्वाङ् सोमाभिमुख्येनैहि । आयाहि । आगत्य च सुमानाः शोभनमनस्को भूत्वा शश्वत्तमं भूयांसमस्येमं सोमः पाहि । पिब । बर्हिषि प्रवृद्धेऽस्मिन्यज्ञे निशद्योपविश्येन्दुं क्लेदनशीलमिमिं सोमं जठर आ दधिष्व । धारय । यथा नाभेरधस्तान्न गच्छति तथा धारय । अङ्गिरोभिरागहि यज्ञियेभिः । ऋग्वे. १०-१४-५ । इत्यत्र न यज्ञविशेशणं बर्हिर्भिन्नरूपं वा तदित्यतो नोत्सृह्यते । इहि इण् गतौ । अस्य लोटि रूपम् । निघातः । शश्वतमम् । उंछादित्वादन्तोदात्तत्वम् । पाहि । पा पान इत्यस्य लोटि रूपम् । बहुलं छन्दसीति शपो लुक् । निघातः । निषद्य । सदेर्ल्यपि सदेरप्रतेरिति षत्वम् । लित्स्वर्तः । दधिश्व । इन्दुम् । उन्दी क्लेदने । उन्भेरिच्चादेरित्युप्रत्ययः । धातोरादेरिकारादेशः । निदित्यनुवृत्तेराद्युदात्तः ॥ ६ ॥

3.35.7
स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः᳚ कृ॒ता धा॒ना अत्त᳚वे ते॒ हरि᳚भ्याम् ।
तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व᳚ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि᳚ ॥
▶ पदपाठः (Word-by-word)
स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः᳚ । कृ॒ताः । धा॒नाः । अत्त᳚वे । ते॒ । हरि᳚॑भ्याम् ।
तत्॑ओ᳚कसे । पु॒रु॒॑शाका᳚य । वृष्णे᳚ । म॒रुत्व᳚ते । तुभ्य᳚म् । रा॒ता । ह॒वींषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तवोपवेशनार्थं बर्हिः स्तीर्णं विस्तृतम् । तथा सोमश्च त्वदर्थं सुतः । अभिशुतः । ते तव हरिभ्यामत्तवे भक्षणार्थम् धाना भृष्टयवाः कृताः । सम्पादिताः । तदोकसे । तद्बर्हिरोको निलयो यस्य तस्मै । पुरुशाकाय बहुभिः स्तुत्याय यद्वा बहुसहायाय वृष्णे कामानां वर्षित्रे मरुत्वते मरुतो देववितः । तद्वते । एवं भूताय तुभ्यं हवींषि सोमाज्यादीनि राता । अस्माभिर्दत्तानि । तानि सेवस्वेति भावः । स्तीर्णम् । स्तृञ् आच्छादन इत्यस्य ऋत इद्धातोरितीत्वम् । रदाभ्यामिति निष्थानत्वम् । प्रत्ययस्वरः । अत्तवे । अद भक्षण इत्यस्मात्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । तदोकसे । बहुव्रीहौ पूर्वपदस्वरः । पुरुशाकाय । शच व्यक्तायां वाचित्यस्मात्कर्मणि घञ् । चजोः कु घिण्यतोरिति कुत्वम् । कृदुत्तरपदस्वरः । मरुत्वते । तसौ मत्वर्थ इति भसंज्ञायां तकारस्य जश्त्वाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । राता । रा दान इत्यस्मात्कर्मणि क्तः । प्रत्ययस्वरः ॥ ७ ॥

3.35.8 समानपद
इ॒मं नर॒ः पर्व᳚ता॒स्तुभ्य॒माप॒ः समि᳚न्द्र॒ गोभि॒र्मधु᳚मन्तमक्रन् ।
तस्या॒गत्या᳚ सु॒मना᳚ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒᳚ अनु॒ स्वाः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । नरः᳚ । पर्व᳚ताः । तुभ्य᳚म् । आपः᳚ । सम् । इ॒न्द्र॒ । गोभिः᳚ । मधु᳚॑मन्तम् । अ॒क्र॒न् ।
तस्य᳚ । आ॒॑गत्य᳚ । सु॒॑मनाः᳚ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒॑जा॒नन् । वि॒द्वान् । प॒थ्याः᳚ । अनु᳚ । स्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नरः कर्मणां नेतारोऽध्वय्वादयः पर्वता ग्रावाण आपश्चैते सर्व सम्भूय तुभ्यं त्वदर्थमिमं सोमं गोभिः पयोभिर्मधुमन्तं माधुर्योपेतं समक्रन् । सम्यगकार्षुः । ऋष्व दर्शनीय हे इन्द्र सुमन्सः शोभनमनस्को विद्वान्कर्माभिज्ञः स्वाः स्वकीयाः पथ्या वैदिके पथि कर्मणि साधुभूताः स्तुतीरनु प्रजानन् त्वं तस्य पाहि । इममभिषुतं सोमं पिब । अक्रन् । करोतेर्लुङि रूपम् । निघातः । आगत्य । गमेर्ल्यपि रूपम् । लित्स्वरः । पाहि । पातेर्लोटि रूपं ॥ ८ ॥

3.35.9
या{4} आभ᳚जो म॒रुत᳚ इन्द्र॒ सोमे॒ ये त्वामव᳚र्ध॒न्नभ᳚वन्ग॒णस्ते᳚ ।
तेभि᳚रे॒तं स॒जोषा᳚ वावशा॒नो॒३॒᳚॑ग्नेः पि᳚ब जि॒ह्वया॒ सोम᳚मिन्द्र ॥
▶ पदपाठः (Word-by-word)
यान् । आ । अभ᳚जः । म॒रुतः᳚ । इ॒न्द्र॒ । सोमे᳚ । ये । त्वाम् । अव᳚र्धन् । अभ᳚वन् । ग॒णः । ते॒ ।
तेभिः᳚ । ए॒तम् । स॒॑जोषाः᳚ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया᳚ । सोम᳚म् । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यान्मरुतः सोमे सोमपानविशय आभजः समभावयः ये च मरुतस्त्वामवर्धन् युद्धे प्रोत्साहोत्पादनेनावर्धयन् ये च मरुतस्ते तव गणोऽभवन् सहाया अभूवन्नित्यर्थः । हे इन्द्र एवं विधैस्तेभिस्तैर्मरुद्भिः सजोषाः सङ्गतः सन् एतमभिषुतं सोमं वावशानः कामयमानस्त्वमग्नेराहुत्यधिकरणभूतस्याहवनीयस्य ज्वालारुपाया जुह्वयेमं पिब । अभजः । भज सेवायामित्यस्य लङि रुपम् । यद्वृत्तयोगादनिघातः । अवर्धन् । वृधु वर्धन इत्यस्य ण्यन्तस्य लङि रुपम् । छन्दस्युभयथेति झेरार्धधातुकत्वाण्णेरनिटिति णिलोपः । अत्रापि यद्योगादनिघातः । अभवन् । वाक्यभेदादनिघातः । वावशानः । वह्स कान्तावित्यस्य यङ् लुकि चानशि रूपम् । चित्स्वरः । पिब । पा पाने । निघातः ॥ ९ ॥

3.35.10 समानपद
इन्द्र॒ पिब᳚ स्व॒धया᳚ चित्सु॒तस्या॒ग्नेर्वा᳚ पाहि जि॒ह्वया᳚ यजत्र ।
अ॒ध्व॒र्योर्वा॒ प्रय᳚तं शक्र॒ हस्ता॒द्धोतु᳚र्वा य॒ज्ञं ह॒विषो᳚ जुषस्व ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । पिब᳚ । स्व॒धया᳚ । चि॒त् । सु॒तस्य᳚ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया᳚ । य॒ज॒त्र॒ ।
अ॒ध्व॒र्योः । वा॒ । प्र॑य᳚तम् । श॒क्र॒ । हस्ता᳚त् । होतुः᳚ । वा॒ । य॒ज्ञम् । ह॒विषः᳚ । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्वधया स्वमात्मानं दधाति पोषयतीति स्वधा बलम् । तेन चिद्विकल्पार्थः । बलादपहृत्य सुतस्य सुमतमभिषुतं हुतं वा पिब । यजत्र यष्टव्येन्द्राग्नेर्ज्वालारुपया जिह्वाया वाहुतं सोमं पाहि । पिब । हे शक्र समर्थेन्द्र अध्वर्योर्हस्ताद्वा प्रयतं दातुमुपक्रान्तं सोम पिब । अथवा होतुर्यज्ञं यजनीयं वषट्कारोप्तं हविषो भागं जुषस्व । सेवस्व । सर्वथापि त्वमत्रागत्यास्माभिर्दीयमानं सोमं पिबेति भावः । पिब । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । अध्वर्योः । अध्वरं कामयतिति क्यच् । कव्यध्वरेत्यकारलोपः । प्रत्ययस्वरः । तत एकादेशस्वरः । प्रयतम् । यम उपरम इत्यस्य कर्मणि निष्हा । शक्र । शक्लृ शक्तौ । स्फायितञ्चीत्यादिना रक् । हस्तात् । असिहसीत्यादिना तन् । नित्स्वरः । होतुः । जुहोतेस्ताच्छीलिकस्तृन् । नित्स्वरः । जुशस्व । जुषी प्रीतिसेनयोरित्यस्य लोटि रूपम् । निघातः ॥ १० ॥

3.35.11
शु॒नं हु᳚वेम म॒घवा᳚न॒मिन्द्र᳚म॒स्मिन्भरे॒ नृत᳚मं॒ वाज᳚सातौ ।
शृ॒ण्वन्त᳚मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि᳚ सं॒जितं॒ धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । हु॒वे॒म॒ । म॒घ॑वा᳚नम् । इन्द्र᳚म् । अ॒स्मिन् । भरे᳚ । नृ॑त᳚मम् । वाज᳚॑सातौ ।
शृ॒ण्वन्त᳚म् । उ॒ग्रम् । ऊ॒तये᳚ । स॒मत्॑सु᳚ । घ्नन्त᳚म् । वृ॒त्राणि᳚ । स॒म्॑जित᳚म् । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । आस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं सूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मह्गवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशययेन नेतारम् त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु व्रुत्राणि वृत्रोपलक्शितानि सर्वाणि रक्षांसि घ्नण्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शओप् लुकि कृते च लिङि रुपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्शने । संपूर्वात् क्विप् । सम्भक्शयन्ति योद्धॄणामायूंषीति समदः सङ्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ११ ॥