श्रवणम्

3.35.7
स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः᳚ कृ॒ता धा॒ना अत्त᳚वे ते॒ हरि᳚भ्याम् ।
तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व᳚ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि᳚ ॥
▶ पदपाठः (Word-by-word)
स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः᳚ । कृ॒ताः । धा॒नाः । अत्त᳚वे । ते॒ । हरि᳚॑भ्याम् ।
तत्॑ओ᳚कसे । पु॒रु॒॑शाका᳚य । वृष्णे᳚ । म॒रुत्व᳚ते । तुभ्य᳚म् । रा॒ता । ह॒वींषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तवोपवेशनार्थं बर्हिः स्तीर्णं विस्तृतम् । तथा सोमश्च त्वदर्थं सुतः । अभिशुतः । ते तव हरिभ्यामत्तवे भक्षणार्थम् धाना भृष्टयवाः कृताः । सम्पादिताः । तदोकसे । तद्बर्हिरोको निलयो यस्य तस्मै । पुरुशाकाय बहुभिः स्तुत्याय यद्वा बहुसहायाय वृष्णे कामानां वर्षित्रे मरुत्वते मरुतो देववितः । तद्वते । एवं भूताय तुभ्यं हवींषि सोमाज्यादीनि राता । अस्माभिर्दत्तानि । तानि सेवस्वेति भावः । स्तीर्णम् । स्तृञ् आच्छादन इत्यस्य ऋत इद्धातोरितीत्वम् । रदाभ्यामिति निष्थानत्वम् । प्रत्ययस्वरः । अत्तवे । अद भक्षण इत्यस्मात्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । तदोकसे । बहुव्रीहौ पूर्वपदस्वरः । पुरुशाकाय । शच व्यक्तायां वाचित्यस्मात्कर्मणि घञ् । चजोः कु घिण्यतोरिति कुत्वम् । कृदुत्तरपदस्वरः । मरुत्वते । तसौ मत्वर्थ इति भसंज्ञायां तकारस्य जश्त्वाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । राता । रा दान इत्यस्मात्कर्मणि क्तः । प्रत्ययस्वरः ॥ ७ ॥