तृतीयं मण्डलम् - सूक्तम् 58

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 3.58 - सम्पूर्णम्

1 / 9
ऋक्: 3.58.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.58.1 समानपद
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा᳚ना॒न्तः पु॒त्रश्च᳚रति॒ दक्षि᳚णायाः ।
आ द्यो᳚त॒निं व᳚हति शु॒भ्रया᳚मो॒षस॒ः स्तोमो᳚ अ॒श्विना᳚वजीगः ॥
▶ पदपाठः (Word-by-word)
धे॒नुः । प्र॒त्नस्य᳚ । काम्य᳚म् । दुहा᳚ना । अ॒न्तरिति᳚ । पु॒त्रः । च॒र॒ति॒ । दक्षि᳚णायाः ।
आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्र॑या᳚मा । उ॒षसः᳚ । स्तोमः᳚ । अ॒श्विनौ᳚ । अ॒जी॒ग॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धेनुः प्रीणयित्र्युषाः प्रत्नस्य पुरातनस्याग्नेः काम्यं कमनीयं पयो दुहाना । दोग्ध्री भवति । दक्शिणाया उषसः पुत्रः सूर्यस्तस्या अन्तश्चरति । उषसोऽनन्तरं शुभ्रयामा । सूर्यकिरणसम्पर्काच्छुभ्रतया गमनं यस्यासौ शुभ्रयामा दिवसः । द्योतनिं सर्वस्य प्रकाशकं सूर्यमा वहति । बिभर्ति । आत उषसः पुराश्विनौ स्तोतुं स्तोमः स्तोत्रकारी होत्रादिरजीगः । जागर्ति । उत्तिष्थति । शुभ्रयामा । या प्रापणे । आतो मनिन् । बहुव्रीहौ पूर्वपदस्वरः । अजीग । जागृनिद्राक्षये । लङि तिप्यदादित्वाच्छपो लुक् । आकारस्येकारश्छान्दसः । गुणे कृते हल्ङ्यादिना तिपो लोपः ॥ १ ॥

3.58.2
सु॒युग्व᳚हन्ति॒ प्रति᳚ वामृ॒तेनो॒र्ध्वा भ᳚वन्ति पि॒तरे᳚व॒ मेधा᳚ः ।
जरे᳚थाम॒स्मद्वि प॒णेर्म᳚नी॒षां यु॒वोरव᳚श्चकृ॒मा या᳚तम॒र्वाक् ॥
▶ पदपाठः (Word-by-word)
सु॒॑युक् । व॒ह॒न्ति॒ । प्रति᳚ । वा॒म् । ऋ॒तेन᳚ । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । पि॒तरा᳚॑इव । मेधाः᳚ ।
जरे᳚थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः᳚ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ सुयुक् सुष्ठु रथे योजिता अश्वा ऋतेन सत्यभूतेन रथेन वां युवां प्रतिवहन्ति । यज्ञं प्रत्यागमनाय धारयन्ति । मेधा यज्ञाश्चोर्ध्वा युष्मदभिमुखमूर्ध्वा भवन्ति । तत्र दृष्तान्तः । पितरेव यथा पुत्राः पितरौ माता पितरावभिलक्ष्यगच्छन्ति तद्वत् । अस्मदस्मत्तः सकाशात्पणेर्मनीषामासुरीं बुद्धिं विजरेथाम् । विशेषेण नाशयतम् । वयं तु युवोर्युवयोरवो हविर्लक्षणमन्नं च कृम । कुर्मः । युवामर्वागस्मादाभिमुख्येना यातम् । सुयुक् । युजे क्विप् । सुपां सुलुगिति सुपो लुक् । पितरेव । पिता मात्रेति पितुः शेषः । सुपो डादेशः । जरेथाम् । जॄश वयोहानौ । ण्यन्तस्य जनीजॄष्क्नसुरञ्जोऽमन्ताश्चेति मित्त्वाद्वृद्ध्यभावः । छन्दस्युभयथेत्याथाम अर्धधातुकत्वाण्णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ २ ॥

3.58.3
सु॒युग्भि॒रश्वै᳚ः सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ᳚णुतं॒ श्लोक॒मद्रे᳚ः ।
किम॒ङ्ग वां॒ प्रत्यव᳚र्तिं॒ गमि᳚ष्ठा॒हुर्विप्रा᳚सो अश्विना पुरा॒जाः ॥
▶ पदपाठः (Word-by-word)
सु॒युक्॑भिः᳚ । अश्वैः᳚ । सु॒॑वृता᳚ । रथे᳚न । दस्रौ᳚ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक᳚म् । अद्रेः᳚ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति᳚ । अव᳚र्तिम् । गमि᳚ष्ठा । आ॒हुः । विप्रा᳚सः । अ॒श्वि॒ना॒ । पु॒रा॒॑जाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ सुयुग्भिः सुष्ठु योजितैरश्वैः सुवृता । पुनः पुनरावर्तत इति वृच्चक्रम् । शोभनचक्रोपेतेन रथेनागत्य दस्रौ शत्रूणामुपक्षपयितारौ युवामद्रेः । आद्रियते सर्वैरित्यद्रिः स्तोता । तस्येमं श्लोकं स्तोत्रं शृणुतम् । अङ्ग हे अश्विनौ विप्रासो मेधाविनः पुराजाः पुरातना ऋषयो वां युवामवर्तिमस्माकं वृत्तिहानिं प्रति गमिष्ठा अतिशयेन गन्ताराविति किमाहुः किं कथयन्तीति । न कथयन्तीत्यर्थः । प्रथमाष्टकेऽष्टमेऽध्याये सुवृता रथेनेत्यादि गतम् । गमिष्ठा । गन्तृशब्धादिष्थनि रूपं ॥ ३ ॥

3.58.4 समानपद
आ म᳚न्येथा॒मा ग᳚तं॒ कच्चि॒देवै॒र्विश्वे॒ जना᳚सो अ॒श्विना᳚ हवन्ते ।
इ॒मा हि वां॒ गोऋ᳚जीका॒ मधू᳚नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः᳚ । विश्वे᳚ । जना᳚सः । अ॒श्विना᳚ । ह॒व॒न्ते॒ ।
इ॒मा । हि । वा॒म् । गो॑ऋ᳚जीका । मधू᳚नि । प्र । मि॒त्रासः᳚ । न । द॒दुः । उ॒स्रः । अग्रे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्वचिदिति प्रश्ने । हे अश्विनौ आ मन्येथाम् । इमां मदीयां स्तुतिं जानीतम् । किञ्च एवैर्गमनसाधनैरश्वैरागतम् । यज्ञं प्रत्यागच्छतम् । विश्वे सर्वे जनासः स्तोतारोऽश्विनाश्विनौ वां युवां हवन्ते । स्तुतिलक्षणाभिर्वाग्भिराह्वयन्ति । किञ्च गोऋजीका गवां पयसा मिश्रणोपेतानि मधूनि मदकराणि सोमरसरूपाणीमेमानि हवींषि युवाभ्यां प्रददुः । अध्वर्व्यादयः प्रयच्छन्ति । तत्र दृष्टान्तः । मित्रासो न । यथा मित्राणि मित्रेभ्योऽपेक्शितं ददति तद्वत् । उस्रः । वसति नभसीत्युस्रः सूर्यः । अग्र उषसोऽग्र उदेति । तस्मादागच्छतमिति भावः । ददुः । दाण् दान इत्यस्य लिट्युसि रूपम् । हियोगादनिघातः । उस्रः । वस निवासे । स्फायितंचीत्यादिना रक् । कित्त्वात्संप्रसारणम् । शासिवसिघसीनां चेति षत्वाभावश्छान्दसः ॥ ४ ॥

3.58.5
ति॒रः पु॒रू चि᳚दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु ।
एह या᳚तं प॒थिभि᳚र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां᳚सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒॑वा॒ना॒ । जने᳚षु ।
आ । इ॒ह । या॒त॒म् । प॒थि॑भिः᳚ । दे॒व॒॑यानैः᳚ । दस्रौ᳚ । इ॒मे । वा॒म् । नि॒॑धयः᳚ । मधू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ पुरू चिद्बहून्यपि रजांसि स्थानानि तिरः स्वतेजसा तिरस्कुर्वन्तौ वां युवामिह कर्मणि देवयानैः पथिभिर्मार्गैरा यातम् । मघवाना धनवन्तौ हे अश्विनौ जनेशु स्तोतृषु वां युवयोरांगूष आ समन्ताद्घोषणीयं स्तोत्रं वर्तते । दस्रौ शत्रूणामुपक्शयितारौ हे अश्विनौ वां युवयोर्मधुनां मदकराणां सोमानामिमे निधयः । निधीयतेऽत्र सोम इति निधयः पात्रविशेषाः । सन्ति । तस्मादागच्छतमिति भावः । आङ्गूषः । आङ्पार्वाद्घुषेः कर्मणि घञ् । आघुषुयत इत्याघोषः । घो इत्यस्य पृषोदरादित्वाद्गू इत्यादेशः । आङोऽनुनासिकश्छन्दसीत्यनच्यप्यनुनासिकश्छान्दसः । यद्वा । अगिर्गत्यर्थः । अस्मादङ्गूष इति सूत्रेणोषच् प्रत्ययान्तो निपातितः । अङ्गरि गच्छति देवानित्यङ्गूषः स्तोत्रम् । अङ्गूष एवाङ्गूषः । प्रज्ञादित्वात्स्वार्थिकोऽण् । प्रत्ययस्वरः । एह यातमित्यर्धर्चोगतः ॥ ५ ॥

3.58.6 समानपद
पु॒रा॒णमोकः᳚ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न᳚रा॒ द्रवि᳚णं ज॒ह्नाव्या᳚म् ।
पुनः᳚ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स᳚मा॒नाः ॥
▶ पदपाठः (Word-by-word)
पु॒रा॒णम् । ओकः᳚ । स॒ख्यम् । शि॒वम् । वा॒म् । यु॒वोः । न॒रा॒ । द्रवि᳚णम् । ज॒ह्नाव्या᳚म् ।
पुन॒रिति᳚ । कृ॒ण्वा॒नाः । स॒ख्या । शि॒वानि᳚ । मध्वा᳚ । म॒दे॒म॒ । स॒ह । नु । स॒मा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आप्तोर्यामेऽतिरिक्तोक्थ्येऽच्छावाकशस्त्रे पुराणमोक इति चतस्रो विकल्पेन याज्याः । सूत्रितं च । यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः ॥ आ. ९-११ ॥ इति ॥

हे अश्विनौ वां युवायोः पुराणं पुरातनं सख्यमोकः सेव्यं शिवं कल्याणकरं भवति । किञ्च हे नरा नरावस्मदीय कर्मणो नेतारौ युवोर्युवयोर्द्रविणं धनं जह्नाव्यां जह्नुकुलजायां भवति । शिवानि सुखकराणि युवयोः सख्यानि पुनः कृण्वानाः कुर्वन्तः समाना हविष्प्रदानेनोपकारकत्वान्मित्रभूता एकीभूताः सन्तो वयं मध्वा मदकरेण सोमेन युवां सह युगपत् नु क्षिप्रं मदेम । हर्षयेम ॥ सख्यम् । सख्युर्भाव इत्यर्थे सख्युर्य इति यत्प्रत्ययः । जह्नाव्याम् । जह्नोः सम्बन्धिनीत्यर्थे तस्येदमित्यण् । ओर्गुणः । ह्रस्वदीर्घयोर्व्यत्ययः । मदेम । मदी हर्ष इत्यस्याशीर्लिङ् लिङ्याशिष्यङ् प्रत्ययः । निघातः ॥ ६ ॥

3.58.7
अश्वि᳚ना वा॒युना᳚ यु॒वं सु᳚दक्षा नि॒युद्भि᳚ष्च स॒जोष᳚सा युवाना ।
नास᳚त्या ति॒रोअ᳚ह्न्यं जुषा॒णा सोमं᳚ पिबतम॒स्रिधा᳚ सुदानू ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । वा॒युना᳚ । यु॒वम् । सु॒॑द॒क्षा॒ । नि॒युत्॑भिः᳚ । च॒ । स॒॑जोष᳚सा । यु॒वा॒ना॒ ।
नास᳚त्या । ति॒रः॑अ᳚ह्न्यम् । जु॒षा॒णा । सोम᳚म् । पि॒ब॒त॒म् । अ॒स्रिधा᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुदक्षा शोभनसामर्थ्योपेतौ युवाना नित्यतरुणौ नासत्या । न विद्यतेऽसत्यं युयोस्तौ । सुदानू शोभनफलस्य दातारौ हे अश्विनौ वायुना नियुद्भिरश्वैश्च सजोषसा सङ्गतौ जुषाणा सोमविषयप्रीतियुक्तावस्रिधानुपक्षीणौ युवं युवां तिरोअह्न्यमह्नि तिरोहिते हूयमानमिमं सोमं पिबतम् । नियुद्भिः । यौतेः क्विप् । तिरो अह्न्यम् । अह्नि भवमह्न्यम् । भवे छन्दसीति यत् । तिरो भूतमह्न्यं यस्मिन्काले स तिरो अह्न्यः । पूर्वपदप्रकृतिस्वरः ॥ ७ ॥

3.58.8 समानपद
अश्वि᳚ना॒ परि᳚ वा॒मिषः᳚ पुरू॒चीरी॒युर्गी॒र्भिर्यत᳚माना॒ अमृ᳚ध्राः ।
रथो᳚ ह वामृत॒जा अद्रि᳚जूत॒ः परि॒ द्यावा᳚पृथि॒वी या᳚ति स॒द्यः ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । परि᳚ । वा॒म् । इषः᳚ । पु॒रू॒चीः । ई॒युः । गीः॒॑भिः । यत᳚मानाः । अमृ᳚ध्राः ।
रथः᳚ । ह॒ । वा॒म् । ऋ॒त॒॑जाः । अद्रि᳚॑जूतः । परि᳚ । द्यावा᳚पृथि॒वी इति᳚ । या॒ति॒ । स॒द्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ पुरूचीः पुर्वञ्चन्ति गच्छन्तीति पुरूचीर्बहूनीषो हविर्लक्षणान्यनानि वां युवां परीयुः । परितो गच्छन्ति । तथामृध्राः केनाप्यतिरस्कृता यतमानाः कर्मणि प्रवर्तमानाः स्तोतारो गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्युवां परिचरन्ति । ऋतजा ऋतस्योदकस्य जनयिता । ऋते यज्ञे प्रादुर्भवतिति वा । अद्रिजूतः स्तोतृभिराकृष्तो वाअं युवयो रथो द्यावापृथिवी द्यावापृथिव्यौ सद्यस्तदानीमेव परियाति ह । सर्वतः प्राप्नोति खलु । अश्विनो रथस्य वेगवत्त्वे मन्त्रवर्णः । यो वामश्विना मनसा जवीयान्रथः स्वश्वो विश आजिगाति । ऋग्वे. १-११७-२ । इति । अतः कारणादस्मदीयं यज्ञं प्रत्यागच्छतमिति भावः । ईयुः । इण् गतावित्यस्य लिटि दीर्घ इणः कितीत्यभ्यासस्य दीर्घः । पादादित्वादनिघातः । यतमानाः । यतीप्रयत्न इत्यस्य शानचि रूपम् । शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । ऋतजाः । जनेर्विट् । विड्वनोरित्यात्वम् । अद्रिजूतः । जू इति सौत्रो धातुः । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदस्वरः ॥ ८ ॥

3.58.9
अश्वि᳚ना मधु॒षुत्त᳚मो यु॒वाकु॒ः सोम॒स्तं पा᳚त॒मा ग᳚तं दुरो॒णे ।
रथो᳚ ह वां॒ भूरि॒ वर्प॒ः करि᳚क्रत्सु॒ताव᳚तो निष्कृ॒तमाग᳚मिष्ठः ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । म॒धु॒सुत्॑त᳚मः । यु॒वाकुः᳚ । सोमः᳚ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे ।
रथः᳚ । ह॒ । वा॒म् । भूरि᳚ । वर्पः᳚ । करि᳚क्रत् । सु॒त॑व᳚तः । निः॒॑कृ॒तम् । आ॑ग᳚मिष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यः सोमो मधुषुत्तमो मधुरसमत्यन्तं प्रेरय्यन्युवातुयुवां कामयमानो वर्तते । यद्वा । युवाकुर्वसतीवरी प्रभृतिभिर्मिश्रित इत्यर्थः । तमिमं सोमं पातम् । पिबतम् । दुरोणेऽस्माकं गृह आ गतम् । आगच्छतम् । भूरि प्रभूतं वर्पो वारकं तेजः रूपं वा सर्वैर्वरणीयं धनं वा करिक्रत्पुनः पुनः कुर्वन्वां युवयो रथः सुतवतः सोममभिषुतवतो यजमानस्य निष्कृतम् । निरित्येष समित्येतस्य स्थाने । नि. १२-७ । इति यास्कः । संस्कारि । यद्वा । संस्कृतं गृहमागमिष्ठोऽतिशयेनागच्छन् भवति । युवाकुः । यौतेः कटिकुषिभ्यां काकुरिति बाहुलकादस्मादपि भवति । प्रत्ययस्वरेण मध्योदात्तः । करिक्रत् । करोतेर्यङ्लुकि शतरि दाधर्ति दर्धति दर्धर्षीत्यादिना चुत्वाभावे यणादेशे कृतेऽङ्गस्यानृकारान्तत्वादभ्यासस्य रिगागमो न प्राप्नोतीति सोऽपि निपात्यते । अभ्यस्तस्वरः । निष्कृतम् । करोतेरादिकर्मणि क्तः । संस्कर्तुं प्रवृश्त इत्यर्थः । थाथादिस्वरः ॥ ९ ॥