पु॒रा॒णमोकः᳚ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न᳚रा॒ द्रवि᳚णं ज॒ह्नाव्या᳚म् ।
पुनः᳚ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स᳚मा॒नाः ॥
पुनः᳚ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स᳚मा॒नाः ॥
पदपाठः (Word-by-word)
पु॒रा॒णम् । ओकः᳚ । स॒ख्यम् । शि॒वम् । वा॒म् । यु॒वोः । न॒रा॒ । द्रवि᳚णम् । ज॒ह्नाव्या᳚म् ।
पुन॒रिति᳚ । कृ॒ण्वा॒नाः । स॒ख्या । शि॒वानि᳚ । मध्वा᳚ । म॒दे॒म॒ । स॒ह । नु । स॒मा॒नाः ॥
पुन॒रिति᳚ । कृ॒ण्वा॒नाः । स॒ख्या । शि॒वानि᳚ । मध्वा᳚ । म॒दे॒म॒ । स॒ह । नु । स॒मा॒नाः ॥
सायणभाष्यम् (Sayana Commentary)
आप्तोर्यामेऽतिरिक्तोक्थ्येऽच्छावाकशस्त्रे पुराणमोक इति चतस्रो विकल्पेन याज्याः । सूत्रितं च । यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः ॥ आ. ९-११ ॥ इति ॥
हे अश्विनौ वां युवायोः पुराणं पुरातनं सख्यमोकः सेव्यं शिवं कल्याणकरं भवति । किञ्च हे नरा नरावस्मदीय कर्मणो नेतारौ युवोर्युवयोर्द्रविणं धनं जह्नाव्यां जह्नुकुलजायां भवति । शिवानि सुखकराणि युवयोः सख्यानि पुनः कृण्वानाः कुर्वन्तः समाना हविष्प्रदानेनोपकारकत्वान्मित्रभूता एकीभूताः सन्तो वयं मध्वा मदकरेण सोमेन युवां सह युगपत् नु क्षिप्रं मदेम । हर्षयेम ॥ सख्यम् । सख्युर्भाव इत्यर्थे सख्युर्य इति यत्प्रत्ययः । जह्नाव्याम् । जह्नोः सम्बन्धिनीत्यर्थे तस्येदमित्यण् । ओर्गुणः । ह्रस्वदीर्घयोर्व्यत्ययः । मदेम । मदी हर्ष इत्यस्याशीर्लिङ् लिङ्याशिष्यङ् प्रत्ययः । निघातः ॥ ६ ॥