श्रवणम्

3.58.5
ति॒रः पु॒रू चि᳚दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु ।
एह या᳚तं प॒थिभि᳚र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां᳚सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒॑वा॒ना॒ । जने᳚षु ।
आ । इ॒ह । या॒त॒म् । प॒थि॑भिः᳚ । दे॒व॒॑यानैः᳚ । दस्रौ᳚ । इ॒मे । वा॒म् । नि॒॑धयः᳚ । मधू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ पुरू चिद्बहून्यपि रजांसि स्थानानि तिरः स्वतेजसा तिरस्कुर्वन्तौ वां युवामिह कर्मणि देवयानैः पथिभिर्मार्गैरा यातम् । मघवाना धनवन्तौ हे अश्विनौ जनेशु स्तोतृषु वां युवयोरांगूष आ समन्ताद्घोषणीयं स्तोत्रं वर्तते । दस्रौ शत्रूणामुपक्शयितारौ हे अश्विनौ वां युवयोर्मधुनां मदकराणां सोमानामिमे निधयः । निधीयतेऽत्र सोम इति निधयः पात्रविशेषाः । सन्ति । तस्मादागच्छतमिति भावः । आङ्गूषः । आङ्पार्वाद्घुषेः कर्मणि घञ् । आघुषुयत इत्याघोषः । घो इत्यस्य पृषोदरादित्वाद्गू इत्यादेशः । आङोऽनुनासिकश्छन्दसीत्यनच्यप्यनुनासिकश्छान्दसः । यद्वा । अगिर्गत्यर्थः । अस्मादङ्गूष इति सूत्रेणोषच् प्रत्ययान्तो निपातितः । अङ्गरि गच्छति देवानित्यङ्गूषः स्तोत्रम् । अङ्गूष एवाङ्गूषः । प्रज्ञादित्वात्स्वार्थिकोऽण् । प्रत्ययस्वरः । एह यातमित्यर्धर्चोगतः ॥ ५ ॥