तृतीयं मण्डलम् - सूक्तम् 8

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: यूपः छन्दः: त्रिष्टुप्

सूक्तम् 3.8 - सम्पूर्णम्

1 / 11
ऋक्: 3.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.8.1
अ॒ञ्जन्ति॒ त्वाम᳚ध्व॒रे दे᳚व॒यन्तो॒ वन᳚स्पते॒ मधु᳚ना॒ दैव्ये᳚न ।
यदू॒र्ध्वस्तिष्ठा॒ द्रवि᳚णे॒ह ध᳚त्ता॒द्यद्वा॒ क्षयो᳚ मा॒तुर॒स्या उ॒पस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ञ्जन्ति᳚ । त्वाम् । अ॒ध्व॒रे । दे॒व॒॑यन्तः᳚ । वन᳚स्पते । मधु᳚ना । दैव्ये᳚न ।
यत् । ऊ॒र्ध्वः । तिष्ठाः᳚ । द्रवि᳚णा । इ॒ह । ध॒त्ता॒त् । यत् । वा॒ । क्षयः᳚ । मा॒तुः । अ॒स्याः । उ॒प॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनस्पते खदिरपलाशादिलक्षण हे यूप अध्वरे यज्ञे देवयन्तो देवान् कामयमाना अध्वर्य्वादयो दैव्येन मधुना देवसम्बन्धिना मधुना घृतेन । एतद्वै मधु दैव्यं यदाज्यमित्याम्नानात् ऐ ब्रा २-२- । तेन घृतेन त्वामञ्जन्ति । त्वयि घृतं सिञ्चन्तीत्यर्थः । यत् यदि त्वमूर्ध्वस्तिष्थाः । उन्नतस्तिष्ठसि । यद्वा दिव मातुरस्या मातृभूतायाः पृथिव्या उपस्थ उत्सङ्गे ते क्षयो निवासः । यदूर्ध्वस्तिष्ठसि यदि वा भूमौ शयानो वर्तसे उभयथापि त्वमिहास्मासु द्रविणा धनानि धत्तात् धेहि ॥ ब्राह्मणेनेयमृग्व्याख्याता । अञ्जन्ति त्वामध्वरे देवयन्त इत्यन्वाहाध्वरे ह्येनं देवन्तोऽञन्ति वनस्पते मधुना दैव्येनेत्ये तद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्रविणमेवास्मासु धत्तादित्येव तदाह । ऐ ब्रा २-२ । इति तथा च निरुक्तमपि । अञ्जन्ति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च यदूर्ध्वः स्थास्यसि द्रविणानि च नो दास्यसि यद्वा ते कृतः क्षयो मातुरस्या उपस्थ उपस्थाने नि ८-१८ । इति अञ्जन्ति । अञ्जू व्यक्तिकान्तिगतिम्रक्षणेषु । रुधादित्वात् श्नम् । तस्य लटि झेर्ङित्त्वादनिदितामित्युपधालोपः श्नसोरल्लोप इत्यल्लोपः प्रत्ययस्वरेण मध्योदातः । त्वाम् । आमि युष्मच्छब्दत्य त्वमवेकवचन इति त्वादेशः । द्वितीयायां चेत्याकारः । एकादेश उदात्तेनोदात्त इत्येकादेशस्योदात्तत्वम् । अध्वरे न विद्यते ध्वरो हिंसा यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते नञ्सुभ्यामित्युत्तरपदान्तोदात्ततं देवयन्तः । देवानात्मन इच्छन्तः । सुप आत्मन इति क्यच् । क्यचि चेतीत्वं अकृत्सार्वधातुकयोरिति दीर्घत्वं च न छन्दस्यपुत्रस्येत्यनेन प्रतिषिध्यते । तदन्ताच्छत्प्रत्ययः शपः पित्त्वल्लसार्वधातुकस्यरेण जानुदात्तत्वे कृते तयोरेकादेश उदात्तेनोदात्त इति क्यच एव स्वरः वनस्पते । आमन्त्रितस्य चेत्याद्युदात्तत्वम् । मधुना । फलिपाटिनमिमनीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । दैव्येन देवाद्य ञञाविति यञ । ञित्त्वाद्वृद्धिः । यस्येति लोपः । ञित्त्वादाद्युदात्तः । तिष्ठाः । ष्ठा गतिनिवृत्तौ । लेटि सिप् । इतश्च लोप इदीकारलोपः । शप्त शित्त्वात् पाघ्रेत्यादिना तिष्ठादेशः । लेटोऽडाटावित्यडागमः । यच्छब्दयोगान्निः घाताभावः । तिष्ठादेशस्याद्युदात्तत्वेन निपातितत्वादाद्युदात्तः । द्रविणा द्रुदक्षिभ्यामिनन्नितीनन्प्रत्ययः । सुपां सुलिगिति सुपो डादेशः । नित्वादाद्युदात्तः । इह । इदम् शब्दात्सप्यम्यर्थ इदमो ह इति हः । इदम इशितीशादेशः । शित्त्वात्सर्वादेशः । प्रत्यय स्वरः । धत्तात् । डुधाञ् धारणपोषयोरित्यस्य प्रार्थने लोट् । सिप् । तस्य सेर्ह्यपिच्चेति हिरादेशः । तुह्योः । पा. ७-१-३५ । इति तातङादेशः । श्नाभ्यस्तयोरात इत्याकाललोपः । दधस्तथोश्च । पा८-२-३८ । इति भष् भावः । जश्त्वचर्त्वे । निघातह् । वा । जादित्वादनुदात्तः । क्षयः । क्षियन्ति निवसन्त्यस्मिन्नित्यधिकरणि घः । क्षयो निवास इत्याद्युदात्तत्वम् । मातुः । नप्तृनेष्टृ इत्यादिना तृजन्तत्वेन निपातनादन्तोदातः । ऋत उदिति ङसः पूर्वपदयोरुकारः अस्याः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । उपस्थे । ष्ठा गतिनिवृक्तौ । अतश्चोपसर्ग इति कः । तत्पुरुषे तुल्यार्थेति मरुद्वृधा दित्वात्पूर्वपदांतोदात्तत्वम् ॥ १ ॥

3.8.2
समि᳚द्धस्य॒ श्रय᳚माणः पु॒रस्ता॒द्ब्रह्म᳚ वन्वा॒नो अ॒जरं᳚ सु॒वीर᳚म् ।
आ॒रे अ॒स्मदम᳚तिं॒ बाध᳚मान॒ उच्छ्र᳚यस्व मह॒ते सौभ᳚गाय ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धस्य । श्रय᳚माणः । पु॒रस्ता᳚त् । ब्रह्म᳚ । व॒न्वा॒नः । अ॒जर᳚म् । सु॒॑वीर᳚म् ।
आ॒रे । अ॒स्मत् । अम᳚तिम् । बाध᳚मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ᳚गाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यूप समिद्धस्य दीपमानस्यावहनीयाख्यस्याग्नेः पुरस्तात् प्राच्यान्दिशि श्रयमाणस्तत्र वर्तमानो ब्रह्मान्नम् । ब्रह्मवर्च इत्यन्ननामसु पाठात् । अजरं जरारहितं समृद्धं सुवीरं शोभनापत्ययुक्तं ब्रह्मान्नं वन्वानः प्रयच्छन् अस्मदमतिमस्माकं शत्रुभूतामशनायाम् । अशनाया वै पाप्मामतिरिति श्रवणात् । तादृशं शत्रुमारे दूरे बाधमनोऽपनुदन्स्त्वं महते सौभगाय धनादिसंपत्त्यर्थमुच्छ्रयस्व । उच्छ्रितो भव । उक्तार्थे ब्राह्मणम् । समिद्धस्य श्रयमाणः पुरस्तादिति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमित्याशिषमेवाशास्त आरे अस्मदमतिं बधमान इत्यशनाया वै पाप्मा मतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच्छ्रयस्व महते सौभगायेत्याशिषमेवाशास्ते । ऐ. ब्रा. २-२- । इति समिद्धस्य । ञि इन्धी दीप्तौ । कर्मणि निष्ठायां स्वीदितो निष्ठायामितीट् प्रतिषेधः । सम्यगिद्ध इति गतिरनन्तर इति पूर्वपदप्रकृतिस्वरत्वम् । श्रयमाणः । श्रिञ् सेवायामित्यस्य लटः शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः शिष्यते । पुरस्तात् । पूर्वशब्दस्य दिक् शब्देभ्यः सप्तमीपंचमीत्यादिना । पा. ५-३-२७ । आस्तातिप्रत्ययः ॥ अस्ताति च । पा. ५-३-४० । इति पूर्वस्य पुरादेशः । प्रत्ययस्वरः । ब्रह्म । नब्विषयस्यानिसन्तस्येत्याद्युदात्तः । वन्वानः । वनु याचने । आत्रायं धातुर्दानार्थे वर्तते । लटः शानच् प्रत्ययः । चित्त्वादन्तोदात्तः । अजरं नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । सुवीरम् । वीरवीरौचेत्युत्तरपदाद्युदात्तत्वम् । आरे । एवमादित्वादन्तोदात्तः । अस्मत् । युष्यसिभ्यां मदिगिति मदिक्प्रत्ययस्वरः । सुपां सुगिति सुपो लुक् मदिक्प्रत्ययस्वरः अमतिम् । तत्पुरुष इति पूर्वपदप्रकृतिस्वरत्वम् । ऊत् निपातत्वेनाद्युदात्तः । श्रयस्व । श्रि ञ् सेवायामित्यस्य लोण्मध्यमैकवचने थास् । थासः स इत्यादेशः । सवाभ्यां वामावित्येकारस्य वकारः । निघातः महते वर्तमाने पृषद्पृशन्महदिति निपातनादण्तोदात्तः । बृहन्मतोरुपस्यंखानमिति विभक्तेरुदात्तत्वम् । सौभागाय । प्राणाभृज्जातिवयोवचनेत्यञ् । हृद्भगसिन्ध्वन्ते पूर्वपदस्य् चेति वृद्धिः । सर्वविधिनां छंदसि विकल्पितत्वादित्युत्तरपदस्य वृद्धिर्नभवति । ञित्स्वरः ॥ २ ॥

3.8.3
उच्छ्र᳚यस्व वनस्पते॒ वर्ष्म᳚न्पृथि॒व्या अधि᳚ ।
सुमि᳚ती मी॒यमा᳚नो॒ वर्चो᳚ धा य॒ज्ञवा᳚हसे ॥
▶ पदपाठः (Word-by-word)
उत् । श्र॒य॒स्व॒ । व॒न॒स्प॒ते॒ । वर्ष्म᳚न् । पृ॒थि॒व्याः । अधि᳚ ।
सु॑मि᳚ती । मी॒यमा᳚नः । वर्चः᳚ । धाः॒ । य॒ज्ञ॑वा᳚हसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वनस्पते युप पृथिव्या अधि पृथिव्यां वर्ष्मन् उत्कृष्टे देवयजनाख्ये देश उच्छ्रयस्व । उच्छ्रितो भव । सुमिती शोभमानया बुद्ध्या अथवा शोभनेन परिमाणेन मीयमान इयत्तया परिच्छिद्यमानस्त्वं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः । अन्नम् धेहि । अयमेवार्थो ब्राह्मणेन दर्शितः । उच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् । वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वन्ति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते । ऐ. ब्रा. २-२ ॥ वनस्पते । अपादादित्वादाष्टमिकमनुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । सुमिती । माङ् मान इत्यस्य क्तिनि द्यतिस्यतिमास्थेतीकारादेशः । शोभनया मित्या । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति सवर्णदीर्घः । मीयमानः । माङ् मान इत्यस्य कर्मणि यक् । घुमास्थेतीत्वम् । प्रत्ययस्वरः । धाः । धाञो लोडर्थे छंदसि लुङ् लुङ्गिति लुङ् । इतश्चेति सिप इकारलोपः । गातिस्थेति सिचो लोपः । बहुलं छंदसीत्यडभावः । निघातः । यज्ञवाहसे यज्ञं वहति प्राप्नोति । वह प्रापण इत्यस्य वहिहाधाञ्भ्याश्चन्दसीत्यसुन् । णिदित्यनुवृत्तेरुपधावृद्धिः । गतिकारकयोरिति पूर्वपदप्रकृति स्वरत्वं चेति पूर्वपदप्रकृति स्वरः । उ. ४-२२६ ॥ ३ ॥

3.8.4
युवा᳚ सु॒वासा॒ः परि᳚वीत॒ आगा॒त्स उ॒ श्रेया᳚न्भवति॒ जाय᳚मानः ।
तं धीरा᳚सः क॒वय॒ उन्न᳚यन्ति स्वा॒ध्यो॒३॒᳚ मन᳚सा देव॒यन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
युवा᳚ । सु॒॑वासाः᳚ । परि᳚॑वीतः । आ । अ॒गा॒त् । सः । ऊं॒ इति᳚ । श्रेया᳚न् । भ॒व॒ति॒ । जाय᳚मानः ।
तम् । धीरा᳚सः । क॒वयः᳚ । उत् । न॒य॒न्ति॒ । सु॒॑आ॒ध्यः᳚ । मन᳚सा । दे॒व॒॑यन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यवा दृढाङ्गोऽष्टाश्र्यादिलक्षणलक्षित इत्यर्थः । सुवासाः शोभनेन वाससा रशनया युक्तः । परिवीतस्तया रशनया वेष्टितः । एवंविधो यूप आगात् । आगच्छति । स उ स एव यूपः श्रेयान् जायमानः सर्वेभ्यो वनस्पतिभ्य उत्कृष्टतया सम्पद्यमानो भवति । तमेवं विधं यूपं धीरासः प्राज्ञा मनसा देवयन्तो देवान् कामयमानाः स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः कवयः क्रान्तदर्शिनोऽध्वर्य्वादय उन्नयन्ति । उन्नतं कुर्वन्ति । एतस्मिन्नर्थे ब्राह्मणम् । युवासुवासाः परिवीत आगादित्युय्त्तमया परिदधाति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति । श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरसः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयन्ति । ऐ. ब्रा. २-२ ॥ इति युवा । यौतेः कनिन्युवृषितक्षीत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । उवजादेशः । नित्त्वादाद्युदात्तत्वम् । सुवासाः । वस आच्छादने । असुन्नित्यनुवृत्तौ वसेर्णिदित्यसुन्प्रत्ययः । णित्त्वादुपदावृद्धिः । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम् । परिवीतः । व्येञ् संवरणे । कर्मणि क्तः । यजादित्वास्त्स्म्प्रसारणम् । गतिरनन्तर इति पूर्वपदप्रकृतिस्वरत्वम् । आगात् । इण् गतावित्यस्य लुङि इणो गा लुञीति गादेशः । गातिस्थेति सिचो लोपः । अडागमः । श्रेयान् । प्रशस्यस्य द्विवचनविभज्योपपद इतीयसुन्प्रत्ययः । तस्मिन्प्रशस्यस्य श्र इति श्रादेशः । गुणः । नित्त्वादाद्युदात्तत्वम् । एकादेश आद्युदात्तः । स्वाध्यः । ध्यै चिन्तायाम् । स्वाजोरुपसर्गयोः प्राक्प्रयोगः । अन्येभ्योऽपि दृश्यन्त इति क्विप् । दृशिग्रहणात्सम्प्रसारणम् । सम्प्रसाराणाच्चेति पूर्वरूपत्वम् । हल इति दीर्घः । जसि एरनेकाच इति यणादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । उदात्तस्वरितयोर्यण इति जसः स्वरितत्वम् । देवयन्तः । सुप आत्मनः क्यजिति क्यच् । चित्त्वादन्तोदात्तः ॥ ४ ॥

3.8.5
जा॒तो जा᳚यते सुदिन॒त्वे अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध᳚मानः ।
पु॒नन्ति॒ धीरा᳚ अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि᳚यर्ति॒ वाच᳚म् ॥
▶ पदपाठः (Word-by-word)
जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒॑त्वे । अह्ना᳚म् । स॒॑म॒र्ये । आ । वि॒दथे᳚ । वर्ध᳚मानः ।
पु॒नन्ति᳚ । धीराः᳚ । अ॒पसः᳚ । म॒नी॒षा । दे॒व॒॑याः । विप्रः᳚ । उत् । इ॒य॒र्ति॒ । वाच᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातः पृथिव्यां प्रथमुमुत्पन्नो यूपः समर्ये । मर्य इति मनुष्यनाम । तैः सहिते विदथे वर्धमानः । विदथ इति यज्ञनाम विदथः सवनमिति यज्ञ नामसु पाठात् । तस्मिन्यज्ञ आ वर्धमानो घृतान्जनरशनापरिव्ययणादिना सर्वतः शोभमानः सन् आह्नां सुदिनत्वे जायते । पशुनियोजनादिद्वारेण यज्ञ निर्वाहकतयाहानि सुदिनानि करोतीत्यर्थः । आपसः कर्मवन्तो धीराः सुप्रज्ञा आध्वर्य्वादयो मनिषा बुद्ध्या तं यूपं पुनन्ति । प्रक्षलनादिभिः शोधयन्ति । देवया देवानां यष्टा देवानां हवीषि प्रापयिता वा विप्रो मेधावी होता च वाचं यूपविषयां स्तुतिलक्षणां वाचमुदियर्ति । प्रेरयति । उच्चारयतीत्यर्थः । उक्तार्थे ब्राह्मणम् । जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एतज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तद्देवया विप्र उदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति । ऐ. ब्रा. २-२ ॥ सुदिनत्वे । सुदिनानां भावे इति तस्य भावस्त्वतलाविति त्वः । प्रत्ययस्वरः । समर्ये । मृङ् प्राणत्याग इत्यस्माच्छन्दसि निष्टर्क्येति क्यप्रत्ययान्तत्वेन निपातनाद्गुणः । समासस्येत्यन्तोदात्तत्वम् । पुनन्ति । पूञ् पवने । क्र्यादित्वाच्छ्ना । स्वादित्वाद्ध्रस्वः । प्रत्ययस्वरः । देवयाः । या प्रापणे । आतो मनिन्निति विच् प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयर्ति । ऋ गतौ । जुहोत्यादिः । अभ्यासस्यार्तिपिपर्त्योश्चेतीत्वम् । अभ्यासस्यासवर्ण इतीयजादेशः । निघातः ॥ ५ ॥

3.8.6
यान्वो॒ नरो᳚ देव॒यन्तो᳚ निमि॒म्युर्वन᳚स्पते॒ स्वधि᳚तिर्वा त॒तक्ष᳚ ।
ते दे॒वास॒ः स्वर᳚वस्तस्थि॒वांसः᳚ प्र॒जाव᳚द॒स्मे दि᳚धिषन्तु॒ रत्न᳚म् ॥
▶ पदपाठः (Word-by-word)
यान् । वः॒ । नरः᳚ । दे॒व॒॑यन्तः᳚ । नि॒॑मि॒म्युः । वन᳚स्पते । स्व॑धि᳚तिः । वा॒ । त॒तक्ष᳚ ।
ते । दे॒वासः᳚ । स्वर᳚वः । त॒स्थि॒॑वांसः᳚ । प्र॒जा॑व᳚त् । अ॒स्मे इति᳚ । दि॒धि॒ष॒न्तु॒ । रत्न᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यूपा देवयन्तो देवान्कामयमाना नरः कर्माणां नेतारोऽध्वर्य्वादयो यान्वो यान्युष्मान्निमिम्युः । अवटेषु प्रचिक्षिपुः । वा आपि च हे वनस्पते स्वधितिः परशुस्त्वदीयान्यूपांस्ततक्ष चिच्छेद देवासो दीप्यमानाः स्वरवः । स्वरुशब्दः स्वशकलवाची । त्द्वन्तः । लुप्तमत्वर्थीयः । तस्थिवांसस्तिष्ठन्तस्ते तादृशा यूपा आस्मे अस्मै यजमानाय प्रजावत् अपत्यसहितं रत्नमुत्तमं धनं दिदिह्षन्तु । धारयन्तु । प्रयच्छन्त्वित्यर्थः ॥ निमिय्मुः । डुमिञ् प्रक्षेपण इत्यस्य लिट्युसि असंयोगाल्लिट् किदिति किद्वद्भ्रावाद्गुणाभावः । यद्वृत्तयोगादनिघातः । सति शिष्टः स्वरो बलीयानिति वचनात्प्रत्ययस्वरः । स्वधितिः । स्वशब्दोपपदाद्धा धारण इत्यस्मात् क्तिन् । स्वा स्वकीया निशितधारा धीयते प्रक्षिप्येतेऽनेनेति स्वधितिः खड्गः । ततक्ष । तक्षू त्वक्षू तनूकरण इत्यस्माल्लिटि णलि रूपादनिघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरवः । स्वृ शब्दोपतापयोरित्यस्मान्निदित्यनुवृत्तौ शॄस्वृस्निहित्रपीत्यादिना उ प्रत्ययः । नित्त्वादाद्युदात्तः । तस्थिवांसः । ष्ठा गतिनिवृत्तावित्यस्माच्छन्दसि लिट् । तस्य क्वसुः । वस्वेकाजाद्घसामितीडागमः । प्रत्ययस्वरः । प्रजावत् । जनीप्रादुर्भाव इत्यस्मादुपसर्गे च संज्ञायामिति डः । ततष्टाप् । तदस्यास्तीति मतुप् । तस्य पित्त्वादनुदात्तत्वम् । एकादेशस्वरः । आस्मे । आस्मच्छब्दस्य सुपां सुलुगिति शे आदेशः । दिधिषन्तु । धिष धारणे । जुहोत्यादिः । निघातः ॥ ६ ॥

3.8.7 समानपद
ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि᳚तासो य॒तस्रु᳚चः ।
ते नो᳚ व्यन्तु॒ वार्यं᳚ देव॒त्रा क्षे᳚त्र॒साध᳚सः ॥
▶ पदपाठः (Word-by-word)
ये । वृ॒क्णासः᳚ । अधि᳚ । क्षमि᳚ । नि॑मि᳚तासः । य॒त॑स्रु᳚चः ।
ते । नः॒ । व्य॒न्तु॒ । वार्य᳚म् । दे॒व॒॑त्रा । क्षे॒त्र॒॑साध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधि क्षमि क्षमायां भूमौ वृक्णासः परुशुना च्छिन्ना ये यूपाः । यतस्रुच इति ऋत्विग्वाची यतस्रुचो मरुत इति ऋत्विङ्नामसु पठितत्वात् । यताः स्रुचो यैस्ते यतस्रुचः । तैर्यत्विग्भिर्निमितासोऽवटेषु नितरां प्रक्षिक्ताः क्षेत्रसाधसः क्षेत्रस्य यज्ञस्य साधकाः । यथा क्षेत्रं सस्यादिद्वारा फलं प्रयच्छति तथा यज्ञो७प्यपूर्वद्वारा स्वर्गादि फलं ददातीति क्षेत्रं यज्ञः । एवं विधास्ते यूपानोऽस्मदीयं वार्यं वारणीयं सम्भजनीयं हविर्देवत्रा देवेषु व्यन्तु । गमयन्तु । अस्मदीयं हविर्देवाधीनं कुर्वन्त्वित्यर्थः । कृक्णासः । ओव्रश्चूछेदन इत्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । कित्त्वद्ग्रहिज्यावयित्यादिना सम्प्रसारणम् । ओदितश्चेति निष्ठानत्वम् । क्शमि । आतो धातोरित्यत्र अत इति योगविभागादाकारलोपः । निमितासः । डुमिञ् प्रक्षेपणी । कर्मणि क्तः । गतिरनन्तर इति पूर्वपद प्रकृतिस्वरत्वम् । यतस्रुचः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । व्यन्तु । इण् गतावित्यस्य लोटि रूपम् । इकारलोपश्छान्दसः । अयमन्तर्भावितण्यर्थः । वार्यम् । वृङ् सम्भक्तावित्यस्मादृहलोर्ण्यदिति कर्मणि ण्यत् । ईडवन्दवृशंसदुहेत्यादिनाद्युदात्तत्वम् । देवत्रा त्रेत्यनुवृत्तौ देवमनुष्यपुरुपुरुमर्त्येभ्य इत्यादिनाधिकरणे त्राप्रत्ययः । क्षेत्रसाधसः । राध साध संसिद्धावित्यस्मादौणादिकोऽसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ ७ ॥

3.8.8
आ॒दि॒त्या रु॒द्रा वस᳚वः सुनी॒था द्यावा॒क्षामा᳚ पृथि॒वी अ॒न्तरि᳚क्षम् ।
स॒जोष᳚सो य॒ज्ञम᳚वन्तु दे॒वा ऊ॒र्ध्वं कृ᳚ण्वन्त्वध्व॒रस्य᳚ के॒तुम् ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याः । रु॒द्राः । वस᳚वः । सु॒॑नी॒थाः । द्यावा॒क्षामा᳚ । पृ॒थि॒वी । अ॒न्तरि᳚क्षम् ।
स॒॑जोष᳚सः । य॒ज्ञम् । अ॒व॒न्तु॒ । दे॒वाः । ऊ॒र्ध्वम् । कृ॒ण्व॒न्तु॒ । अ॒ध्व॒रस्य᳚ । के॒तुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुनीथा यज्ञस्य सुष्ठु नेतार आदित्या द्वादशादित्या रुद्रा एकादशरुद्रा वसवोऽष्टौ वसवः । यद्वा सुष्ठुनीथाः सुष्टुतयः । स्तुत शस्त्राणि निथानि चोक्थ्यामदानि च । ऐ. ब्रा. २-३८ । इति हि श्रूयते । द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी । सुब्व्यत्ययः । पृथु विस्तीर्णमन्तरिक्षं च । सजोषस एते सर्वे देवा ऐकमत्येन परस्परं संगता भूत्वेममस्मदीयं यज्ञमवन्तु । रक्षन्तु । किञ्च । अध्वरस्य यज्ञस्य केतुं ध्वजभूतं प्रज्ञापकं नेमं यूपमूर्ध्वं कृण्वन्तु । उच्छ्रितं कुर्वन्तु । आदित्याः । अदितेरपत्यानि । दित्यदित्यादित्यपत्युत्तरपदादिति ण्यः । णित्त्वादादिवृद्धिः । प्रत्ययस्वरः । रुद्राः । रोदयन्ति सर्वानन्त काले । रोदेर्णिलुक् चेति रक्प्रत्ययः । तत्सन्नियोगेणिलोपः । प्रत्ययस्वरः । जसः सुप्त्वादनुदात्तत्वे एकादेश उदात्तेनोदात्त इत्येकादेशस्याप्युदात्तत्वम् । वसव वस निवासे । निदित्यनुवृक्तौ शॄस्वृस्निहित्रप्यसिवसीत्यादिनोप्रत्ययः । नित्त्वादाद्युदात्तः । सुनीथाः । णीञि प्रापणे । हनिकुषिनीरमिकाशिभ्य इति क्थन् । कित्त्वादगुणः । थाथघञ्तेत्युत्तरपदान्तोदात्तत्वम् । द्यावाक्षामा । दौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । देवता द्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । पृथिवी । प्रथ प्रख्याने । प्रथेः । षिवन् सम्प्रसारणं चेति षिवन् सम्प्रसारणं च । शिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । अवन्तु । अव रक्षणे निघातह् । कृण्वन्तु । कृवि हिंसाकरणयोरित्यस्माल्लोटि धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारश्चान्दादेशः । निघातः ॥ ८ ॥

3.8.9
हं॒सा इ᳚व श्रेणि॒शो यता᳚नाः शु॒क्रा वसा᳚ना॒ः स्वर᳚वो न॒ आगु᳚ः ।
उ॒न्नी॒यमा᳚नाः क॒विभि᳚ः पु॒रस्ता᳚द्दे॒वा दे॒वाना॒मपि᳚ यन्ति॒ पाथः᳚ ॥
▶ पदपाठः (Word-by-word)
हं॒साः॑इ᳚व । श्रे॒णि॒॑शः । यता᳚नाः । शु॒क्रा । वसा᳚नाः । स्वर᳚वः । नः॒ । आ । अ॒गुः॒ ।
उ॒त्॑नी॒यमा᳚नाः । क॒वि॑भिः᳚ । पु॒रस्ता᳚त् । दे॒वाः । दे॒वाना᳚म् । अपि᳚ । य॒न्ति॒ । पाथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुक्रा शुक्राणि दीप्तानि वासांसि वसना आच्छादयन्तः स्वरवः स्वरुमन्तः श्रेणिश पङ्क्तिशो यतानाः प्रवर्तमानाः । अत्र दृष्टान्तः । हंसा इवेति । यथा नभसि पङ्किशः पतन्तो हंसाः शोभन्ते तद्वत् शोभमानास्ते यूपा नोऽस्मानागुः । प्रापुः । अपि च कवभिर्मेधाविभिरध्वर्व्यादिभिः पुरस्तादाहवनीयस्य पूर्वभाग उन्नीयमाना उच्छ्रीयमाणा देवा दीप्यमानास्ते यूपा देवानां पाथो देवानां स्थानमन्तरिक्षम् । पाथोऽन्तरिक्षं पथा व्याख्यातमिति यास्कः । पाथोनदीभ्यां ड्यङ् । पा. ४-४-१११ । इति सूत्रे पाथोऽन्तरिक्षमिति वृत्तिकारोऽप्यवादीत् । तादृशमन्तरिक्षमपियन्ति । प्राप्नुवन्ति । अध्वर्व्यादिभिरुच्छ्रीयमाणा यूपा अतिदैर्घ्यादन्तरिक्षं व्याप्य वर्तन्त इत्यर्थः । हंसा इव । इवेन विभक्त्यलोप इति वचनात्पूर्वपदस्वरः । श्रेणितः । बह्वल्पार्थदिति शस् । प्रत्ययस्वरः । श्रेणिशः । बहुल्पार्थादिति शस् । प्रत्ययस्वरः । शुक्रा । शुच दीप्तावित्यस्मादृज्रेन्द्राग्रेत्यादिना रन्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । आगुः । इण् गतौ । अस्माल्लुङ् रूपम् । निघातः ॥ ९ ॥

3.8.10
शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒ सं द᳚दृश्रे च॒षाल᳚वन्त॒ः स्वर᳚वः पृथि॒व्याम् ।
वा॒घद्भि᳚र्वा विह॒वे श्रोष᳚माणा अ॒स्मा{4} अ᳚वन्तु पृत॒नाज्ये᳚षु ॥
▶ पदपाठः (Word-by-word)
शृङ्गा᳚णि॑इव । इत् । शृ॒ङ्गिणा᳚म् । सम् । द॒दृ॒श्रे॒ । च॒षाल᳚॑वन्तः । स्वर᳚वः । पृ॒थि॒व्याम् ।
वा॒घत्॑भिः᳚ । वा॒ । वि॒॑ह॒वे । श्रोष᳚माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वरवः स्वरमन्तश्चाषालवन्तः प्रतिमुक्तकंटकाः । एवं विधा य़ूपाः पृथिव्यां शृङ्गिणां महषादीनां शृङ्णाणीवेत् विषाणानिव सन्ददृश्रे । सम्यक् दृश्यन्त एव । वा अपि च विहवे । विविधं हूयन्ते हवींष्यत्रेति विहवो यज्ञः । तस्म्न्न्यज्ञे वाघद्भिरृत्विभिः । वाघतो वृक्तबर्हिष इत्यृत्विङ्नामसु पाठात् । श्रोषमाणास्तैः क्रियमाणं स्तुतिलक्षणं शब्दं शृण्वन्तः । तादृशा यूपाः पृतनाज्येषु । पृतनाज्यशब्दः सङ्रामवाची । अदौ पृतनाज्यमिति सङ्रामनामसु पठितत्वात् । पृतनाज्येषु सङ्रामेषु । वधस्थलेष्विति यावत् । अस्मान्यजमानानवन्तु । रक्षन्तु । शृङ्गाणि । शॄ हिंसायामित्यस्माच्छृणातेर्ह्रस्वश्च । उ. १-१२५ । इति गन् नुडागमो धातोर्ह्रस्वश्च । नित्स्वरः । ददृश्रे । छन्दसि लुङ्ल लुङ्लिट इति लङर्थे लिट् । इरयो र इतीरेचो रे त्यादेशः । निघातः ॥ १० ॥

3.8.11 समानपद
वन᳚स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र᳚वल्शा॒ वि व॒यं रु᳚हेम ।
यं त्वाम॒यं स्वधि᳚ति॒स्तेज᳚मानः प्रणि॒नाय᳚ मह॒ते सौभ᳚गाय ॥
▶ पदपाठः (Word-by-word)
वन᳚स्पते । श॒त॑व᳚ल्शः । वि । रो॒ह॒ । स॒हस्र᳚॑वल्शाः । वि । व॒यम् । रु॒हे॒म॒ ।
यम् । त्वाम् । अ॒यम् । स्व॑धि᳚तिः । तेज᳚मानः । प्र॒॑नि॒नाय᳚ । म॒ह॒ते । सौभ᳚गाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वनस्पते छिन्नमूल स्थाणो शवल्शः शतशाखः सन् विरोह । विशेषेण पादुर्भूतो भव । वयमपि सहस्रवस्शाः पुत्रपौत्रादिसन्तानपरम्परया सहस्रशाखाः सन्तो विरुहेम । विशेषेण प्रादुर्भुता भवेम । तेजमानो निशितधारोऽयं स्वधितिः परशुः हे स्थाणो यं त्वा महते सौभगाय महत्सौभाग्यं बहुशाखत्व लक्षणं प्रणिनाय । प्रकर्षेण प्रपयामास । सहस्रवल्शाः । सहस्रशब्दः कर्दमादित्वान्मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रुहेम । रुह प्रादुर्भाव इत्यस्मादाशीर्लिङ् किदाशिषीति यासुडागमः । स्कोः संयोगाद्योरन्ते चेति सलोपः । लिज्याशिष्यङ्ङु त्यङ् प्रत्ययः । अतो येय इति इयादेशः । लोपो व्योर्वलिति यलोपः । गुणः । प्रणिनाय । णीञ् प्रापण इत्यस्माल्लिटि रूपम् । पादादित्वाद निघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ ११ ॥