उ॒न्नी॒यमा᳚नाः क॒विभि᳚ः पु॒रस्ता᳚द्दे॒वा दे॒वाना॒मपि᳚ यन्ति॒ पाथः᳚ ॥
पदपाठः (Word-by-word)
उ॒त्॑नी॒यमा᳚नाः । क॒वि॑भिः᳚ । पु॒रस्ता᳚त् । दे॒वाः । दे॒वाना᳚म् । अपि᳚ । य॒न्ति॒ । पाथः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
शुक्रा शुक्राणि दीप्तानि वासांसि वसना आच्छादयन्तः स्वरवः स्वरुमन्तः श्रेणिश पङ्क्तिशो यतानाः प्रवर्तमानाः । अत्र दृष्टान्तः । हंसा इवेति । यथा नभसि पङ्किशः पतन्तो हंसाः शोभन्ते तद्वत् शोभमानास्ते यूपा नोऽस्मानागुः । प्रापुः । अपि च कवभिर्मेधाविभिरध्वर्व्यादिभिः पुरस्तादाहवनीयस्य पूर्वभाग उन्नीयमाना उच्छ्रीयमाणा देवा दीप्यमानास्ते यूपा देवानां पाथो देवानां स्थानमन्तरिक्षम् । पाथोऽन्तरिक्षं पथा व्याख्यातमिति यास्कः । पाथोनदीभ्यां ड्यङ् । पा. ४-४-१११ । इति सूत्रे पाथोऽन्तरिक्षमिति वृत्तिकारोऽप्यवादीत् । तादृशमन्तरिक्षमपियन्ति । प्राप्नुवन्ति । अध्वर्व्यादिभिरुच्छ्रीयमाणा यूपा अतिदैर्घ्यादन्तरिक्षं व्याप्य वर्तन्त इत्यर्थः । हंसा इव । इवेन विभक्त्यलोप इति वचनात्पूर्वपदस्वरः । श्रेणितः । बह्वल्पार्थदिति शस् । प्रत्ययस्वरः । श्रेणिशः । बहुल्पार्थादिति शस् । प्रत्ययस्वरः । शुक्रा । शुच दीप्तावित्यस्मादृज्रेन्द्राग्रेत्यादिना रन्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । आगुः । इण् गतौ । अस्माल्लुङ् रूपम् । निघातः ॥ ९ ॥