तृतीयं मण्डलम् - सूक्तम् 37

11 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 3.37 - सम्पूर्णम्

1 / 11
ऋक्: 3.37.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
3.37.1 समानपद
वार्त्र᳚हत्याय॒ शव᳚से पृतना॒षाह्या᳚य च ।
इन्द्र॒ त्वा व᳚र्तयामसि ॥
▶ पदपाठः (Word-by-word)
वार्त्र᳚॑हत्याय । शव᳚से । पृ॒त॒ना॒॑सह्या᳚य । च॒ ।
इन्द्र᳚ । त्वा॒ । आ । व॒र्त॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । हे इन्द्र वार्त्रहत्याय वृत्रहनननिमित्ताय शवसे बलायापि च प्?ऋतनासाह्याय परकीयसेनाभिभवाय त्वामा सर्वतो वर्तयामसि । प्रवर्तयामः । वार्त्रहत्याय । वृत्रघ्नः कर्मेत्यर्थे ब्राह्मणादित्वात् ष्यञ् । हनस्तोऽचिण्णलोः । पा. ७-३-३२ ॥ इति तकारः । ञित्त्वादाद्युदात्तः । पृतनाषाह्याय । षह मर्षण इत्यस्माद्भावे शकिसहोश्चेति यत् । संहितायां सहेः पृतनर्ताभ्यां च । पा. ८-३-१-९ । इति षत्वम् । दीर्घश्छान्दसः । वर्तयामसि । वृतु वर्तन इत्यस्य ण्यन्तस्य मस इदन्तो मसिरिति मसि इत्यादेशः । निघातः ॥ १ ॥

3.37.2
अ॒र्वा॒चीनं॒ सु ते॒ मन᳚ उ॒त चक्षु᳚ः शतक्रतो ।
इन्द्र᳚ कृ॒ण्वन्तु᳚ वा॒घतः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒र्वा॒चीन᳚म् । सु । ते॒ । मनः᳚ । उ॒त । चक्षुः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
इन्द्र᳚ । कृ॒ण्वन्तु᳚ । वा॒घतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो । शतं क्रतवो यस्यासौ शतक्रतुः । हे इन्द्र वाघतः । वहन्ति यज्ञयां धुरमिति वाघतः स्तोतारः । ते तव सु अस्मदभिमतफलसंपादनेन शोभनं मनोऽर्वाचीनमस्मदभिमुखं क्रुण्वन्तु । कुर्वन्तु । उत आपि च चक्शुस्त्वदीयं दर्शनमस्मास्वनुग्रहदृष्टिं कुर्वन्तु । अर्वाचीनम् । विभाषांचेरदिक् स्त्रियामिति खप्रत्ययः । खस्येनादेशः । चक्षुः । चक्षेः शिच्चेत्युसिप्रत्ययः । शिद्वद्भावात् ख्याञादेशाभावः । निदित्यनुवृत्तेराद्युदात्तः । कृण्वन्तु । कृवि हिंसाकरणयोरित्यस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । वाघतः । वह प्रापणे । संश्चद्वेहदित्यादिना अतिप्रत्ययान्तत्वेन निपातनादुपधावृद्धिः । हकारस्य घत्वम् । प्रत्ययस्वरः ॥ २ ॥

3.37.3
नामा᳚नि ते शतक्रतो॒ विश्वा᳚भिर्गी॒र्भिरी᳚महे ।
इन्द्रा᳚भिमाति॒षाह्ये᳚ ॥
▶ पदपाठः (Word-by-word)
नामा᳚नि । ते॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । विश्वा᳚भिः । गीः॒॑भिः । ई॒म॒हे॒ ।
इन्द्र᳚ । अ॒भि॒मा॒ति॒॑सह्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतक्रतो हे इन्द्र अभिमातिषाह्ये । मातिर्मानो गर्वः । आभितो मानो येषां तेऽभिमातयः शत्रवः । तेषां सहनमेव सह्यम् । तस्मिन्युद्धेऽस्माकमुपस्थिते सति ते तव नामानि शक्रवज्रहस्तादीनि नामधेयानि । यद्वा । तदुपलक्षितानि बलानि विश्वाभिरीर्घिः सर्वाभिः स्तुतिलक्षणाभिर्वग्भिरीमहे । वयं याचामहे ॥ ईमहे । ई कान्त्यादिषु । व्यत्ययेनात्मने पदम् । अदादित्वाच्छपो लुक् । निघातः ॥ ३ ॥

3.37.4
पु॒रु॒ष्टु॒तस्य॒ धाम᳚भिः श॒तेन᳚ महयामसि ।
इन्द्र᳚स्य चर्षणी॒धृतः᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑स्तु॒तस्य᳚ । धाम᳚॑भिः । श॒तेन᳚ । म॒ह॒या॒म॒सि॒ ।
इन्द्र᳚स्य । च॒र्ष॒णि॒॑धृतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पुरुष्टुतस्य पुरुभिर्बहुभिः स्तोतृभिः स्तुतस्य शतेनापरिमितसंख्याकैर्धामभिस्तेजोभिर्युक्तस्य चर्षणीधृतश्चर्षणीनां मनुश्याणां कर्मानुष्ठातॄणामभिमतफलसंपादनेन धारकस्येन्द्रस्य । यद्वा । आकृषन्ति सर्वमनेनेति चर्शणि बलम् । तद्धारकस्य तव महयामसि । स्तोत्रं कुर्मः । पुरुष्टुतस्य । ष्वुञ् स्तुतौ । कर्मणि क्तः । थाथादिस्वरः । सम्हितायां स्तुतस्तोमयोश्छन्दसीति षत्वम् । महयामसि । मह पूजायामित्यस्य लटीदन्तो मसिः । निघातः । चर्षणीधृतः । कृष आकर्षणे । कृषेरादेश्च चः । उ. २-१०५ । इत्यनिप्रत्ययः । ककारस्य चकारादेशः । यद्वा । कृष विलेखने । कर्षन्तीति चर्षणयो मनुश्याः । धृ धारणे । क्विप् । कृदुत्तरपदस्वरः ॥ ४ ॥

3.37.5
इन्द्रं᳚ वृ॒त्राय॒ हन्त᳚वे पुरुहू॒तमुप᳚ ब्रुवे ।
भरे᳚षु॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । वृ॒त्राय᳚ । हन्त᳚वे । पु॒रु॒॑हू॒तम् । उप᳚ । ब्रु॒वे॒ ।
भरे᳚षु । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृत्रा यन्तवे वृत्रनामकमसुरं हन्तुं भरेषु युद्धेषु वाजसातयेऽन्नोपलक्शितधनलाभाय च पुरुहूतं पुरुभिराहूतमिन्द्रं बलवन्तं त्वामुपब्रुवे । सोमपानार्थं विश्वामित्रोऽहमाह्वयामि । वृत्राय । क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानम् । हन्तवे । यन्तेस्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । ब्रुवे । ब्रूञ् व्यक्तायां वाचीत्यस्य लङ्युत्तम इटि रूपम् । निघातः । वाजसातये । सननं सातिः । वाजस्य सातिर्वाजसातिः । दासीभारादित्वात्पुर्वपदप्रकृतिस्वरः ॥ ५ ॥

3.37.6
वाजे᳚षु सास॒हिर्भ᳚व॒ त्वामी᳚महे शतक्रतो ।
इन्द्र᳚ वृ॒त्राय॒ हन्त᳚वे ॥
▶ पदपाठः (Word-by-word)
वाजे᳚षु । स॒स॒हिः । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
इन्द्र᳚ । वृ॒त्राय᳚ । हन्त᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतक्रतो हे इन्द्र वाजेषु सङ्ग्रामेशु सासहिः शत्रूणामभिभविता भव । वृत्राय हन्तवे वृत्रं हन्तुं त्वामीमहे । प्रार्थयामहे । सासहिः । सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्याविति किप्रत्ययः । तस्य स्वरः । वृत्राय । कर्मणः । सम्प्रदानम् । हन्तवे । तुमर्थे तवेन्प्रत्ययः ॥ ६ ॥

3.37.7
द्यु॒म्नेषु᳚ पृत॒नाज्ये᳚ पृत्सु॒तूर्षु॒ श्रव᳚स्सु च ।
इन्द्र॒ साक्ष्वा॒भिमा᳚तिषु ॥
▶ पदपाठः (Word-by-word)
द्यु॒म्नेषु᳚ । पृ॒त॒नाज्ये᳚ । पृ॒त्सु॒तूर्षु᳚ । श्रवः᳚॑सु । च॒ ।
इन्द्र᳚ । साक्ष्व᳚ । अ॒भि॑मा᳚तिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र द्युम्नेषु द्योतमानेषु धनेषु प्राप्तव्येष्वभिमानिनो ये सपत्नाः पृतनाज्ये । पृतनानामजनं गमनं यस्मिन्निति पृतनाज्यं सङ्ग्रामः । तस्मिन्सङ्ग्रामे च पृत्सुतूर्षु पृतनासु तरण शीलेषु शूरेषु श्रवः सु बलेषु च येऽभिमानिनः सपत्नाः सन्ति तान् साक्ष्व । अभिभव । तथाभिमातिषु सर्वतो गर्वयुक्तेषु शत्रुषु पुरुशेषु ये सपत्नाः तांश्चाभिभव । पृतनाज्ये । अज गतिक्षेपणयोरित्यस्य ण्यन्तस्य अचो यत् । पृतनानामाज्यं पृतनाज्यम् । एकादेशस्वरः । ञित्वरा सम्भ्रमे । ताच्छीलिकः क्विप् । ज्वरत्वरेत्यादिना ऊट् । तत्पुरुषे कृति बहुलमिति पूर्वपदस्य सप्तम्या अलुक् । क्रुदुत्तरपदस्वरः । साक्श्व । सह मर्षण इत्यस्य लोटि बहुलं छन्दसीति शपो लुक् । ढत्वकत्वे दीर्घश्छान्दसः ॥ ७ ॥

3.37.8
शु॒ष्मिन्त᳚मं न ऊ॒तये᳚ द्यु॒म्निनं᳚ पाहि॒ जागृ᳚विम् ।
इन्द्र॒ सोमं᳚ शतक्रतो ॥
▶ पदपाठः (Word-by-word)
शु॒ष्मिन्॑त᳚मम् । न । ऊ॒तये᳚ । द्यु॒म्निन᳚म् । पा॒हि॒ । जागृ᳚विम् ।
इन्द्र᳚ । सोम᳚म् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतक्रतो हे इन्द्र शुष्मिन्तमं बलवतां मध्येऽतिशयेन बलवन्तं द्युम्निनं दीप्तिमन्तम् । यद्वा शुष्मिन्तमं शत्रूणां शोषकतमं द्युम्निनं यशस्विनं जागृविं जागरणशीलम् । पीतः सोमो जागृविः स्वप्ननिवारक इति । तादृशं नोऽस्माकं सम्बन्धिनं सोममूतयेऽस्माकं रक्षणाय पाहि । अत्रागत्य पिब । शुष्मिन्तमम् । तमपः पित्त्वादनुदात्तत्वे प्रत्ययस्वरः । पाहि । पातेर्लोटि बहुलं छन्दसीति शपो लुक् । निघातः । जागृविः । क्विन्प्रत्ययान्तः । नित्त्वादद्युदात्तः ॥ ८ ॥

3.37.9
इ॒न्द्रि॒याणि᳚ शतक्रतो॒ या ते॒ जने᳚षु प॒ञ्चसु᳚ ।
इन्द्र॒ तानि᳚ त॒ आ वृ᳚णे ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्रि॒याणि᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । या । ते॒ । जने᳚षु । प॒ञ्च॑सु᳚ ।
इन्द्र᳚ । तानि᳚ । ते॒ । आ । वृ॒णे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतक्रतो हे इन्द्र ते तव सम्बन्धिषु पञ्चसु जनेषु गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येषु या यानीन्द्रियाणि रूपग्रहणाइद्सामर्थ्यानि स्थितानि ते त्वदीयानि तानीन्द्रियाण्यहमा वृणे । सम्भजे । यद्वा । पञ्चजनेषु निषादपञ्चमेशु चतुर्षु जनेषु यानीन्द्रियाणि सामर्थ्यानि तानि त्वदीयान्यहमा वृणे । इन्द्रियाणि । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वेति घच् प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वृणे । वृङ् सम्भक्तावित्यस्य लटि रूपम् । निघातः ॥ ९ ॥

3.37.10
अग᳚न्निन्द्र॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं द᳚धिष्व दु॒ष्टर᳚म् ।
उत्ते॒ शुष्मं᳚ तिरामसि ॥
▶ पदपाठः (Word-by-word)
अग᳚न् । इ॒न्द्र॒ । श्रवः᳚ । बृ॒हत् । द्यु॒म्नम् । द॒धि॒ष्व॒ । दु॒स्तर᳚म् ।
उत् । ते॒ । शुष्म᳚म् । ति॒रा॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र बृहन्महत् श्रवः सोमल्स्क्शणमस्माभिर्दीयमानमन्नमगन् । त्वां गच्छतु । त्वं दुष्टरं दुस्तरं शत्रुभिस्तरीतुमशक्यं द्युम्नं धनं दधष्व । अस्मभ्यं प्रयच्छ । वयं तु ते त्वदीयं शुष्मं बलमुत्कृष्टं तिरामसि । सोमाज्यादिभिर्धयामः । आगन् । गमेर्लङि बहुलं छन्दसीति शपो लुक् । हल्ज्यादिना तिलोपः । मो नो धातोः । अडागमस्वरः । दधिष्व । दधातेर्लोटि छन्दस्यभयथेति धास आर्धधातुकत्वादिडागमः । निघातः । दुस्तरं तरतेः कृच्छ्रार्थे खल् । सुषामादित्वात्संहितायां शत्वम् । लित्स्वरः । तिरामसि । इदन्तो मसिः । निघातः ॥ १० ॥

3.37.11
अ॒र्वा॒वतो᳚ न॒ आ ग॒ह्यथो᳚ शक्र परा॒वतः᳚ ।
उ॒ लो॒को यस्ते᳚ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
अ॒र्वा॒॑वतः᳚ । नः॒ । आ । ग॒हि॒ । अथो॒ इति᳚ । श॒क्र॒ । प॒रा॒॑वतः᳚ ।
ऊं॒ इति᳚ । लो॒कः । यः । ते॒ । अ॒द्रि॒॑वः॒ । इन्द्र᳚ । इ॒ह । ततः᳚ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शक्र बलवन्हे इन्द्र अर्वावतोऽर्वाचीनात्समीपाद्देशात् अथो आपि च परावतोऽतिदूराद्देशान्नोऽस्मानभिलक्ष्या गहि । आगच्छ । अद्रिवः । अत्ति भक्षयति शत्रूनित्यद्रिर्वज्रः । तद्वन् हे इन्द्र ते तव य उ लोक उत्तमो लोकोऽस्ति ततस्तस्मादपि लोकादिहास्मिन्देवयजने देशे सोमपानार्थामा गहि । आगच्छ । गहि । गमेर्लोटि रूपम् । परावतः । उपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः । अद्रिवः । मतुवसो रुरिति रुः । ततः । पञ्चम्यास्तसिलिति तसिल् । लित्स्वरः ॥ ११ ॥