श्रवणम्

3.37.6
वाजे᳚षु सास॒हिर्भ᳚व॒ त्वामी᳚महे शतक्रतो ।
इन्द्र᳚ वृ॒त्राय॒ हन्त᳚वे ॥
▶ पदपाठः (Word-by-word)
वाजे᳚षु । स॒स॒हिः । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
इन्द्र᳚ । वृ॒त्राय᳚ । हन्त᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतक्रतो हे इन्द्र वाजेषु सङ्ग्रामेशु सासहिः शत्रूणामभिभविता भव । वृत्राय हन्तवे वृत्रं हन्तुं त्वामीमहे । प्रार्थयामहे । सासहिः । सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्याविति किप्रत्ययः । तस्य स्वरः । वृत्राय । कर्मणः । सम्प्रदानम् । हन्तवे । तुमर्थे तवेन्प्रत्ययः ॥ ६ ॥