अ॒र्वा॒चीनं॒ सु ते॒ मन᳚ उ॒त चक्षु᳚ः शतक्रतो ।
इन्द्र᳚ कृ॒ण्वन्तु᳚ वा॒घतः᳚ ॥
इन्द्र᳚ कृ॒ण्वन्तु᳚ वा॒घतः᳚ ॥
पदपाठः (Word-by-word)
अ॒र्वा॒चीन᳚म् । सु । ते॒ । मनः᳚ । उ॒त । चक्षुः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
इन्द्र᳚ । कृ॒ण्वन्तु᳚ । वा॒घतः᳚ ॥
इन्द्र᳚ । कृ॒ण्वन्तु᳚ । वा॒घतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे शतक्रतो । शतं क्रतवो यस्यासौ शतक्रतुः । हे इन्द्र वाघतः । वहन्ति यज्ञयां धुरमिति वाघतः स्तोतारः । ते तव सु अस्मदभिमतफलसंपादनेन शोभनं मनोऽर्वाचीनमस्मदभिमुखं क्रुण्वन्तु । कुर्वन्तु । उत आपि च चक्शुस्त्वदीयं दर्शनमस्मास्वनुग्रहदृष्टिं कुर्वन्तु । अर्वाचीनम् । विभाषांचेरदिक् स्त्रियामिति खप्रत्ययः । खस्येनादेशः । चक्षुः । चक्षेः शिच्चेत्युसिप्रत्ययः । शिद्वद्भावात् ख्याञादेशाभावः । निदित्यनुवृत्तेराद्युदात्तः । कृण्वन्तु । कृवि हिंसाकरणयोरित्यस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । वाघतः । वह प्रापणे । संश्चद्वेहदित्यादिना अतिप्रत्ययान्तत्वेन निपातनादुपधावृद्धिः । हकारस्य घत्वम् । प्रत्ययस्वरः ॥ २ ॥