तृतीयं मण्डलम् - सूक्तम् 20

5 ऋचः

ऋषिः: गाथी कौशिकः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 3.20 - सम्पूर्णम्

1 / 5
ऋक्: 3.20.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
3.20.1
अ॒ग्निमु॒षस᳚म॒श्विना᳚ दधि॒क्रां व्यु᳚ष्टिषु हवते॒ वह्नि᳚रु॒क्थैः ।
सु॒ज्योति᳚षो नः शृण्वन्तु दे॒वाः स॒जोष᳚सो अध्व॒रं वा᳚वशा॒नाः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । उ॒षस᳚म् । अ॒श्विना᳚ । द॒धि॒॑क्राम् । वि॑उ᳚ष्टिषु । ह॒व॒ते॒ । वह्निः᳚ । उ॒क्थैः ।
सु॒॑ज्योति᳚षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒॑जोष᳚सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गाधि बृते । वह्निर्हविषां प्रपयिताग्निर्व्युष्टिषुषसां व्युच्छनेष्वग्निं यजनीयं देवमुषसमुषोऽभिमानिनीं देवतामश्विना अश्विनौ द्वौ दधिक्राम् । दधिक्रावा नाम कश्चिद्देवः तं दधिक्रावाणम् । एतान्देवानुक्थैः शस्त्रैः शंसनसाधनैरप्रगीतमन्त्रात्मकैः सूक्तैर्वहते । आह्वयति । सुज्योतिषः सुष्ठु द्योतमानानोऽध्वरमस्मत्सम्बन्धिनमिमं यज्ञं वावशानाः कामयमानाः सजोषसः परस्परं सङ्गता भूत्वा सर्वे देवास्तदाह्वानं शृण्वन्तु । दधिक्राम् । क्रमु पादविक्षेपे । दधीत्युपपदे जनसनखनक्रमगम इति विट् । विड्वनोरनुनासिकस्यादित्याकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । हवते ह्वयत्र्र्बहुलं छन्दसीति सम्प्रसारणम् । सुज्योतिषः । सुष्ठु द्योतमाना इति विग्रहे द्युत दीप्तावित्यस्य स्युतेरिसिन्नादेश्च जः । उ. २-१११ । इतीसिन्प्रत्ययोदकारस्य जकारः । कृदुत्तरपदप्रकृतिस्वरत्वं बहुव्रीहिपक्षे तु नञ् सुभ्यामित्युत्तरपादान्तोदात्तता स्यात् । यथा । सुज्योतिषो अक्तवस्ता अभिष्युः । ऋग्वे १०-८९-१५ । इत्यत्रान्तोदात्तता । तस्मादत्र नायं समासः किन्तु तत्पुरुष एव शृण्वन्तु । श्रु श्रवण इत्यस्माच्छ्रुवः शृ चेति श्नुस्तत्सन्नियोगेन धातोः शृ इत्यादेशः निघातः । वावशानाः । वश कान्तावित्यस्य यङ्लुकि रूपम् । अभ्यासस्य दीर्घोऽकित इति दीर्घः । व्यत्ययेन शानच् । चित्स्वरः ॥ १ ॥

3.20.2
अग्ने॒ त्री ते॒ वाजि᳚ना॒ त्री ष॒धस्था᳚ ति॒स्रस्ते᳚ जि॒ह्वा ऋ᳚तजात पू॒र्वीः ।
ति॒स्र उ᳚ ते त॒न्वो᳚ दे॒ववा᳚ता॒स्ताभि᳚र्नः पाहि॒ गिरो॒ अप्र᳚युच्छन् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । त्री । ते॒ । वा॒जि᳚ना । त्री । स॒ध॑स्था᳚ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒॑जा॒त॒ । पू॒र्वीः ।
ति॒स्रः । ऊं॒ इति᳚ । ते॒ । त॒न्वः᳚ । दे॒व॑वा᳚ताः । ताभिः᳚ । नः॒ । पा॒हि॒ । गिरः᳚ । अप्र᳚॑युच्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव त्री वाजिना आज्यौषधिसोमात्मकानि त्रीण्यन्नानि त्री षधास्था त्रीण्याग्रीध्रीयादीनि धिष्ण्यानि स्थानानि । यदैकाहाहीनसत्राख्यानि त्रीणि स्थानानि । यद्वा त्रयो लोकाः । ऋतजात ऋतेषु सत्यभूतेषु यज्ञेषु समुत्पन्न हे अग्ने ते तव पूर्वीर्देवानामुदरपुरयित्र्यस्तिस्रो गार्हपत्याद्या जिह्वाः । हे अग्ने ते तव देवताता देवैरभिलषितास्तिस्रस्तन्वः पवमानपावकशुच्यात्मकानि त्रीणि शरीराणि । एवंभुतस्त्वमप्रयुच्छन् अप्रमाद्यन् सावधानो भूत्वा ताभिस्तनूभिर्नोऽस्माकं स्तोतॄणां गिरः स्तोत्रशस्त्रादीनि वाक्यानि पाहि । पालय । तिस्रः । तिसृभ्यो जस इति जस उदात्तत्वम् । जिह्वाः । लिह अस्वादने । लिहन्त्याभी रसानिति शेवायह्वजिह्वाग्रीवाप्वामीवा इति निपातनाद्वन् । लकारस्य जकारः । गुणाभावः । व्यत्ययेनान्तोदात्तत्वम् । देववाताः । वागतिगन्धनयोः । अस्मात्कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृति स्वरत्वम् । पाहि । पा रक्षण इत्यस्य लोटि रूपम् । निघातः । अप्रयुच्छन् । युच्छ प्रमादे न ञ् स्वरः ॥ २ ॥

3.20.3
अग्ने॒ भूरी᳚णि॒ तव᳚ जातवेदो॒ देव᳚ स्वधावो॒॑मृत᳚स्य॒ नाम᳚ ।
याश्च᳚ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं᳚द॒धुः पृ᳚ष्टबन्धो ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । भूरी᳚णि । तव᳚ । जा॒त॒॑वे॒दः॒ । देव᳚ । स्व॒धा॒॑वः॒ । अ॒मृत᳚स्य । नाम᳚ ।
याः । च॒ । मा॒या । मा॒यिना᳚म् । वि॒श्व॒म्॑इ॒न्व॒ । त्वे इति᳚ । पू॒र्वीः । स॒म्॑द॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति᳚ पृष्ट॑बन्धो ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवद्योतमान जातवेदो जातप्रज्ञ स्वधावोन्नवह्ने अग्नेऽमृतस्य मरणधर्मरहितस्य तव सम्बन्धिनो देवा भूरीणि बहूनि नाम नामानि तेजांसि त्वे त्वयि सन्दधुः । संदधिरे । किञ्च । विश्वमिन्व विश्वस्य सन्तर्पक पृष्टबन्धो अपेक्षितफलप्रश्नविषयाणां स्तोतॄणां बन्धो हे अग्ने मायिनामसुराणां पूर्वीर्भूयसीर्यामाया देवास्त्व्यि सम्दधुः सम्प्रयुयुजिरे तास्त्वयि सन्ति । तस्माद्यज्ञविघ्नकारिणां मायिनां मायाः परिहृत्यास्मदीयं यज्ञं पालयेति भावः ॥ स्वधावः । स्वधास्यास्तीति मतुप् । मतुवसो रुरिति नकारस्य रुः । अमृतस्य । नङो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । नाम णम प्रह्वत्वे । नमन् सीमन् व्योमन्नित्यादिना मनिन्प्रत्ययांतत्वेन निपातनात्मकारलोपो दीर्घश्च । निमयन्ति सर्वानपि स्वाश्रयभूतान्पुरुषानिति नामानि तेजांसि । सुपां सुलुगिति सुपो लुक् । नित्त्वादाद्युदात्तः । मायिनाम् । माया एषां सन्तीति व्रीह्यादित्वादिनिः । यस्येति लोपः । प्रत्ययस्वरः । विशमिन्व । इवि व्याप्तिप्रीणनयोरित्यस्माद्विश्वशब्द उपपदे कर्मण्यण्णित्यण्प्रत्ययः । धातूपदेशावस्थायामिदितो नुमिति नुमि प्राप्ते लघूपधगुणो नभवति । विश्वमिन्वति प्रीणयतीति विश्वमिन्वः । तत्पुरुषे कृ्ति बहुलमिति द्वितीयाया अलुक् । आमन्त्रितत्वान्निघातः । सन्दधुः । डुधाञ् धारणपोषणयोरित्यस्य लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पृष्टबन्धो । प्रच्छ ज्ञीप्सायामित्यस्य कर्मणि निष्ठायां ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । व्रश्चादिना षत्वम् । बन्ध बन्धन इत्यस्मात् शॄस्वृस्निहीत्यादिना उप्रत्ययः । षश्ठीसमासः । आमन्त्रितत्वान्निघातः ॥ ३ ॥

3.20.4
अ॒ग्निर्ने॒ता भग᳚ इव क्षिती॒नां दैवी᳚नां दे॒व ऋ᳚तु॒पा ऋ॒तावा᳚ ।
स वृ᳚त्र॒हा स॒नयो᳚ वि॒श्ववे᳚दा॒ः पर्ष॒द्विश्वाति᳚ दुरि॒ता गृ॒णन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ने॒ता । भगः᳚॑इव । क्षि॒ती॒नाम् । दैवी᳚नाम् । दे॒वः । ऋ॒तु॒॑पाः । ऋ॒त॑वा᳚ ।
सः । वृ॒त्र॒॑हा । स॒नयः᳚ । वि॒श्व॑वे᳚दाः । पर्ष᳚त् । विश्वा᳚ । अति᳚ । दुः॒॑इ॒ता । गृ॒णन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमग्निः क्षितीनां मनुष्याणां दैवीनां देवसम्बन्धिनीनां विशां नेतान्तर्यामितया नियामकः । तत्र दृष्टान्तः । ऋतुपा भग इव । यथा वसन्ताद्यृतूनां पालकः सूर्यः सर्वस्य स्वप्रकाशप्रदानेन प्रवर्तकः । तद्वत् । यश्चाग्निरृतावासत्यकर्मावृत्रहावृत्रस्य हन्ता सनयः सनातनः पुराणो विश्ववेदाः सर्वविषयज्ञानवान्सर्वज्ञो देवो द्योतमानः स तथाविधोऽग्निर्गृणन्ततं तद्विषयां स्तुतिं कुर्वन्तं स्तोतारां विश्वा दुरिता सर्वाणि दुरितान्यति अतिक्रम्य पर्षत् । पारं नयतु ॥ नेता णीञ् प्रापण इत्यस्य तृचिरूपम् । चित्स्वरः । क्षितीनाम् । क्षि निवासगत्योः । क्तिच् क्तौच संज्ञायामिति क्तिच् । नामनृतरस्यामित्यन्तोदात्तत्वम् । दैवीनाम् । देवशब्दात्सम्बन्धार्थे देवाद्यञञावित्यञ् । अञुटिड्भाणइति ङीप् । ञित्त्वादाद्युदात्तः । ऋतुपाः । पा रक्षण इत्यस्मादन्येभ्योऽपि दृश्यन्त इति विच् । ऋतून्पातीत्युपपदमतिङ् । पा. २-२-९ । इति समासः । कृदुत्तरपदप्रकृतिस्वरः । वृत्रहा । हन हिंसागत्योः । ब्रह्मभ्रूणवृत्रेषुक्विबिति क्विप् । विश्ववेवाः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्व पदान्तोदात्तत्वम् । वर्षत् । पृ पालनपूरणयोरित्यस्य लेटि सिब्बहुलमिति सिप् । अडागमः । इतश्च लोपः इतीकारलोपः । पादादित्वादनिघातः । गृणंतम् । गॄ शब्दे । लटः शतृ । क्र्यादित्वात् श्ना । शत्रन्तत्वात् श्नाभ्यस्तायोरात इत्याकारलोपः । शतृप्रत्ययस्वरः ॥ ४ ॥

3.20.5 समानपद
द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीं बृह॒स्पतिं᳚ सवि॒तारं᳚ च दे॒वम् ।
अ॒श्विना᳚ मि॒त्रावरु᳚णा॒ भगं᳚ च॒ वसू᳚न्रु॒द्रा{4} आ᳚दि॒त्या{4} इ॒ह हु᳚वे ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राम् । अ॒ग्निम् । उ॒षस᳚म् । च॒ । दे॒वीम् । बृह॒स्पति᳚म् । स॒वि॒तार᳚म् । च॒ । दे॒वम् ।
अ॒श्विना᳚ । मि॒त्रावरु᳚णा । भग᳚म् । च॒ । वसू᳚न् । रु॒द्रान् । आ॒दि॒त्यान् । इ॒ह । हु॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दधिक्रावादयः सर्वे देवा होताहं दधिक्रां दधिक्रावाणमग्निमुषसं च देवीमुषोऽभिमानिनीं देवतां च बृहस्पतिं देवं द्योतमानं सवितारं सर्वस्य जगतः प्रेरकं देवं च अश्विना अश्विनौ देवौ मित्रावरुणौ भगं सूर्यं च वसूनष्टौ वसून् रुद्रानेकादश रुद्रान् आदित्यान् द्वादशादित्यान् एतान्सर्वान् हविर्भुजो युष्मानिहास्मदीये कर्मणि हुवे । हविःस्वीकरणार्थमाह्वयामि ॥ दधिक्राम् । दधातीति दधिः । आदृगमहनेत्यादिना किप्रत्ययः । दधीत्युपपदे क्रमेर्जनसनेत्यादिना विट् । विड्वनोरित्यात्वम् । देवीम् । देवस्य पत्नी देवी । पुंयोगादाख्यामिति ञीष् । यस्येति लोपः । प्रत्ययस्वरेणान्तोदात्तः । बृहस्पतिम् । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्चेति पतिशब्दे परतो बृहच्छब्दस्य तलोपः सुडागमश्च । उभे वनस्पत्यादिषु युगपदित्युभयपदाद्युदात्तत्वं सवितारम् । षू प्रेरण इत्यस्य तृचि अर्धधातुकस्येड्वलादेरितीडागमः । चित्वादन्तोदात्तत्वम् । रुद्रा आदित्या इत्यत्र संहितायां शसो नकारस्य दीर्घादटि समानपाद इति रुत्वम् । ततः पूर्वस्यावर्णस्य आतोऽटि नित्यमित्यनुनासिकत्वम् । भो भगो अघो अपुर्वस्य योऽशीति रोर्यादेशः । लोपः शाकल्यस्येति तस्य लोपः । यलोपस्यासिद्धत्वात् स्वरसन्धिर्न भवति । अतो रुद्रा आदित्या इति भवति । एवमेकस्मिन्पाद आकारादटि परतो नकारस्य रुत्वयत्वपूर्वसवर्णानुनासिकादेशा उन्नेयाः । हुवे । ह्वयतेर्लटि बहुलं छन्दसीति सम्प्रसारणम् । इटष्टित आत्मनेपदानामित्येत्वम् । उवङादेशः । निघातः ॥ ५ ॥