तृतीयं मण्डलम् - सूक्तम् 53

24 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रापर्वतौ छन्दः: त्रिष्टुप्

सूक्तम् 3.53 - सम्पूर्णम्

1 / 24
ऋक्: 3.53.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (24)
3.53.1 समानपद
इन्द्रा᳚पर्वता बृह॒ता रथे᳚न वा॒मीरिष॒ आ व᳚हतं सु॒वीरा᳚ः ।
वी॒तं ह॒व्यान्य᳚ध्व॒रेषु᳚ देवा॒ वर्धे᳚थां गी॒र्भिरिळ᳚या॒ मद᳚न्ता ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚पर्वता । बृ॒ह॒ता । रथे᳚न । वा॒मीः । इषः᳚ । आ । व॒ह॒त॒म् । सु॒॑वीराः᳚ ।
वी॒तम् । ह॒व्यानि᳚ । अ॒ध्व॒रेषु᳚ । दे॒वा॒ । वर्धे᳚थाम् । गीः॒॑भिः । इळ᳚या । मद᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रापर्वता इन्द्रश्च पर्वतश्च । हे इन्द्रापर्वतौ बृहता रथेनागत्य वामीर्वननीयाः सुवीराः शोभनपुत्रोपेता इषोऽन्नान्या वहतम् । अस्मदर्थं धारयतम् । प्रयच्छतमित्यर्थः । किञ्च हे देवौ द्योतमानावध्वरेष्वस्मत्सम्बन्धिषु यज्ञेषु हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि वीतम् । भक्षयतम् । तथेळयास्मभिर्दत्तेन हविषा मदन्ता हृष्यन्तौ युवां गीर्भिः स्तुतिलक्षणाभिरस्मदीयाभिर्वाग्भिर्वर्धेथाम् । समृद्धौ भवतम् । इन्द्रापर्वता । आमन्त्रितस्य पादादित्वात्षाष्ठि कमाद्युदात्तत्वम् । सुवीराः । बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । वीतम् । वीकान्त्यादिष्वित्यस्य लोट्यदादित्वाच्छपो लुक् । प्रत्य्त्यस्वरः । वर्धेथाम् । वृधु वृद्धावित्यस्य लोट्याथामो लसार्वधातुकस्वरे चातुकस्वरः ॥ १ ॥

3.53.2
तिष्ठा॒ सु कं᳚ मघव॒न्मा परा᳚ गा॒ः सोम᳚स्य॒ नु त्वा॒ सुषु᳚तस्य यक्षि ।
पि॒तुर्न पु॒त्रः सिच॒मा र᳚भे त॒ इन्द्र॒ स्वादि᳚ष्ठया गि॒रा श᳚चीवः ॥
▶ पदपाठः (Word-by-word)
तिष्ठ᳚ । सु । क॒म् । म॒घ॒॑व॒न् । मा । परा᳚ । गाः॒ । सोम᳚स्य । नु । त्वा॒ । सु॑सु᳚तस्य । य॒क्षि॒ ।
पि॒तुः । न । पु॒त्रः । सिच᳚म् । आ । र॒भे॒ । ते॒ । इन्द्र᳚ । स्वादि᳚ष्ठया । गि॒रा । श॒ची॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहर्गणेश्वन्त्यवर्जितेष्वहःसु हारियोजनस्य तिष्ठा सु कमित्यनुवाक्या सूत्रितं च । तिष्ठा सु कं मघवन्मापरा गा अयं यज्ञो देवया आयं मियेधः । आ. ६-११ । इति ॥

हे मघवन्धनवन्निन्द्र कं सुखेनास्मिन्यज्ञे सु तिष्ठ । सुष्ठु किञ्चित्कालमततिष्ठ । मा पारा गाः । अस्मदीयाद्यज्ञान्मा गच्छ । तत्र कारणमाह । सुषुतस्य सुष्ठ्वभिषुतेन सोमस्य सोमेन नु क्षिप्रं त्वां यक्षि । यजे । हे शिचीवः शक्तिमन्निन्द्र ते तव सिचं वस्त्रप्रान्तं स्वादिष्ठया स्वादुतरया स्तुतिलक्षनया तिरा आ रभे । अलभे । गृह्णामीत्यर्थः । तत्र दृष्टान्तः । पितुर्न । यथा पुत्रो मधुरया वाचा पितुर्जनकस्य चेलांचलं गृह्णाति तद्वत् ॥ सु कमिति निपातद्वयम् । प्रथमस्य निपाता आद्युदात्ता इत्याद्युदात्तत्वम् । द्वितीयस्य चादयोऽनुदात्ता इत्यनुदात्तत्वम् । सोमस्य यक्षि । यज देवपूजासङ्गतिकरणदानेषु । स्वरितञित इत्यात्मनेपदम् । तस्य लुङि सिच्येकाच इतीट् प्रतिषेधः । व्रश्चादिना षत्वम् । षधोः कः सीति कत्वम् । सिचः सकारस्य षत्वम् । निघातः । रभे । डुलभष् प्राप्तौ । लुट्युत्तम इटि रूपम् । रलयोरभेदः । निघातः । स्वादिष्ठया । स्वादुशब्दादिष्ठनि रूपम् । नित्त्वादाद्युदात्तः ॥ २ ॥

3.53.3
शंसा᳚वाध्वर्यो॒ प्रति᳚ मे गृणी॒हीन्द्रा᳚य॒ वाहः᳚ कृणवाव॒ जुष्ट᳚म् ।
एदं ब॒र्हिर्यज᳚मानस्य सी॒दाथा᳚ च भूदु॒क्थमिन्द्रा᳚य श॒स्तम् ॥
▶ पदपाठः (Word-by-word)
शंसा᳚व । अ॒ध्व॒र्यो॒ इति᳚ । प्रति᳚ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा᳚य । वाहः᳚ । कृ॒ण॒वा॒व॒ । जुष्ट᳚म् ।
आ । इ॒दम् । ब॒र्हिः । यज᳚मानस्य । सी॒द॒ । अथ᳚ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा᳚य । श॒स्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शंसिष्यन् होताध्वर्युं ब्रूते । हे अध्वर्यो आवां शंसाव । होतस्त्वमेव शंससि । कथमहं शंसानि । अत आह । प्रति मे गृणीहीति । त्वं मे प्रतिगृणीहि । ओथामोदैवेत्यादिको होतुरुत्साहजननः प्रतिगरः । आ. ७-११ । तं दत्स्व । तथेन्द्राय जुष्टं प्रीतियुक्तं वाहः स्तोत्रं कृणवाव । त्वं यजमानस्येदं बर्हिरस्मिन्बर्हिष्या सीद । उपविश । अथ चानन्तरमिन्द्रायेन्द्रार्थमावाभ्यां क्रियमाणमुक्थं शस्त्रं शस्तं प्रशस्तं भूत् । भवतु । शंसाव । शन्सु स्तुतावित्यस्य लोट्युत्तमद्विवचने रूपम् । आडुत्तमस्येत्याडगमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः मे । अनुप्रतिगृणश्च । पा. १-४-४१ । इति सम्प्रदान संज्ञा । जुष्टम् । नित्यं मन्त्र इत्याद्युदात्तत्वं ॥ ३ ॥

3.53.4
जा॒येदस्तं᳚ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा᳚ यु॒क्ता हर᳚यो वहन्तु ।
य॒दा क॒दा च᳚ सु॒नवा᳚म॒ सोम᳚म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न्वा॒त्यच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
जा॒या । इत् । अस्त᳚म् । म॒घ॒॑व॒न् । सा । इत् । ऊं॒ इति᳚ । योनिः᳚ । तत् । इत् । त्वा॒ । यु॒क्ताः । हर᳚यः । व॒ह॒न्तु॒ ।
य॒दा । क॒दा । च॒ । सु॒नवा᳚म । सोम᳚म् । अ॒ग्निः । त्वा॒ । दू॒तः । ध॒न्वा॒ति॒ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन्निन्द्र अस्तम् । अस्यन्ते क्षिप्यन्ते पदार्था आत्रेत्यस्तं गृहम् । जायेज्जायैव गृहं भवति । न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यत इति स्मृतेः । तथा सेत् सा जायैव योनिः पुरुषस्य मिश्रणस्थानम् । उ प्रसिद्ध्यर्थः । तस्मात्तदित् तत्र गृह एव युक्ता रथे योजिता हरयोऽश्वास्त्वा त्वां वहन्तु । वयं तु यदा कदा च त्वदर्थं सोमं सुनवाम अभिषुतं करवाम तदास्माभिः प्रहितो दूतोऽग्निस्त्वा त्वामच्छाभिमुख्येन धन्वाति । गच्छेत् । अस्तम् । असु क्षेपणे । असिहसिमृग्रिण्वामित्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । सुनावाम । षुञ् अभिषव इत्यस्य लोटि रूपम् । यद्वृत्तयोगादनिघातः । त्वा । युष्मत्तत्ततक्शुः ष्वन्तः पादमिति संहितायां षत्वम् । धन्वाति । धवि गत्यर्थः । लेट्याडागमे रूपम् । निघातः ॥ ४ ॥

3.53.5
परा᳚ याहि मघव॒न्ना च᳚ या॒हीन्द्र᳚ भ्रातरुभ॒यत्रा᳚ ते॒ अर्थ᳚म् ।
यत्रा॒ रथ᳚स्य बृह॒तो नि॒धानं᳚ वि॒मोच᳚नं वा॒जिनो॒ रास᳚भस्य ॥
▶ पदपाठः (Word-by-word)
परा᳚ । या॒हि॒ । म॒घ॒॑व॒न् । आ । च॒ । या॒हि॒ । इन्द्र᳚ । भ्रा॒तः॒ । उ॒भ॒यत्र᳚ । ते॒ । अर्थ᳚म् ।
यत्र᳚ । रथ᳚स्य । बृ॒ह॒तः । नि॒॑धान᳚म् । वि॒॑मोच᳚नम् । वा॒जिनः᳚ । रास᳚भस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहर्गणेऽन्त्यवर्जितेष्वहःसु हारियोजनस्य वैकल्पिकी परा याहीत्यनुवाक्या । परा याहि मघवन्नाच याहीति वानुवाक्येति सूत्रितम् । आ. ६-११ ।

हे मघवन्धनवन्निन्द्र त्वं परा याहि । अस्माद्धेवयजनात्पराङ्मुखो गृहं प्रति गच्छ । अथवा देवयजनं प्रत्यायाहि । हे भ्रातः पोषकोभयात्रापि ते तवार्थं अर्यते प्राप्यत इत्यर्थः प्रयोजनम् । अस्ति तत्र जायात्र सोमः । प्रयोजनान्तरमाह । यत्र गृहं प्रति गमने बृहतो महतो रथस्योपरि निधानमवस्थानं प्रयोजनम् । अत्र स्थितौ रासभस्य हेषारवं कुर्वतो वाजिनोऽश्वस्य रथाद्विमोचनं प्रयोजनम् । अर्थम् । ऋ गतौ । उषिकुशिगार्तिभ्यस्थिन्निति थन् । नित्स्वरः । निधानम् । दधातेर्भावे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । रासभस्य । रासृ शब्दे । रासिवल्लिभ्यां च । उ. ३-१२५ । इति कर्तर्यभच् प्रत्ययः । ग्रामादित्वादाद्युदात्तः ॥ ५ ॥

3.53.6
अपा॒ः सोम॒मस्त᳚मिन्द्र॒ प्र या᳚हि कल्या॒णीर्जा॒या सु॒रणं᳚ गृ॒हे ते᳚ ।
यत्रा॒ रथ᳚स्य बृह॒तो नि॒धानं᳚ वि॒मोच᳚नं वा॒जिनो॒ दक्षि᳚णावत् ॥
▶ पदपाठः (Word-by-word)
अपाः᳚ । सोम᳚म् । अस्त᳚म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒॑रण᳚म् । गृ॒हे । ते॒ ।
यत्र᳚ । रथ᳚स्य । बृ॒ह॒तः । नि॒॑धान᳚म् । वि॒॑मोच᳚नम् । वा॒जिनः᳚ । दक्षि᳚णा॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सोममपाः । अत्रैव स्थित्वा सोमं पिब । पीत्वास्तं गृहं प्रयाहि । प्रकर्षेण गच्छ । ते तव गृहे कल्याणिर्मङ्गलकारिणी जाया शची विद्यते । सुरणं शोभनगीतादिध्वनिश्चास्ति । यद्वा । सुरणं सुरमणीयं यथा भवति तथा गृहे याया तिष्ठति । यत्रेत्यादि गतम् । दक्षिणावत् । अत्र स्थितौ सत्यां रथे योजितानां वाजिनां विमोचनं खादनपानदिना दक्षिणावत् प्रयोजनवद्भवति । विमुक्तेभ्यो वाजिभ्यो खादनं पानं चोपहरन्ति । अपाः । पा पाने । लुङि गातिस्थेति सिचो लुक् । अडागमस्वरः । कल्याणीः । कल्यानमस्यास्तिति मत्वर्थे छन्दसीवनिपाविति ई प्रत्ययः । प्रत्ययस्वरः । सुरणम् । रण शब्दार्थः । आस्माअदकृच्छ्रार्थे खल् । लित्स्वरः । प्रत्ययस्य पित्त्वादनुदात्त्वे धातुस्वरः । समासे कृदुत्तरपदस्वरः ॥ ६ ॥

3.53.7
इ॒मे भो॒जा अङ्गि᳚रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒ असु᳚रस्य वी॒राः ।
वि॒श्वामि᳚त्राय॒ दद᳚तो म॒घानि᳚ सहस्रसा॒वे प्र ति᳚रन्त॒ आयु᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒मे । भो॒जाः । अङ्गि᳚रसः । वि॑रू᳚पाः । दि॒वः । पु॒त्रासः᳚ । असु᳚रस्य । वी॒राः ।
वि॒श्वामि᳚त्राय । दद᳚तः । म॒घानि᳚ । स॒ह॒स्र॒॑सा॒वे । प्र । ति॒र॒न्ते॒ । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र इमे यागं कुर्वाणा भोजाः सौदासाः क्षत्रियाः तेषां यजका विरूपा नानारूपा मेधातिथिप्रभृतयोऽङ्गिरसश्च दिवोऽसुरस्य देवेभ्योऽपि बलवतो रुद्रस्य पुत्रासः पुत्रा वीरा बलवन्तो मरुतः ते सर्वे विश्वामित्राय मह्यं सहस्रसावे । सहस्रं सूयतेऽत्रेति सहस्रसावोऽश्वमेधः । तस्मिन्नश्वमेधे मघानिमहनीयानि धनानि ददतः प्रयच्छन्तः सन्त आयुर्जीवनमन्नं वा प्र तिरन्ते । प्रकर्षेण वर्धयन्ति । दिवस्पुत्रास इति संहितायां षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । ददतः । डुदाञ् दान इत्यस्य शतरि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तिरन्ते । तरतेर्व्यत्ययेन शः ॥ ७ ॥

3.53.8
रू॒पंरू᳚पं म॒घवा᳚ बोभवीति मा॒याः कृ᳚ण्वा॒नस्त॒न्वं१॒᳚ परि॒ स्वाम् ।
त्रिर्यद्दि॒वः परि᳚ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ᳚तुपा ऋ॒तावा᳚ ॥
▶ पदपाठः (Word-by-word)
रू॒पम्॑रू᳚पम् । म॒घ॑वा᳚ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व᳚म् । परि᳚ । स्वाम् ।
त्रिः । यत् । दि॒वः । परि᳚ । मु॒हू॒र्तम् । आ । अगा᳚त् । स्वैः । मन्त्रैः᳚ । अनृ᳚तु॑पाः । ऋ॒त॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघवा धनवानिन्द्रो रूपरूपं यद्यद्रूपं कामयते तत्तद्रूपं बोभवीति । भृशं प्राप्नोति तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते । माया अनेकरूपग्रहणसामर्थ्योपेताः कृण्वानः कुर्वाणः स्वां तन्वं स्वकीयां तनूं परि । पञ्चम्यर्थे । स्वस्माच्छरीरान्नानाविधानि शरीराणि निर्मिमिते । यद्वा । स्वां तनूं नानाविधरूपोपेतां करोति । तथा च मन्त्रवर्नः । इन्द्रो मायाभिः पुरुरूपः । ऋग्वे. ६-४७-१८ । इति । यद्यस्मात्स्वैर्मन्त्रैः स्वकीयैः स्तुतिलक्षणैर्वाक्यैराहूतोऽनृतपाः । न केवलमृतुष्वेव पैब्ति किन्त्वनृतुष्वपि । बहुशः सोमं पिबन्नित्यर्थः । ऋतावा सत्यवान् तादृश इन्द्रो दिवः स्वर्गलोकात्परि मुहूर्तमेकस्मिन्नेव मुहूर्ते नानदेशवर्तिषु यज्ञेषु तत्रापि त्रिः त्रिषु सवनेष्वागात् । आगच्छति । बोभविति । भवेतेर्यञ्लुकि तिपि यङो वेतीडागमः । निघातः । अगात् । इणो लुङि रुपम् । यद्वृत्तयोगादनिघातः । ॥ ८ ॥

3.53.9
म॒हा{4} ऋषि᳚र्देव॒जा दे॒वजू॒तो॑स्त᳚भ्ना॒त्सिन्धु᳚मर्ण॒वं नृ॒चक्षा᳚ः ।
वि॒श्वामि᳚त्रो॒ यदव᳚हत्सु॒दास॒मप्रि᳚यायत कुशि॒केभि॒रिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
म॒हान् । ऋषिः᳚ । दे॒व॒॑जाः । दे॒व॑जू᳚तः । अस्त᳚भ्नात् । सिन्धु᳚म् । अ॒र्ण॒वम् । नृ॒॑चक्षाः᳚ ।
वि॒श्वामि᳚त्रः । यत् । अव᳚हत् । सु॒॑दास᳚म् । अप्रि᳚यायत । कु॒शि॒केभिः᳚ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महान् तपसातिशयितसामर्थ्यवानृषिरतीरिन्द्रियार्थद्रष्टा देवजा द्योतमानां तेजसां जनयिता देवजूतस्तैस्तेजोभिराकृष्टो नृचक्षा नृणां कर्मनेतॄणामध्वर्य्वादीनामुपद्रष्टा स विश्वामित्रोऽर्णवमुदकवन्तं सिन्धुं विपाट् च्छुतुद्र्योः सम्भेदमस्तभ्नात् । निरुद्धवेगमकरोत् । किञ्च स विश्वामित्रः सुदासं पैजवनं राजानं यद्यदाहवत् अयाजयत् तदानीमिन्द्रः कुशिकेभिः कुशिकगोत्रोत्पन्नैरृषिभिः सहाप्रियायत । प्रिय इवाचरत् । अवहत् । वह प्रपण इत्यस्य लङि रूपम् । यद्योगादनिघातः । अप्रियायत । अप्रिय इवाचरतीत्यर्थे कर्तुः क्यङ् सलोपश्चेति क्यङ् । तदन्ताल्लङि रूपम् । पादादित्वाद निघातः ॥ ९ ॥

3.53.10 समानपद
हं॒सा इ᳚व कृणुथ॒ श्लोक॒मद्रि᳚भि॒र्मद᳚न्तो गी॒र्भिर᳚ध्व॒रे सु॒ते सचा᳚ ।
दे॒वेभि᳚र्विप्रा ऋषयो नृचक्षसो॒ वि पि᳚बध्वं कुशिकाः सो॒म्यं मधु᳚ ॥
▶ पदपाठः (Word-by-word)
हं॒साः॑इ᳚व । कृ॒णु॒थ॒ । श्लोक᳚म् । अद्रि᳚॑भिः । मद᳚न्तः । गीः॒॑भिः । अ॒ध्व॒रे । सु॒ते । सचा᳚ ।
दे॒वेभिः᳚ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒॑च॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विप्रा मेधाविनो हे ऋषयोऽतीन्द्रियार्थस्य द्रष्टारो हे नृचक्षसो नृणां कर्मनेतॄणां विशेषेण द्रष्टारो हे कुशिकाः कुशिकगोत्रोत्पन्ना हे पुत्रा अध्वरे यज्ञेऽद्रिभिर्ग्रावभिः सोमेसुतेऽभिषुते सति गीर्भिर्मदन्तः स्तुतिभिर्देवान्मादयन्तो यूयं श्लोकम् । श्लोक्यते शस्यतेऽनेनेति श्लोकः शस्त्रम् । कृणुथ । सम्यगुच्चारयत । तत्र दृष्टान्तः । हंस इव । यथा हंसाः सम्यक् शब्दं कुर्वन्ति तद्वत् । किञ्च देवेभिः सचा यष्टव्यदेवैः सहिता यूयं सोम्यं सोममयं मधु मधुकरं रसं वि पिबध्वम् । परस्परव्यतिहारेण पिबत । श्लोकम् । श्लोकृ शब्दे । करणे घञ् । ञ्त्त्वादाद्युदात्तः । मदन्तः । मदी हर्ष इत्यस्यान्तर्भावितण्यर्थस्य व्यत्ययेन शप् । पिबध्वं पा पाने । कर्तरि कर्मव्यतिहार इत्यात्मनेपदम् । सोम्यं सोमशब्दान्मये चेति यप्रत्ययः ॥ १० ॥

3.53.11
उप॒ प्रेत᳚ कुशिकाश्चे॒तय᳚ध्व॒मश्वं᳚ रा॒ये प्र मु᳚ञ्चता सु॒दासः᳚ ।
राजा᳚ वृ॒त्रं ज᳚ङ्घन॒त्प्रागपा॒गुद॒गथा᳚ यजाते॒ वर॒ आ पृ᳚थि॒व्याः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय᳚ध्वम् । अश्व᳚म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒॑दासः᳚ ।
राजा᳚ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा᳚क् । उद᳚क् । अथ᳚ । य॒जा॒ते॒ । वरे᳚ । आ । पृ॒थि॒व्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कुशिकाः कुशिकगोत्रोत्पन्न हे पुत्रा उप प्रेत । अश्वस्य समीपे प्रकर्षेण गच्छत । तत्र गत्वा चेतयध्वम् । सावधाना भवत । यद्वा । अश्वरक्षिणः सावधानान् कुरुत । सुदासः पैजवनस्य राज्ञोऽश्वं राये तस्य दिग्विजयेन धनलाभाय प्रमुञ्चत । राजा देवानां स्वामीन्द्रो वृत्रं कर्मविघ्नकारिणमसुरं प्रगपागुदक् पूर्वपश्चिमोत्तरेषु देशेषु सङ्घनत् । भृशं हतवान् । तस्मादश्वं विमुञ्चतेति भावः । अथानन्तरं पृथिव्या वर उत्तमे देवयजनदेशे यजाते । स राजा यजेत । चेत्ययध्वम् । चेती संज्ञान इत्यस्य ण्यन्तस्य लोटि रूपम् । आमन्त्रितस्या विद्यमानवत्त्वेन तिङ उत्तरत्वान्न निघातः । जङ्घनत् । हन हिंसागत्योरित्यस्य यङ् लुकि नुगतोऽनुनासिकान्तस्येत्यभ्यासस्य नुगागमः । तदंताल्लेट्यडागमः । प्राक् । अञ्चतेः क्विनि रूपम् । अनिगन्तोऽञ्चतावप्रत्यय इति गतेः स्वरः । यजाते । यजतेर्लेट्याडागमः । निघातः । वरे । वृञ् वरण इत्यस्मात् ग्रहवृदृनिश्चिगमश्चेत्यप्प्रत्ययः । तस्य पित्त्वदनुदात्तत्वे धातुस्वरः ॥ ११ ॥

3.53.12
य इ॒मे रोद᳚सी उ॒भे अ॒हमिन्द्र॒मतु᳚ष्टवम् ।
वि॒श्वामि᳚त्रस्य रक्षति॒ ब्रह्मे॒दं भार᳚तं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । इ॒मे इति᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । अ॒हम् । इन्द्र᳚म् । अतु᳚स्तवम् ।
वि॒श्वामि᳚त्रस्य । र॒क्ष॒ति॒ । ब्रह्म᳚ । इ॒दम् । भार᳚तम् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कुशिकाः कुशिकपुत्रा योऽहं विश्वामित्र उभे इमे रोदसी द्यावापृथिव्याविन्द्रमतुष्टवं स्तावयामि । द्यावापृथिवीभ्यामिन्द्रस्य स्तोत्रं मया कारितमित्यर्थः । यद्वा । उभयो रोदस्योरन्तरवस्थितमिन्द्रं स्त्ॐइ । स्तोत्रं कुर्वाणस्य विश्वामित्रस्य ममेदमिन्द्रविषयं ब्रह्मस्तोत्रं भारतं भरतकुलं जनं रक्षति । पालयति । अतुष्टवम् । ष्टुञ् स्तुतौ । ण्यन्तस्य लुङि चङि रूपम् । यद्वृत्तयोगादनिघातः । भारतम् । भरतशब्द उत्सादिः । ञित्त्वादाद्युदात्तः ॥ १२ ॥

3.53.13
वि॒श्वामि᳚त्रा अरासत॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ ।
कर॒दिन्न᳚ः सु॒राध᳚सः ॥
▶ पदपाठः (Word-by-word)
वि॒श्वामि᳚त्राः । अ॒रा॒स॒त॒ । ब्रह्म᳚ । इन्द्रा᳚य । व॒ज्रिणे᳚ ।
कर᳚त् । इत् । नः॒ । सु॒॑राध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रा वजिणे वज्रहस्तायेन्द्राय ब्रह्म स्तोत्रमरासत । अकुर्वन् । स्तुतः स इन्द्रो नोऽस्मान् सुराधसः शोभनधनोपेतान् करदित् । अकरोत्वेव ॥ अरासत । रासृ शब्द इत्यस्य लङि बहुलं छन्दसीति शओप् लुक् । निघातः । करत् । करोतेर्लुङि च्लेः कृमृदृरुहिभ्यश्छन्दसीत्यङादेशः । सुराधसः । आद्युदात्तद्व्यंच्छन्दसीत्युत्तरपदाद्युदात्तत्वं ॥ १३ ॥

3.53.14
किं ते᳚ कृण्वन्ति॒ कीक᳚टेषु॒ गावो॒ नाशिरं᳚ दु॒ह्रे न त᳚पन्ति घ॒र्मम् ।
आ नो᳚ भर॒ प्रम᳚गन्दस्य॒ वेदो᳚ नैचाशा॒खं म᳚घवन्रन्धया नः ॥
▶ पदपाठः (Word-by-word)
किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक᳚टेषु । गावः᳚ । न । आ॒॑शिर᳚म् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् ।
आ । नः॒ । भ॒र॒ । प्र॑म᳚गन्दस्य । वेदः᳚ । नै॒चा॒॑शा॒खम् । म॒घ॒॑व॒न् । र॒न्ध॒य॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र कीकटेश्वनार्यनिवासेषु जनपदेषु । यद्वा क्रियाभिर्यागदानहोमलक्षणाभिः किं फलिष्यतीत्यश्रद्दधानाः प्रत्युत पिबत खादतायमेव लोको न पर इति वदन्तो नास्तिका कीकटाः । तेषु गावस्ते तव किं कृण्वन्ति । किं कुर्वन्ती । न क्वचित्तवोपयोगं कुर्वन्तीत्यर्थः । अनुपयोगं दर्शयति आशिरं सोममिश्रणयोग्यं पयो न दुह्रे । न दुहन्ति । किञ्च घर्मं प्रवर्ग्याख्यकर्मोपयुक्तं महावीरपात्रं स्वपयः प्रदानद्वारेण न तपन्ति । न दीपयन्ति । एतेन सांनाय्याद्यर्थमपि नोपयुज्यन्त इत्यपि सूचितं भवति । एवं क्वचिदसि वैदिके कर्मण्यनुपयुक्तास्ता गा नोऽस्मभ्यमा भर । आहर । न केवलं ता एवं किं तर्हि प्रमगंदस । द्वैगुण्यादिलक्षणपरिमाणं गतोऽर्थो मामेव गमिष्यतिति बुद्ध्यापरेषां ददातिति मगन्दो वार्धुषिक । तस्यापत्यं पुत्रादिः प्रमगन्द प्रस्कण्वादिवदपत्यार्थ प्रशब्देन द्योत्यते । तस्यात्यन्तकुसीदि कुलस्य वेदो धनमाहर । किञ्च हे मघवन्धनवन्निन्द्र नैचाशाखम् । नीचासु शुद्रयोनिषूत्रादिता शाखा पुत्रपौत्रादिपरंपरायेन स नीचाशाखः । शूद्रापत्यैश्च केवलैः शूद्रवेदी पतत्यध इति च पातकहेतुत्वेन स्मरणात् । पतितस्य संबन्धि धनं नैचाशाख । तद्धनं नोऽस्मभ्यं रुधय साधय । एतेषां तद्धनं तव नोपयुज्यते अस्मदायत्तं तु तद्धनं यागादिद्वारा तवोपयुज्यते । तस्मात्तदस्मभ्यं प्रयच्छेति भावः । एतमर्थं यास्कोऽप्याह । किं ते कुर्वन्ति कीकटेषु गावः । किखटो नाम देशोऽनार्यनिवासः । कीकटाः किंकृताः किं क्रियाभिरितिप्रेप्सा वा । नैव चाशिरं दुह्रे न तपन्ति घर्मं घरणम् । आ हर नः प्रमगन्दस्य धनानि । मगन्दः कुसीदी माङ्गदो मामागमिष्यतीति च ददाति । तदपत्यं प्रमगन्दोऽत्यन्तकुसीदिकुलीनः । प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः । पण्डकः पण्डगः प्रार्दको वा प्रार्दयत्याण्डौ । आण्डावाणी इव व्रीडयति । तत्स्थं नैचाशाखम् । नीचाशाखो नीचैः शाखः । शाखाः शक्नोतेः । आणिररणात् । तन्नो मघवन्रन्धयेति रध्यतिर्वशगमने । नि. ६.३२ । इति । आशिरम् । आङ् पूर्वाच्छ्रीणातेः क्विप्य्त्पस्पृधेथामित्यादिना शिरित्यादेशः । दुह्रे । दुहेर्लिटीयो र इति रे आदेशः । द्विर्वचनस्यविकल्पितत्वात् द्विर्वचनाभावः । चादिलोपे विभाशेति न निघातः । नैचाशाखम् । तस्येदमित्यण् । प्रत्ययस्वरः । रन्धय । रधेर्ण्यन्तस्य रधिजभोरचीति नुमागमः ॥ १४ ॥

3.53.15
स॒स॒र्प॒रीरम᳚तिं॒ बाध᳚माना बृ॒हन्मि᳚माय ज॒मद᳚ग्निदत्ता ।
आ सूर्य᳚स्य दुहि॒ता त᳚तान॒ श्रवो᳚ दे॒वेष्व॒मृत᳚मजु॒र्यम् ॥
▶ पदपाठः (Word-by-word)
स॒स॒र्प॒रीः । अम᳚तिम् । बाध᳚माना । बृ॒हत् । मि॒मा॒य॒ । ज॒मद᳚ग्नि॑दत्ता ।
आ । सूर्य᳚स्य । दु॒हि॒ता । त॒ता॒न॒ । श्रवः᳚ । दे॒वेषु᳚ । अ॒मृत᳚म् । अ॒जु॒र्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससर्परीद्वृचे प्राहुरितिहासं पुराविदः । सौदासनृपयज्ञे वै वसिष्ठात्मजशक्तिना । विश्वामित्रस्याभिभूतं बलं वाक् च समन्ततः । वासिष्ठेनाभिभूतः स ह्यवासीदथ गाधिजः । तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचं ससर्परीम् । सूर्यवेश्मन आहृत्य दुदुर्वै जमदग्नयः । कुशिकानां मतिः सा वागमतिं तामपानुदत् ॥

जमदग्निदत्ता जमदग्निभिः प्रज्वलिताग्निभिरृषिभिरस्मभ्यं दत्तामतिमज्ञानं बाधमाना ससर्परीः सर्वत्र शब्दरूअतया सर्पणशीला वाक् बृहत्प्रभुतं यथा भवति तथा मिमाय । नभसि शब्दं करोति । सैषा सूर्यस्य दुहिता वाग्देवता देवेष्विन्द्रादिष्वजुर्यं क्षयरहितममृतममृतलक्षनं श्रवोऽन्नमा ततान । समन्तात्स्वाहाकारवाचं तनोति । जमदग्निदत्ता । दाण् दान इत्यस्यनिष्ठायां दो दद्घोरिति ददादेशः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अजुर्युम् । जॄ वयोहानौ । ऋहलोर्ण्यत् । बहुलं छन्दसीत्युत्वम् । नञ् सुभ्यामित्यन्तोदात्तत्वं ॥ १५ ॥

3.53.16
स॒स॒र्प॒रीर᳚भर॒त्तूय᳚मे॒भ्यो॑धि॒ श्रव॒ः पाञ्च᳚जन्यासु कृ॒ष्टिषु᳚ ।
सा प॒क्ष्या॒३॒᳚ नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ॥
▶ पदपाठः (Word-by-word)
स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय᳚म् । ए॒भ्यः॒ । अधि᳚ । श्रवः᳚ । पाञ्च᳚॑जन्यासु । कृ॒ष्टिषु᳚ ।
सा । प॒क्ष्या᳚ । नव्य᳚म् । आयुः᳚ । दधा᳚ना । याम् । मे॒ । प॒ल॒स्ति॒॑ज॒म॒द॒ग्नयः᳚ । द॒दुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससर्परीः सर्वत्र गद्यपद्यात्मकत्वेन सर्पणशीला वाग्देवता पाञ्चजन्यासु कृष्टिषु । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तत्संबन्धिनीषु प्रजासु यच्छ्रवोऽन्नं विद्यते तन्नोऽस्मभ्यमधि अधिकं यथा भवति तथा तूयं क्शिप्रमभरत् । भरतु । संपादयतु । पलस्तिजमदग्नयः पलस्तयः पलिता दीर्घायुषो जमदग्नयो मुनयो यां वाचं सूर्यादाहृत्य मे मह्यं द्द्दुरदधु पक्ष्या पक्शस्यपक्षादिनिर्वाहकस्य सुर्यस्य दुहिता सा वाक् नव्यं नवतरमायुरन्नं जीवनं वा दधाना मम कुर्वाणा भवतु ॥ पाञ्चजन्यासु । बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यमिति ञ्यप्रत्ययः । ञित्त्वादाद्युदात्तः । पक्ष्या । पक्षे भवा । दिगादित्वाद्यत् । तित्स्वरितः । नव्यम् । नवशब्दद्वस्वादित्वात्स्वार्थिको यत् । पलस्तिजमदग्नयः पलस्तयो जमदग्नयः । कर्मधारय समासः । समासस्वरः ॥ १६ ॥

3.53.17
स्थि॒रौ गावौ᳚ भवतां वी॒ळुरक्षो॒ मेषा वि व᳚र्हि॒ मा यु॒गं वि शा᳚रि ।
इन्द्र᳚ः पात॒ल्ये᳚ ददतां॒ शरी᳚तो॒ररि᳚ष्टनेमे अ॒भि नः᳚ सचस्व ॥
▶ पदपाठः (Word-by-word)
स्थि॒रौ । गावौ᳚ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः᳚ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ ।
इन्द्रः᳚ । पा॒त॒ल्ये॒३॒᳚ इति᳚ । द॒द॒ता॒म् । शरी᳚तोः । अरि᳚ष्ट॑नेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

राज्ञः सुदासो यज्ञेऽवभृथं कृत्वा यज्ञशालातो निर्गन्तुमिच्छन् रथेऽश्वादिकं युञ्चानो विश्वामित्रो रथाङ्गानि स्तौति । गावौ । गच्छत इति गवावश्वौ । स्थिरौ भवताम् । अक्षश्च वीळुर्दृढो भवतु । ईषा दण्डश्च मा वि वर्हि । व्यृद्धो मा भवतु । युगं चा मा वि शरि । विशीर्णं मा भवतु । इन्द्रः पातल्ये पतनशीले कीलके शरीतोर्विशरणात्प्राक् ददताम् । धारयतु । हे अरिष्टनिमे आहिंसितप्रधिविशिष्ट हे रथ नोऽस्मानभि आभिमुख्येन सचस्व । सङ्गतो भव । वि वर्हि । वृहि वृद्धौ । विपूर्वो वृहिर्विनाशे वर्तते । अस्मात्कर्मकर्तरि लुङि चिण् भावकर्मणोरिति चिण् । चिणो लुगिति त प्रत्ययस्य लुक् । निघातः । युगम् । युगशब्द उंछादिषु रथाद्युपकरणेऽर्थे घञन्तत्वेन नोपातनादगणत्वम् । तत्र पाठादन्तोदात्तत्वम् । शरि । शॄ हिंसायामित्यस्य लुङि रूपम् । अरिष्टनेमे । पादादित्वात् षाष्थिकमाद्युदात्तत्वं ॥ १७ ॥

3.53.18 समानपद
बलं᳚ धेहि त॒नूषु᳚ नो॒ बल᳚मिन्द्रान॒ळुत्सु᳚ नः ।
बलं᳚ तो॒काय॒ तन᳚याय जी॒वसे॒ त्वं हि ब᳚ल॒दा असि᳚ ॥
▶ पदपाठः (Word-by-word)
बल᳚म् । धे॒हि॒ । त॒नूषु᳚ । नः॒ । बल᳚म् । इ॒न्द्र॒ । अ॒न॒ळुत्॑सु᳚ । नः॒ ।
बल᳚म् । तो॒काय᳚ । तन᳚याय । जी॒वसे᳚ । त्वम् । हि । ब॒ल॒॑दाः । असि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोऽस्माकं तनूषु शरीरेषु बलं धेहि । नोऽस्मत्सम्बन्धिरथवाहेष्वनळुत्सु बलं धेहि । तोकाय पुत्राय तनयाय पौत्राय च जीवसे चिरं जीवनाय बलमायुर्विधेहि । एतादृशं दातृत्वं कुत इत्यत आह । त्वं बलदाः । बलं ददातीति बलदाः । असि हि । सर्वेशु लोकेषु प्रसिद्धोऽसि खलु । अनळुत्सु । वहप्रापणे । अनसि वहेः क्विबनसो डश्चेति क्विप् । अनसः सकारस्य डत्वम् । वहेर्यजादित्वात्संप्रसारणम् । वसुस्रंसुध्वंस्वनशुहां द इति हकारस्य दत्वम् । कृदुत्तरस्वरः । आसि । हियोगादनिघातः । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ १८ ॥

3.53.19
अ॒भि व्य᳚यस्व खदि॒रस्य॒ सार॒मोजो᳚ धेहि स्पन्द॒ने शिं॒शपा᳚याम् ।
अक्ष᳚ वीळो वीळित वी॒ळय᳚स्व॒ मा यामा᳚द॒स्मादव᳚ जीहिपो नः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । व्य॒य॒स्व॒ । ख॒दि॒रस्य᳚ । सार᳚म् । ओजः᳚ । धे॒हि॒ । स्प॒न्द॒ने । शिं॒शपा᳚याम् ।
अक्ष᳚ । वी॒ळो॒ इति᳚ । वी॒ळि॒त॒ । वी॒ळय᳚स्व । मा । यामा᳚त् । अ॒स्मात् । अव᳚ । जी॒हि॒पः॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र खदिरस्य सारम् । सारेण हि आणिः क्रियते । तं खदिरस्य सारभूतमाणिमभिव्ययस्व । अभितस्तत्तत्स्थानेषु दार्ढ्यार्थं निधेहि । स्पन्दने रथस्य गमने सति शिन्तपायां शिंशपाख्यदादुनिर्मिते रथस्य पलक ओजो धेहि । दार्ध्यं कुरु । हे ... दृढ वीळितास्माभिर्दृढीकृत हे आक्ष वीळयस्व । त्वं दृढो भव । यद्वास्मान् दृढी कुरु । यामाद्गच्छतोऽस्माद्रथान्नोऽस्मान् माव जीहिपः । मा पीपतः । .. दिरस्य । अजिरशिशिरेत्यादिना किरच् प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वीळित । वीळयतेर्ण्यन्तस्य निष्ठायामिडागमः । निष्ठायां सेटि । पा. ६-४-५२ । इति णेर्लुक् । वीळयस्व । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । यामात् । या प्रापण इत्यस्मादर्तिस्तुसुहुसृ इत्यादिना मन्प्रत्ययः । नित्त्वादाद्युदात्तः । जीहिपः । ओहाक् त्यागे । ण्यन्तस्य लुङि चङि रूपम् । अकारस्येकारश्छान्दसः ॥ १९ ॥

3.53.20
अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च᳚ रीरिषत् ।
स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच᳚नात् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒स्मान् । वन॒स्पतिः᳚ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् ।
स्व॒स्ति । आ । गृ॒हेभ्यः᳚ । आ । अ॒व॒सै । आ । वि॒॑मोच᳚नात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमान आत्मनः श्रेय आशास्ते । वनस्पतिर्वनस्पतिनिर्मितोऽयं रथो रथारूढानस्मान् मा च हाः । मात्याक्षीत् । किञ्च मा रीरिषत् । अस्मान् माविनाशयतु । किञ्चा गृहेभ्यः । यावद्गृहान् प्राप्नुयाम तावदस्मभ्यं स्वस्ति भवतु । तथावसै । पञ्च्म्यर्थे चतुर्थी । यावद्रथवेगावसानं तावत् । आ विमोचनात् । यावद्रथयोजिताश्वविमोचनं तावत् स्वस्ति भवतु । हाः । ओहाक् त्यागे । लुङि मन्त्रे घसेत्यादिना सिचो लुक् । पुरुषव्यत्ययः । चवायोगे प्रथमेति न निघातः । रीरिषत् । रिष हिंसायामित्यस्य ण्यन्तस्य लुङि चङि रूपम् । द्वितीयत्वान्निघातः । गृहेभ्यः । ग्रहेर्गेहे क इति कः । पञ्चम्यपाङ् परिभिरिति पञ्च्मी । अवस्यै । षोऽन्तकर्मणि । क्विप् । चतुर्थ्येकवचन आतो लोपाभावश्छान्दसः । वृद्धिः । एकादेशस्वरः ॥ २० ॥

3.53.21
इन्द्रो॒तिभि᳚र्बहु॒लाभि᳚र्नो अ॒द्य या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूर जिन्व ।
यो नो॒ द्वेष्ट्यध᳚र॒ः सस्प᳚दीष्ट॒ यमु᳚ द्वि॒ष्मस्तमु᳚ प्रा॒णो ज᳚हातु ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । ऊ॒ति॑भिः᳚ । ब॒हु॒लाभिः᳚ । नः॒ । अ॒द्य । या॒त्॑श्रे॒ष्ठाभिः᳚ । म॒घ॒॑व॒न् । शू॒र॒ । जि॒न्व॒ ।
यः । नः॒ । द्वेष्टि᳚ । अध᳚रः । सः । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति᳚ । द्वि॒ष्मः । तम् । ऊं॒ इति᳚ । प्रा॒णः । ज॒हा॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रोतिभिरित्याद्याश्चतस्रो वश्ष्ठद्वेषिण्यः । पुरा खलु विश्वमित्रशिष्यः सुदानाम राजर्षीरासीत् । स च केनचित्कारणेन वसिष्थद्वेष्योऽभूत् । विश्वामित्रस्तु शिष्यस्य रक्षार्थमाभिरृग्भिर्वसिष्ठमशपत् । इमा अभिशापरूपाः । ता ऋचो वसिष्ठा न शृण्वन्ति ॥

परस्य शापं करिष्यन् आदावात्मनो रक्षां कुरुते प्रथमेनार्धर्चेन । हे शूर शौर्यवन्पराभिभवशक्त हे मभवन्धनवन्निन्द्र अद्यास्मिनाले यात् । यातयतिर्वधकर्मा । यातयतीति यात् । सुपां सुलुगिति शपो लुक् । यातः शत्रून् हिंसतो नोऽस्मानूतिभिस्त्वदीयाभी रक्षाभिर्जिन्व । प्रीणय । कीदृशीभिः । बहुलाभिर्बह्वीभिः श्रेष्ठाभिः प्रशस्यतराभिः । अथ शपति । नोऽस्मान्यः शत्रुर्द्वेष्यो द्व्येष्ट्यस्मद्विषयामप्रीतिं करोति सोऽधरो निकृष्थः सन् पदीष्ट । पततु । वयं च यमुद्विष्मस्तमु तं द्वेष्यं प्राणो देहमध्ये वर्तमानः पञ्चवृत्तिर्वायुर्जहातु । परित्यजतु । उशब्दौ पूरकौ ॥ २१ ॥

3.53.22
प॒र॒शुं चि॒द्वि त᳚पति शिम्ब॒लं चि॒द्वि वृ᳚श्चति ।
उ॒खा चि᳚दिन्द्र॒ येष᳚न्ती॒ प्रय᳚स्ता॒ फेन᳚मस्यति ॥
▶ पदपाठः (Word-by-word)
प॒र॒शुम् । चि॒त् । वि । त॒प॒ति॒ । शि॒म्ब॒लम् । चि॒त् । वि । वृ॒श्च॒ति॒ ।
उ॒खा । चि॒त् । इ॒न्द्र॒ । येष᳚न्ती । प्र॑य᳚स्ता । फेन᳚म् । अ॒स्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परशुं चित् । चिच्छब्दः उपमार्थः । यथा परशुं कुठारं प्राप्य वृक्षो वितपति विशिष्टतापयुक्तो भवति । एवं मदीयो द्वेष्टा वितपतु । शिंबलं चित् शल्मलीकुसुमं यथानायासेन वि वृश्चति विच्छिद्यते । एवं स द्वेष्टा विवृश्चति । विच्छिन्नावयवो भवतु । प्रयस्ता प्रहता येषन्ती स्रवन्त्युखा चित् स्थालीव स द्वेष्टामदीयमन्त्रसामर्थ्येन प्रहतः सन् फेनमस्यति । फेनं मुखादुद्गिरतु ॥ २२ ॥

3.53.23
न साय᳚कस्य चिकिते जनासो लो॒धं न᳚यन्ति॒ पशु॒ मन्य᳚मानाः ।
नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग᳚र्द॒भं पु॒रो अश्वा᳚न्नयन्ति ॥
▶ पदपाठः (Word-by-word)
न । साय᳚कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु᳚ । मन्य᳚मानाः ।
न । अवा᳚जिनम् । वा॒जिना᳚ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा᳚त् । न॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा खलु तपसः क्षयो मा प्रापदिति शापन्निवृत्तं मौनिनं विश्वामित्रं वसिष्थपुरुषा बद्ध्वानीतवन्तः । तान्प्रति विश्वामित्रो ब्रूते । हे जनासो जनाः सायकस्यावसानकारिणो विश्वामित्रस्य मन्त्रगनसामर्थ्यं न चिकिते । भविद्भिर्न ज्ञायते । अत एवं लिधं लुब्धं तपसः क्षयो मा भूदिति लोभेन तूष्णीं स्थितमृषिं पशु मन्यमानाः । पशु इति निपातः पशुशब्दसमानार्थः । पशुवन्मन्यमाना एते नयन्ति । बद्ध्वा स्वकीयं देशं प्रापयन्ति । एवं स्वसामर्थ्यं प्रदर्श्य विसदृशो वसिष्ठो मया सह स्पर्धितुं नार्हतिति धिक्करोति । नावाजिनमिति । अवाजिनम् । वाचामिनो वाजिनः सर्वज्ञः । तद्विलक्षणं मूर्खजनं वाजिना वागीशान हासयन्ति हास्यास्पदं न कुर्वन्ति । तेन सह नस्पर्धन्त इत्यर्थः । तथा गर्दभं रासभमश्वात्पुरः पुरुस्तान्ननयन्ति । एवमेव विसदृशो वसिष्ठो न मया स्पर्धितुमीश्ट इत्यर्थः ॥ २३ ॥

3.53.24
इ॒म इ᳚न्द्र भर॒तस्य᳚ पु॒त्रा अ᳚पपि॒त्वं चि᳚कितु॒र्न प्र᳚पि॒त्वम् ।
हि॒न्वन्त्यश्व॒मर᳚णं॒ न नित्यं॒ ज्या᳚वाजं॒ परि᳚ णयन्त्या॒जौ ॥
▶ पदपाठः (Word-by-word)
इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य᳚ । पु॒त्राः । अ॒प॒॑पि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒॑पि॒त्वम् ।
हि॒न्वन्ति᳚ । अश्व᳚म् । अर᳚णम् । न । नित्य᳚म् । ज्या॒॑वाज᳚म् । परि᳚ । न॒य॒न्ति॒ । आ॒जौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र भरतस्य पुत्रा भरतवंश्या इमे विश्वामित्रा अपतित्वमपगमनं वसिष्ठेभ्यश्चिकितुः । जानन्ति । प्रपित्वं प्रगमनं न जानन्ति । शिष्थैः सह तेषां सङ्गतिर्नास्ति । ब्राह्मणा एव त इत्यर्थः । अपि चा जौ सङ्ग्रामे नित्यं सहजमरणं नारिमिव वसिष्थान्प्रत्यशं हिन्वन्ति । प्रेरयन्ति । ततश्च ज्यावाजं बलं धनुः परि णयन्ति । वसिष्थान्हन्तुं शरसन्धानेन चरन्ति ॥ २४ ॥