श्रवणम्

3.53.18 समानपद
बलं᳚ धेहि त॒नूषु᳚ नो॒ बल᳚मिन्द्रान॒ळुत्सु᳚ नः ।
बलं᳚ तो॒काय॒ तन᳚याय जी॒वसे॒ त्वं हि ब᳚ल॒दा असि᳚ ॥
▶ पदपाठः (Word-by-word)
बल᳚म् । धे॒हि॒ । त॒नूषु᳚ । नः॒ । बल᳚म् । इ॒न्द्र॒ । अ॒न॒ळुत्॑सु᳚ । नः॒ ।
बल᳚म् । तो॒काय᳚ । तन᳚याय । जी॒वसे᳚ । त्वम् । हि । ब॒ल॒॑दाः । असि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोऽस्माकं तनूषु शरीरेषु बलं धेहि । नोऽस्मत्सम्बन्धिरथवाहेष्वनळुत्सु बलं धेहि । तोकाय पुत्राय तनयाय पौत्राय च जीवसे चिरं जीवनाय बलमायुर्विधेहि । एतादृशं दातृत्वं कुत इत्यत आह । त्वं बलदाः । बलं ददातीति बलदाः । असि हि । सर्वेशु लोकेषु प्रसिद्धोऽसि खलु । अनळुत्सु । वहप्रापणे । अनसि वहेः क्विबनसो डश्चेति क्विप् । अनसः सकारस्य डत्वम् । वहेर्यजादित्वात्संप्रसारणम् । वसुस्रंसुध्वंस्वनशुहां द इति हकारस्य दत्वम् । कृदुत्तरस्वरः । आसि । हियोगादनिघातः । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ १८ ॥