श्रवणम्

3.53.23
न साय᳚कस्य चिकिते जनासो लो॒धं न᳚यन्ति॒ पशु॒ मन्य᳚मानाः ।
नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग᳚र्द॒भं पु॒रो अश्वा᳚न्नयन्ति ॥
▶ पदपाठः (Word-by-word)
न । साय᳚कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु᳚ । मन्य᳚मानाः ।
न । अवा᳚जिनम् । वा॒जिना᳚ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा᳚त् । न॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा खलु तपसः क्षयो मा प्रापदिति शापन्निवृत्तं मौनिनं विश्वामित्रं वसिष्थपुरुषा बद्ध्वानीतवन्तः । तान्प्रति विश्वामित्रो ब्रूते । हे जनासो जनाः सायकस्यावसानकारिणो विश्वामित्रस्य मन्त्रगनसामर्थ्यं न चिकिते । भविद्भिर्न ज्ञायते । अत एवं लिधं लुब्धं तपसः क्षयो मा भूदिति लोभेन तूष्णीं स्थितमृषिं पशु मन्यमानाः । पशु इति निपातः पशुशब्दसमानार्थः । पशुवन्मन्यमाना एते नयन्ति । बद्ध्वा स्वकीयं देशं प्रापयन्ति । एवं स्वसामर्थ्यं प्रदर्श्य विसदृशो वसिष्ठो मया सह स्पर्धितुं नार्हतिति धिक्करोति । नावाजिनमिति । अवाजिनम् । वाचामिनो वाजिनः सर्वज्ञः । तद्विलक्षणं मूर्खजनं वाजिना वागीशान हासयन्ति हास्यास्पदं न कुर्वन्ति । तेन सह नस्पर्धन्त इत्यर्थः । तथा गर्दभं रासभमश्वात्पुरः पुरुस्तान्ननयन्ति । एवमेव विसदृशो वसिष्ठो न मया स्पर्धितुमीश्ट इत्यर्थः ॥ २३ ॥