तृतीयं मण्डलम् - सूक्तम् 11

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 3.11 - सम्पूर्णम्

1 / 9
ऋक्: 3.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.11.1
अ॒ग्निर्होता᳚ पु॒रोहि᳚तो॑ध्व॒रस्य॒ विच᳚र्षणिः ।
स वे᳚द य॒ज्ञमा᳚नु॒षक् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । होता᳚ । पु॒रः॑हि᳚तः । अ॒ध्व॒रस्य᳚ । वि॑च᳚र्षणिः ।
सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वामित्रः स्तौति । होता देवानामाह्वाता पुरोहितः पुरत ऎवाभिमतफल सम्पादनक्त्वेन हितकारी । युअद्वा पुरः पूर्वभाग आवहनीयरूपेण हितो निहिति इति पुरोहिततः । अध्वरस्य यज्ञस्य विचर्षणिर्विशेषेण द्रष्टा विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । स तथाविधोऽग्निरानुषगानुपूर्व्येण सक्तं यज्ञमग्निष्टोमादिकं वेद । जानाति । वेद । विद ज्ञाने । विदो लटो वेति तिपो णलादेशः । लघूपदगुणः । निघातः । आनुषक् । आ समन्तादनुषजतीत्यानुषक् । षन्च सङ्गे । धातुषकारस्य सकारः । क्विप् चेति क्विप् । आनिदितामित्युपधालोपः । उपसर्गात्सुनोतीति षत्वम् ॥ १ ॥

3.11.2
स ह᳚व्य॒वाळम᳚र्त्य उ॒शिग्दू॒तश्चनो᳚हितः ।
अ॒ग्निर्धि॒या समृ᳚ण्वति ॥
▶ पदपाठः (Word-by-word)
सः । ह॒व्य॒॑वाट् । अम᳚र्त्यः । उ॒शिक् । दू॒तः । चनः᳚॑हितः ।
अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स हव्यवाट् हविषो वोढामर्त्यो मरणधर्मरहित उशिक् हविः कामयमानो दूतो देवानां दूतश्चा नसे हविर्लक्षणायान्नाय हितो निहितः । यद्वा चनोहितः । चनोऽऽन्न हविर्लक्षणं हितमस्येति चनोहितः । स तथाविधोऽग्निर्धिया प्रज्ञया समृण्वति । सङ्गच्छते । कर्मविषयप्रज्ञान्वितोऽग्निरस्मानपि तादुक्प्रज्ञान्वितान्करोत्वित्याशास्ते ॥ हव्यवाट् । वह प्रापणे । वहश्चेति ण्विः । धत्व जत्त्व चर्त्वानि । कृदुत्तरपदप्रकृतिस्वरत्वम् । उशिक् । वश कान्तौ । इजिरित्यनुवृत्तौ वशेः । किच्चेतीजिप्रत्ययः । तस्य कित्त्वात् ग्रहिज्येति सम्प्रसारणम् । प्रत्ययस्वरः । चनो हितः । चनः शब्दश्चायतेरन्ने ह्रस्वश्चेत्यनुनन्तु । चकारान्नुडागमः । तस्मिन्यलोपः । नित्त्वादाद्युदात्तः । पुनश्चनसोश्छन्दसि गतिसंज्ञा वक्तव्या । पा. १-४-६०-२ । इति गति सम्ज्ञायां गतिरनन्तर इति प्रकृति स्वरत्वम् । बहुव्रिहौ तु पूर्वपदप्रकृतिस्वरत्वम् । धिया । सावेकाच इति विभक्तेरुदात्तत्वम् । ऋण्वति । ऋणु गतौ । लेट तनादित्वादु प्रत्ययः । लेटोऽडाटावित्यडागमः । ॥ २ ॥

3.11.3
अ॒ग्निर्धि॒या स चे᳚तति के॒तुर्य॒ज्ञस्य᳚ पू॒र्व्यः ।
अर्थं॒ ह्य᳚स्य त॒रणि᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य᳚ । पू॒र्व्यः ।
अर्थ᳚म् । हि । अ॒स्य॒ । त॒रणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्याग्निष्टोमादेः केतुः प्रज्ञापकः पूर्व्यः पूर्वे भवशिरन्तनः स तथाविधोऽग्निर्धिया प्रज्ञया चेतति । सर्वं जानीते । अस्यै तादृशस्याग्नेरर्थं गमनस्वभावम् । तेजोऽस्याकाशे दृश्यमानस्य तमसस्तरणि हि । तारकं खलु । निर्वर्तकमिति यावत् ॥ चेतु । चिती संज्ञाने । निघातः । अर्थम् । ऋ गतौ उषिकुषिगर्तिभ्यस्थन्निति धन् । गुणः । नित्त्वादाद्युदात्तः । तरणि । तॄ प्लवनतरणयोः । अर्तिसृभृधृधमीत्यादिना निप्रत्ययः । गुणः । प्रत्ययस्वरः ॥ ३ ॥

3.11.4
अ॒ग्निं सू॒नुं सन᳚श्रुतं॒ सह᳚सो जा॒तवे᳚दसम् ।
वह्निं᳚ दे॒वा अ᳚कृण्वत ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । सू॒नुम् । सन᳚॑श्रुतम् । सह᳚सः । जा॒त॑वे᳚दसम् ।
वह्नि᳚म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसः सूनुं बलस्य् पुत्रं मथनरूपेण बलेन निष्पाद्यमानत्वात् सनशुत्रं सनातनत्वेन प्रसिद्धं जातवेदसं जातप्रज्ञं शमिममग्निं देवा हविर्भुजो देवा वह्निं हविषां वोढारमकृण्वत । अकुर्वत ॥ सनुश्रुतम् । शुश्रवणे । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वह्निम् । वह प्रापणे । निरित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अकृण्वत । कृवि हिंसाकरणयोः । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्छेत्युप्रत्ययः । अकारश्चान्तादेशः । लङ् व्यत्ययेनात्मनेपदम् । निघातः ॥ ४ ॥

3.11.5
अदा᳚भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु᳚षीणाम् ।
तूर्णी॒ रथ॒ः सदा॒ नवः᳚ ॥
▶ पदपाठः (Word-by-word)
अदा᳚भ्यः । पु॒रः॒॑ए॒ता । वि॒शाम् । अ॒ग्निः । मानु᳚षीणाम् ।
तूर्णिः᳚ । रथः᳚ । सदा᳚ । नवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मानुषीणां मनोर्जातानाम् विशां प्रजानां पुरएता सन्मार्गप्रदर्शनेनाग्रतो गन्तात एव तूर्णिस्ताः प्रजा वैदिककर्मप्रवर्तकत्वेनानुग्रहीतुं त्वरायुक्त आलस्यरहितो रथो हविषां वहनाद्रथसदृशः सदा सर्वदा तत्कर्मणि नवो नूतनः पुनर्मथनादभिनव एवं विधोऽग्निरदाभ्यः । अहिंस्यः । न केनापि तिरस्कार्य इत्यर्थः ॥ अदाभ्यः । दुन्धु दम्भे । दभेश्चेति वक्तव्यमिति कर्मणिण्यत् । उपधावृद्धिः । न दाभ्योऽदाभ्यः । न ञ्समासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वम् । पुरएता । इण् गतौ । ण्वुल्तृचाविति तृच् । गुणः । चित्त्वादन्तोदात्तः । मानुषीणाम् । मनोर्जातावञ्यतौ षुक् चेत्यञ् । टद्ढ्णञिति ङीप् । ञित्त्वादाद्युय्दात्तः । तूर्णीः । ञित्वरा सम्भ्रम इति धातोर्निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । ज्वरत्वरेत्यादिना ऊठ् । तस्य नित्वादाद्युदात्तः । संहितायां ढ्रलोपे पूर्वस्येति दीर्घः । रथः । हनिकुषिनीरमिकाशिभ्य इति क्थन्प्रत्ययः । क्त्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः नित्त्वादाद्युदात्तः । सदा स्वरादिष्वाद्युदात्तत्वेन हठितत्वादाद्युदात्तः ॥ ५ ॥

3.11.6
सा॒ह्वान्विश्वा᳚ अभि॒युज॒ः क्रतु᳚र्दे॒वाना॒ममृ᳚क्तः ।
अ॒ग्निस्तु॒विश्र᳚वस्तमः ॥
▶ पदपाठः (Word-by-word)
सा॒ह्वान् । विश्वाः᳚ । अ॒भि॒॑युजः᳚ । क्रतुः᳚ । दे॒वाना᳚म् । अमृ᳚क्तः ।
अ॒ग्निः । तु॒विश्र᳚वः॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभियुजोऽभियोक्त्रीर्विश्वाः सर्वाः सेनाः सह्वान्सहमानः स्वबलेन तिरस्त्कुर्वाणोऽत एवामृक्तः शत्रुभिरहिंसितो देवानां क्रतुः कर्ता हविष्प्रदानेन पोषक एवं भूतोऽग्निस्तुविश्रवस्तमः । तुविशब्दो बहुवाची । तुवि पुरु इति तन्नामसु पाठात् । श्रवः शब्दोऽन्नवाची । श्रव इत्यन्ननाम श्रूयते । नि. १८-३ । इति निरुक्तेऽभिधानात् । अतिशयेन बहुविधान्नोपेतो वर्तते । यस्मादेवं तस्मादस्मानपि बहुविधान्नोपेतान्कुअरोत्विति भावः ॥ साह्वान् । षह मर्षण इत्यस्य क्वसौ दाश्वान्साह्वान्मीढ्वांश्चेति निपातनाद्द्विर्वचनमिडागमश्च न भवति परस्मै पदं च भवति । क्वसुस्वरः । क्रतुः । कृञः कतुः । कित्त्वाद्गुणाभावः । प्रत्यय स्वरः । तुविश्रवस्तमः । तु वृत्तिहिंसापूर्तिषु । अस्मादौणादिकः किप्रत्ययः । कित्त्वाद्गुणाभावः । उपजादेशः । अन्तोदात्तः । श्रवः । श्रु श्रवणे । श्रूयतेऽन्नमिति कर्मण्यसुन्प्रत्ययः । अतिशयेन तुविश्रवा इत्यतिशायने तमबिति तमप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

3.11.7
अ॒भि प्रयां᳚सि॒ वाह᳚सा दा॒श्वा{4} अ᳚श्नोति॒ मर्त्य᳚ः ।
क्षयं᳚ पाव॒कशो᳚चिषः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्रयां᳚सि । वाह᳚सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः᳚ ।
क्षय᳚म् । पा॒व॒क॑शो᳚चिषः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दाश्वान् हविषां दाता मर्त्यो मनुष्यो यजमानो वाहसा हविषां वाहकेनाग्निना प्रयांस्यन्नान्यभ्यश्नोति । अभितः सर्वतः प्राप्नोति । किञ्च पावकशोचिषः शोधकदीप्तेरग्नेः सकाशात् क्षयं गृहं जाभ्यश्नोति ॥ प्रयांसि प्रीञ तर्पणे । अस्माद्धातोरन्तर्भावितण्यर्थादसुन्प्रत्ययः । प्रीणयन्ति भक्षमिति ष्रयांस्यन्नानि । नित्त्वादाद्युदात्तः । वाहसा । णिदित्यनुवृत्तौ वहिहाधाञ्छ्यश्छन्दसीत्यसुन् । दत्त्वादुपधावृद्धिः । नित्स्वरः । दाश्वान् । दातृ दान इत्यस्य क्वसौ दाश्वान्साह्वानिति व्याप्तौ । व्यत्ययेन परस्मैपदम् । निघातः ॥ ७ ॥

3.11.8
परि॒ विश्वा᳚नि॒ सुधि᳚ता॒ग्नेर᳚श्याम॒ मन्म᳚भिः ।
विप्रा᳚सो जा॒तवे᳚दसः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । विश्वा᳚नि । सु॑धि᳚ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म᳚॑भिः ।
विप्रा᳚सः । जा॒त॑वे᳚दसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदसो जातप्रज्ञा विप्रासो मेधाविनो होत्रादयो वयमग्नेस्तव सम्बन्धिभिर्मन्मभिर्मननीयैः स्तोमर्विश्वानि सर्वाणि सुधिता सुहितानि सुष्ठुहितान्यभिलषितानि वसूनि प्रयश्याम । सर्वतः प्राप्नुयाम । जातवेदस इत्यग्नेर्वाविशेषणम् । जातानि सर्वाणिवेत्तीति जातवेदाः सर्वज्ञ इत्यर्थः । एतादृशं जातवेदस्त्व्मग्नेरेवोचितमिति तद्विशेषणत्वं युक्तं ॥ सुधिता । डुधाञ् धारणपोषणयोरित्यसाद्भातोर्निष्ठायां छन्दसीत्यनुवृत्तौ सुधितवसुधितेत्यादिना निपातितः । शेश्छन्दसि बहुलमिति शेर्लुक् । गतिरनन्तर इति गतेः । प्रकृतिस्वरत्वम् । अश्याम अशूव्याप्तौ । बहुलं छन्दसीति श्नुप्रत्ययस्य लुक् । व्यत्ययेन परस्मैपदम् । यासुट् परस्मैपदेषूदात्त इति यासुत् । लिङ्ः सलोप इति सलोपः । अदन्तत्वाभावादियादेशो न भवति । मसः सकारस्य नित्यं ङित इति लोपः । निघातः । मन्मभिः । मनु अवबोधने । अन्येभ्योऽपि दृश्यन्त इति मनिन् । नित्स्वरः ॥ ८ ॥

3.11.9
अग्ने॒ विश्वा᳚नि॒ वार्या॒ वाजे᳚षु सनिषामहे ।
त्वे दे॒वास॒ एरि᳚रे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । विश्वा᳚नि । वार्या᳚ । वाजे᳚षु । स॒नि॒षा॒म॒हे॒ ।
त्वे इति᳚ । दे॒वासः᳚ । आ । ई॒रि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वार्या वरणीयानि सम्भजनीयानि विश्वानि सर्वाणि धनानि वाजेषुयुद्धेषु सनिषामहे । वयं सम्भजामहे । यतः कारणाद्देवासः पूर्वमस्माभिरिष्टा देवा अस्मदभिमतफलप्रदानाय त्वे त्वय्येरिरे । आ समन्तादगमन् । त्वयि पविष्टा इत्यर्थः । सर्वथापि त्वत्सकाशात् फलं लभेमहीति भावः । वार्या । वृङ् सम्भक्तौ । ऋहलोर्ण्यदिति ण्यत् । शेश्छन्दसि बहुलमिति शेर्लुक् । ईडवन्देत्यादिनाद्युदात्तः वाजेषु । वृषादित्वादाद्युदात्तः । सनिषामहे । वनषण सम्भक्तौ । धात्वादेः षः सः । लेटि सिब्बहुलमिति सिप् । सिप आर्धधातुकत्वादिडागमः । लेटोऽडाटावित्यडागमः । व्यत्ययेनात्मनेपदम् । निघातः । त्वे । युश्मच्छब्दस्य सप्तम्यान्तादेशः । सुपां सुलिगिति शे आदेशः । शे । पा. १-१-१३ । इति प्रगृह्यसंञा । ईरिरे । ईर गतवित्यस्मात्परस्य लिटो झस्य इरेजादेशः । इजादेश्च गुरुतम इत्याम्न भवति मन्त्रत्वात् । निघातः ॥ ९ ॥